Tuesday, June 20, 2006

श्रीकृष्णविलासकाव्यम्

श्रीकृष्णविलासकाव्यं, तस्य प्रतिश्लोकं क्रमेण अत्र लिखितम् भवति (विलासिनी-व्याख्या-समेतम्)

श्लोकाः -- उपोद्घातः, ३.१, ३.२, ३.३, ३.४, ३.५, ३.६, ३.७, ३.८, ३.९, ३.१०, ३.११, ३.१२, ३.१३, ३.१४, ३.१५, ३.१६, ३.१७, ३.१८, ३.१९, ३.२०, ३.२१, ३.२२, ३.२३ (अनुवर्तते)

श्रीकृष्णविलासकाव्यम् - उपोद्घातः

आख्यात-काव्य-पठने सर्वेषां संस्कृतछात्राणां इच्छा। भारतीयविद्यालयेषु क्रमेण अध्यापकेन एवं काव्यानि पाठितानि च। किन्तु विदेशे एवम् अवसरः एव कदाचित् न लभ्यते। बहुत्र, स्वपठनम् एव कर्तुं शक्यते। तेषु अहम् अन्यतमः। अन्तर्जालान्वेषणं कृत्वा मया ज्ञातं यत् काव्य-परिचय-कारणार्थम् एव दाक्षिण्यभारते केरलराज्ये काव्ये निर्मिते पुरा। इमे रामोदन्तकाव्यं, श्रीकृष्णविलासकाव्यं चेति। रोमोदन्तकाव्यं प्रायः सर्वैः श्रुतपूर्वम् एव। अन्तर्जाले अपि कैश्चित् छात्रैः तस्य पठनं कृतम्। किन्तु श्रीकृष्णविलासं अन्तर्जाले न लभ्यते। तस्य तृतीय-सर्गः सव्याख्या मया लब्धा। श्रीकृष्णबालक्रीडावर्णनं नाम तृतीय-सर्गः।

मूलम् -- श्री सुकुमारकवि विरचितं श्रीकृष्णविलासकाव्यम् बालक्रीडावर्णनं नाम तृतीयः सर्गः with Vilasini Sanskrit Commentary, English Translation, Exhaustive Notes etc T.K. Ramachandra Aiyar, M.A., B.O.L. Retired Principal Govt. Sanskrit College, Tripunithura. Published by R.S. Vadhyar & Sons. Book - Sellers & Publishers. Kalpathi, Palakkad - 678 003. 2004.

श्रीकृष्णविलासः ३.१

प्रातः प्रलम्बप्रमुखानमात्यान्
सर्वान् समाहूय स भोजराजः ।
सविभ्रमप्रेरितदृष्टदत्ते
स्थाने निषण्णानवदद्विनीतः ॥३.१॥

अन्वयः ॥ प्रातः सः भोजराजः प्रलम्बप्रमुखान् सर्वान् अमात्यान् समाहूय सविभ्रमप्रेरितदृष्टिदत्ते स्थाने निषण्णान् विनीतः (सन्) अवदत्॥

विलासिनी ॥ अथ अङ्कावतारन्यायेन कंसोपक्रममेव कविरुपन्यस्यति प्रातरित्यादिना -- प्रातः प्रभातसमय एव। अनेन प्रस्तुतस्य त्वरोक्ता। सः तथा विषण्णहृदयः भोजराजः कंसः प्रलम्बप्रमुखान् प्रलम्बारिष्टकेशिधेनुकादीन् अमात्यान् सचिवान् सर्वान् समस्तान्। न तु द्वित्रान्। अनेन कार्यगुरुत्वं दर्शितम्। समाहूय सम्यक् बहुमानपूर्वकमाहूय सविभ्रमं सविलासं यथा तथा प्रेरितया प्रवर्तितया दृष्ट्या दत्ते कल्पिते स्थाने प्रदेशे निषण्णान् प्राधान्यानुरूपमुपविष्टवान्। तानिति शेः। विनीतः विनयसम्पन्नस्सन् अवदत् उक्तवान्॥

तिप्पणीः ॥ भोजानां राजा भोजराजः। प्रमल्बः प्रमुखः येषां तान् प्रलम्बप्रमुखान्। सविभ्रमं यथा तथा प्रेरितया दृष्ट्या दत्ते सविभ्रमप्रेरितदृष्टीदत्ते स्थाने।

श्रीकृष्णविलासः ३.२

सन्दिह्य मोहाद्वसुदेववाक्यम्
मया प्रमाणीकृतभूतवाचा ।
हता नृशंसेन सुता भगिन्याः
तेनाविलं मे हृदयं यशोऽपि ॥३.२॥

अव्ययः ॥ प्रमाणीकृतभूतवाचा नृशंसेन मया मोहात् वसुदेववाक्यं सन्दिह्य भगिन्याः सुताः हताः। तेन मे हृदयं यशः अपि आविलम्॥

विलासिनी ॥ तमेवोक्तिप्रकारमाह - सन्दिह्येति॥ प्रमाणीकृता कारणत्वेनाङ्गीकृता भूतवाक् अशरीरवाणी येन तेन नृशंसेन पापेन लोकापवादविषयभूतेनति यावत्। मया वसुदेवस्य वाक्यम्--अलं तवानेनवधोद्यमेने--ति, --सर्वाण्यपत्यानी--त्यन्तर्भूतां वाणीं मोहात् अज्ञानात् सन्दिह्य भगिन्याः सुताः षट् हताः हिंसिताः। तेन हेतुना अविश्वस्य मे हृदयं मनः यशः कीर्तिरपि आविलं कलुषम्। उभयमपि अप्रकाशभूदित्यर्थः॥

तिप्पणीः ॥ अप्रमाणं प्रमाणं कृता प्रमाणीकृता। प्रमाणीकृता भूतवाक् येन तेन प्रमाणीकृतभूतवाचा।

श्रीकृष्णविलासः ३.३

जातां पुनः काञ्चन काञ्चनाभाम्
सुतां गतायुर्निशि हन्तुमैच्छम् ।
उत्प्लुत्य सा व्योम्नि जवादतिष्ठत्
शस्त्रोत्कटा दर्शितदिव्यरूपा ॥३.३॥

अन्वयः ॥ पुनः जातां काञ्चनाभां काञ्चन सुतां गतायुः (अहं) निशि हन्तुम् ऐच्छम्। दर्शितदिव्यरूपा सा जवात् उत्प्लुत्य शस्त्रोत्कटा व्योम्नि अतिष्ठत्॥

विलासिनी ॥ जातामिति ॥ पुनः जातां षट्पुत्रनिधनादुत्पन्नां काञ्चनाभां काञ्चनप्रभां काञ्चन ईदृशीति वक्तुमशक्यां महाप्रभावामिति यावत्। सुतां स्वसुः पुत्रीं गतायुरहं आसन्नमृत्युत्वादेवेत्यर्थः। गतायामिति पाठे गतायाम् अतीतायां निशि रात्रौ हन्तुमैच्छं प्रारब्धवानभूवमित्यर्थः। सा दर्शितदिव्यरूपा प्रकाशितदिव्याकृतिः उत्प्लुत्य मत्कारात् भ्रंशित्वा उद्गम्य शस्त्रैः नानारूपैः आयुधैः उत्कटा भीषणा जवात् क्षिप्रं व्योम्नि गगने अतिष्ठत् स्थितवती॥

तिप्पणीः ॥ काञ्चनस्य आभा यस्याः तां काञ्चनाभाम्। दर्शितं दिव्यं रूपं यया सा दर्शितदिव्यरूपा। शस्त्रैः उत्कटा शस्त्रोत्कटा।

श्रीकृष्णविलासः ३.४

नियम्य सा मातुल इत्यमर्षम्
प्रसेदुषी मामवदच्च बाला ।
अरिर्महीयानजनिष्ट भूमौ
तवोचितं सम्प्रति चिन्तयेति ॥३.४॥

अन्वयः ॥ सा बाला मातुल इति अमर्षं नियम्य प्रसेदुषी (सती) माम् अवदत् च। तव महीयान् अरिः भूमौ अजनिष्ट। सम्प्रति उचितं चिन्तय इति॥

विलासिनी ॥ नियम्येति ॥ सा प्रस्तुता बाला मातुल इति मातृसहोदर इति कृत्वा अमर्षं कोपं नियम्य प्रसेदुषी प्रसन्ना सती माम् अवदच्च उक्तवती च। भूमौ तव महीयान् उत्कृष्टः अरि शत्रुः अजनिष्ट जातः। सम्प्रति इदानीम् उचितं योग्यं यत् तत् चिन्तय विचारयेत्यवददिति सम्बन्धः॥

श्रीकृष्णविलासः ३.५

व्याहृत्य मां द्यां प्रति देवनारी-
गणैर्गतायामिति सेवितायाम् ।
देव्यामहं दुश्चरितं स्वमेव
स्मरन् विनिद्रो रजनीमनैषम् ॥३.५॥

अन्वयः ॥ इति मां प्रति व्याहृत्य देवनारीगणैः सेवितायां देव्यां द्यां गतायां (सत्यां) अहं स्वं दुश्चरितं स्मरन् एव विनिद्रः रजनीम् अनैषम्॥

विलासिनी ॥ व्याहृत्येति ॥ इति एवंप्रकारं मां प्रति व्याहृत्य उक्त्वा देवनारीगणैः अप्सरोगणैः सेवितायां तस्यां देव्यां द्यां स्वर्गं प्रति गतायां सत्याम् अहं स्वं मत्सम्बन्धि दुश्चरितं दुर्व्यापारं भगिनीपुत्रवधरूपमकृत्यमित्यर्थः। स्मरन् चिन्तयन्नेव विनिद्रः निद्रारहितः रजनीं रात्रिशेषम् अनैषम् अनयम्॥

तिप्पणीः ॥ विगतनिद्रः इति विनिद्रः।

श्रीकृष्णविलासः ३.६

युद्धेषु देवाः पुरुहूतमुख्याः
भग्ना मया स्थातुमशक्नुवन्तः ।
अश्वान् परित्यज्य विमुच्य नागान्
मुक्त्वा च शस्त्राणि दिशो द्रवन्ति ॥३.६॥

अन्वयः ॥ युद्धेषु मया भग्नाः पुरुहूतमुख्याः देवाः स्थातुं अशक्नुवन्तः (सन्तः) अश्वान् परित्यज्य नागान् विमुच्य शस्त्राणि च मुक्त्वा दिशः द्रवन्ति॥

विलासिनी ॥ युद्धेष्विति ॥ युद्धेषु सङ्ग्रामेषु मया भग्नाः पराजिताः पुरुहूतमुख्याः इन्द्रादयः देवाः स्थातुं स्वस्थाने वर्तितुम् अशक्नुवन्तः असमर्थाः सन्तः अश्वान् परित्यज्य उपेक्ष्य नागान् गजान् विमुच्य त्यक्त्वा शस्त्राणी आयुधानि च मुक्त्वा उज्झित्वा दिशः देशान्तराणि प्रति द्रवन्ति धावन्ति। इदानीमपि तथा दृश्यन्त इति वर्तमाननिर्देशः॥

तिप्पणीः ॥ पुरुहूतः मुख्यः येषां ते पुरुहूतमुख्याः देवाः।

श्रीकृष्णविलासः ३.७

तदेषु नैकोऽपि भुवं गतो मे
शक्नोति कर्तुं प्रतिकूलभावम् ।
महीयसः किं घटते परागः
समीरणस्याभिमुखं प्रसक्तुम् ॥३.७॥

अन्वयः ॥ तत् एषु एकोऽपि भुवं गतः मे प्रतिकूलभावं कर्तुं न शक्नोति। प्रागः महीयसः समीरणस्य अभिमुखं प्रसक्तुं किं घटते?

विलासिनी ॥ तदिति॥ तत् तस्माद्धेतोः एषु देवेषु मध्ये एकोऽपि भुवं गतः भूलोकं प्राप्तः मे प्रतिकूलभावं प्रतिपक्षत्वं कर्तुं न शक्नोति न समर्थो भवति। परागः भूरेणुः महीयसोऽतिमहतः समीरणस्य वायोः अभिमुखं यथा भवति यथा प्रसक्तुं प्रात्पुं किं घटते किं चेष्टते। न शक्तो भवेदित्यर्थः। अत्र देवपरागयोश्च प्राकरणिकाप्राकरणिकयोः बिम्बप्रतिबिम्बभावात् दृष्टान्तोऽलङ्कारः। तदुक्तम् -- चेद्विम्बप्रतिबिम्बत्वं दृष्टान्तस्तदलङ्कृति--रिति॥

श्रीकृष्णविलासः ३.८

किमन्यदार्ताभ्यवपक्तिकामः
सुरेषु सन्दर्शितपक्षपातः ।
अजायतोर्व्यामसुरान्निहन्तुम्
स एव मन्ये सरसीरुहाक्षः ॥३.८॥

अन्वयः ॥ आर्ताभ्यवपत्तिकामः सुरेषु सन्दर्शितपक्षपातः स एव सरसीरुहाक्षः असुरान् निहन्तुम् उर्व्याम् अजायत (इति) मन्ये। किमन्यत्?

विलासिनी ॥ किमिति॥ सः तादृक्प्रभावः सरसीरुहाक्षः विष्णुरेव आर्तानां दुःखितानां अभ्यवपत्तौ अनुग्रहे कामः अभिलाषः यस्य सः। अभ्यवपत्तिरनुग्रह--इत्यमरः। सुरेषु देवेषु सन्दर्शितः प्रकाशितः पक्षपातः स्नेहः येन तयाभूतः सन् असुरान् निहन्तुं असुरनिग्रहार्थं उर्व्यां अजायत जात इति मन्ये। किमन्यत् किमपि न तदेवेत्यर्थः। अयमेव हि देवीवचनेऽभिप्राय इति भावः॥

तिप्पणीः ॥ सरसीरुहे एव अक्षिणी यस्य सः सरसीरुहाक्षः। आर्तानाम् अभ्यवपत्तौ (अनुग्रहे) कामः यस्य सः आर्ताभ्यवपत्तिकामः। सुरेषु सन्दर्शितः पक्षपातः येन सः सन्दर्शितपक्षपातः॥

श्रीकृष्णविलासः ३.९

सर्वे वयं दैत्यकुलप्रसूताः
केनापि जाता भुवि कारणेन ।
स तेन सन्नह्यति जेतुमस्मान्
उक्तोऽयमर्थः किल नारदेन ॥३.९॥

अन्वयः ॥ वयं सर्वे दैत्यकुलप्रसूताः केनापि कारणेन भुवि जाताः। तेन सः अस्मान् जेतुं सन्नह्यति। अयम् अर्थः नारदेन उक्तः किल।

विलासिनी ॥ अस्तु स तावत् असुरान् किमस्माकं ततो हानिरिति चेत् अत्राह--सर्व इति॥ वयं अस्मदादयः सर्वे दैत्यकुले असुरकुले प्रसूताः उद्भुताः असुरा एवेत्यर्थः। केनापि अपरिज्ञेयेन कारणेन निमित्तेन भुवि जाताः भूमौ मानुषत्वेन वर्तामहे। तेन हेतुना सः विष्णुः अस्मान् जेतुं परिभवितुं सन्नह्यति उद्युक्तः। कुतः भवतेदमधिगतमिति चेत् अत्राह--अयं अर्थः वयं ससुरांशसम्भवा इत्येष वृत्तान्तः नारदेनोक्तः। किलेति प्रसिद्धौ। युष्माभिः अविदितपूर्वम् इति भावः॥

श्रीकृष्णविलासः ३.१०

अतस्तदुच्छेदविधौ विनिद्राः
यतध्वमद्यैव बलानुरूपम् ।
नखाग्रलाव्यस्तरुरङ्कुरात्मा
परश्वधस्यापि ततोऽतिभूमिः ॥३.१०॥

अन्वयः ॥ अतः (यूयं) विनिद्राः (सन्तः) तदुच्छेदविधौ अद्य एव बलानुरूपं यतध्वम्। तरुः अङ्कुरात्मा नखाग्रलाव्यः; ततः परश्वधस्य अपि अतिभूमिः (भवेत्)॥

विलासिनी ॥ तत् किम् अस्माभिः कर्तव्यमिति चेदत्राह--अत इति॥ अतः अस्मात् कारणात् यूयं विनिद्राः जाग्रद्बुद्धयः तस्य विष्णोः उच्छेदविधौ उन्मूलनकर्मणि बलानुरूपं शक्तिसदृशम् अद्यैव इदानीमेव यतध्वं प्रयत्नं कुरुत। प्रयतिष्यामहे क्रमेण किं त्वरयेति चेत् अत्र दृष्टान्तेन त्वरयति--नखेति॥ तरुः वृक्षः अङ्कुरात्मा अङ्कुरावस्थः नखाग्रेण लाव्यः छेतुं शक्यः। अथवा अवश्यं लाव्यः छेदनीय एवेत्यर्थः। ततः उपरि अङ्कुरावस्थायां उपेक्षितः सन् परश्वधस्य निशितबृहत्कुठारस्यापि अतिभूमिः अतिक्रान्तविषयः स्यादिति शेषः॥

तिप्पणीः ॥ तस्य उच्छेदविधौ तदुच्छेदविधौ। बलस्य अनुरूपं बलानुरूपम्। नखाग्रेण लाव्यः नखाग्रलाव्यः॥

श्रीकृष्णविलासः ३.११

यस्मिन् भवत्याश्रितवत्सलत्वम्
विप्रेषु यस्यास्ति विशेषसङ्गः ।
मनोहरं यश्च बिभर्ति रूपम्
वधं स बालोऽर्हति मत्सकाशात् ॥३.११॥

अन्वयः ॥ यस्मिन् आश्रितवत्सलत्वम् भवति, यस्य विप्रेषु विशेषसङ्गः अस्ति, यश्च मनोहरं रूपं बिभर्ति, सः बालः मत्सकाशात् वधम् अर्हति॥

विलासिनी ॥ सः कुत्रास्ते? कथं वा ज्ञायत इति चेदत्राह -- यस्मिन्निति॥ यस्मिन् बाले आश्रितेषु जनेषु वत्सलत्वं वात्सल्यं भवति। यस्य विप्रेषु विशेषेण अतिशयेन सङ्गः शक्तिः अस्ति। आसाधारणा भक्तिरिति यावत्। यश्च मनोहरं द्रष्ट्रीणाम् आनन्दकरं रूपं बिभर्ति। त्रयो ह्येते विष्ण्वंशसम्भवा इति भावः। तदुक्तम्--विप्रेषु भक्तो विधुरो दयालुः विद्याविशुद्धो विमलाङ्गकान्तिः। विवेकशाली च विभाव्यते यः स एव विष्णुर्भुवि मर्त्यरूप--इति। सः तादृशः बालः मत्सकाशात् वधम् अर्हति। भवद्भिः सः हन्तव्यः इत्यर्थः॥

तिप्पणीः ॥ आश्रितेषु वत्सलः आश्रितवत्सलः, तस्य भावः आश्रितवत्सलत्वम्। विशेषेण सङ्घः विशेषसङ्घः

श्रीकृष्णविलासः ३.१२

मखाश्च तत्प्रीतिकृतो निवार्याः ।
निवारणीया श्रुतिरग्रिमाऽपि ।
तृणीकृताशेषजनप्रभावा
संस्तौति या तन्महिमानमेव ॥३.१२॥

अन्वयः ॥ (भवद्भिः) तत्प्रीतिकृतः मखाः च निवार्याः, अग्रिमा श्रुतिः अपि निवारणीया; या (श्रुतिः) तृणीकृताशेषजनप्रभावा तन्महिमानम् एव संस्थौति॥

विलासिनी ॥ मखा इति॥ भवद्भिः तस्य विष्णोः प्रीतिकृतः प्रियङ्कराः मखाः यागाश्च निवार्याः निहन्तव्याः। अग्रिमा श्रुतिः उपनिषत् सा च निवारणीया निरोद्धव्या। किम् अन्या वरितयेति चेदत्राह--या श्रुतिः तृणीकृतः तृणवत् अनादृतः अशेषस्य विष्णुव्यतिरिक्तस्य जनस्य प्रभावः उत्कर्षः यया तादृशी सती तस्य विष्णोः महिमानं महत्त्वमेव संस्थौति सम्यक् प्रशंसति तस्याम् अनिवारितायां तद्वर्द्धिता विष्णुभक्तिः लोकस्य न विरमेदिति भावः॥

तिप्पणीः ॥ तस्य प्रीतिं कुर्वन्तीति प्रीतिकृतः। तृणीकृतः अशेषस्य जनस्य प्रभावः यया सा तृणीकृताशेषजनप्रभावा।

श्रीकृष्णविलासः ३.१३

गते विरामं गरुडध्वजेऽस्मिन्
मखेषु सर्वत्र निवारितेषु ।
सुरेषु सर्वेष्वपि दुर्बलेषु
हस्ते भविष्यत्यमरावती नः ॥३.१३॥

अन्वयः ॥ मखेषु सर्वत्र निवारितेषु (सत्सु), अस्मिन् गरुडध्वजे विरामं गते (सति) सर्वेषु देवेष्वपि दुर्बलेषु (सत्सु) अमरावती नः हस्ते भविष्यति॥

विलासिनी ॥ गत इति॥ अस्मिन् अस्मान् द्वेष्टुम् अवतीर्णे गरुडध्वजे विष्णौ विरामम् अवसानं गते सति, सर्वत्र सर्वप्रदेशेषु मखेषु यज्ञेषु अथवा सर्वेषु नित्यनैमित्तिकेषु कर्मसु निवारितेषु प्रतिषिद्धेषु सत्सु, सर्वेषु सुरेषु देवेष्वपि दुर्बलेषु क्षीणबलेषु। अन्नमेव हि शरीरिणां बल--मिति वचनात् मखप्रणाशात् मखाशिनः पुनः न जीवेयुरिति भावः। अतः तेष्वपि बलहीनेषु सत्सु, अमरावती नः अस्माकं हस्ते भविष्यति अधीना भविष्यतीत्यर्थः॥

श्रीकृष्णविलासः ३.१४

इत्यूचिषस्तस्य पदोपकण्ठम्
नीराजयन्तो मकुटप्रभाभिः ।
अवादिषुर्विक्रमदर्पितास्ते
कृताट्टहासध्वनिकम्पितासाः ॥३.१४॥

अन्वयः ॥ इति ऊचिषः तस्य पदोपकण्ठं मकुटप्रभाभिः नीराजयन्तः ते विक्रमदर्पिताः, (अत् एव) कृताट्टहासध्वनिकम्पिताशाः (सन्तः) अवादिषुः॥

विलासिनी ॥ इतीति॥ ते प्रलम्बप्रमुखाः इत्यूचिषः एवम् उक्तवतः तस्य कंसस्य पदोपकण्ठं चरणसमीपं मकुटानां किरीटानां प्रभाभिः नीराजयन्तः नीराजनविधिमिव कुर्वन्तः। पदान्तिके प्रणमतः इत्यर्थः। विक्रमेण स्वपराक्रमेण दर्पिताः सञ्जाताहङ्काराः अत एव कृतेन अट्टहासध्वनिना सिंहानादेन कम्पिताशाः चलितदिगन्ताः सन्तः अवादिषुः उक्तवन्तः॥

तिप्पणीः ॥ पदयोः उपकण्ठं (समीपं) पदोपकण्ठम्। कृतस्य अट्टहासस्य ध्वनिना कम्पिताः आशाः यैः ते कृताट्टहासध्वनिकम्पिताशाः।

श्रीकृष्णविलासः ३.१५

किं चिन्तया पार्थिव भुङ्क्ष्व भोगान्
अस्मासु जीवत्सु कुतो रिपुस्ते ।
कथं मयूखेषु परिस्फुरत्सु
सरोजबन्धोस्तमसाऽभिभूतिः ॥३.१५॥

अन्वयः ॥ हे पार्थिव! चिन्तया किम्? भोगान् भुङ्क्ष्व। अस्मासु जीवत्सु (सत्सु) ते रिपुः कुतः? मयूखेषु परिस्फुरत्सु सरोजबन्धोः तमसा अभिभूतिः कथम्?

विलासिनी ॥ उक्तिप्रकारमाह--किमिति॥ हे पार्थिव राजन् चिन्तया किं प्रयोजनम्। विचिन्तयन्दुश्चरितं मदीय--मित्यादि यदुक्तं भवता तथाविधदुश्चिन्ता न कर्तव्येत्यर्थः। भोगान् इच्छानुरूपसुखसाधनानि भुङ्क्ष्व। कामचरानुज्ञायाम् लोट्। अस्मासु मन्त्रिप्रवरेषु सत्सु ते तव रिपुः शत्रुः कुतः कुत्र सम्भवति। अत्र दृष्टान्तमाह--मयूखेषु रश्मिषु परितः सर्वतः स्फुरत्सु प्रदीप्यमानेषु सत्सु सरोजबन्धोः सुर्यस्य तमसा अन्धकारेण अभिभूतिः अभिभवः कथं भवति। तमः कर्तृकात्मापजयः कथं स्यादित्यर्थः।

तिप्पणीः ॥ सरोजानां बन्धुः सरोजबन्धुः।

श्रीकृष्णविलासः ३.१६

अमातरिश्वानमहव्यवाहम्
असूर्यशीतांशुमवज्रपाणिम् ।
अनच्युतेशानपितामहं च
द्रष्टासि राजन्नचिरेण लोकम् ॥३.१६॥

अन्वयः ॥ हे राजन्! लोकं अचिरेण अमातरिश्वानम् अहव्यवाहम् असूर्यशीतांशुम् अवज्रपाणिम् अनच्युतेशानपितामहं च द्रष्टासि॥

विलासिनी ॥ अमातरिश्वानमिति॥ ये राजन्! त्वं लोकं भुवनं अचिरेण क्षिप्रमेव मातरिश्वा वायुः न विद्यते यत्रापि तादृशं द्रष्टासि द्रक्ष्यसि। एवं उत्तरत्रापि। अविद्यमानः हव्यवाहः अग्निः यत्र। अविद्यमानौ सूर्यशीतांशू यत्र। अविद्यमानः वज्रपाणिः इन्द्रः यत्र। अविद्यमानः अच्युतः विष्णुः ईशानः शिवः पितामहः ब्रह्मा यत्र, तथाविधं द्रष्टासि॥

तिप्पणीः । न विद्यते मातरिश्ना यस्मिन् सः अमातरिश्वानः। न विद्यते हव्यवाहः यस्मिन् सः अहव्यवाहः। अविद्यमानौ सूर्यांशुश्च सूरशीतांशू यस्मिन् सः असूर्यशीताम्शुः। अविद्यमानः वज्रपाणिः यस्मिन् सः अवज्रपाणिः। अविद्यमानाः अच्युतश्च ईशानश्च पितामहश्च अच्युतेशानपितामहाः यस्मिन् सः अनच्युतेशानपितामहः।

श्रीकृष्णविलासः ३.१७

इत्यूचिषस्तानुचितोपचारैः
सम्भाव्य कृत्येषु समादिदेशः ।
स देवकीमानकदुन्दुभिं च
विमोचयामास च बन्धनस्थौ ॥३.१७॥

अन्वयः ॥ सः इति ऊचिषः तान् उचितोपचारैः सम्भाव्य कृत्येषु समादिदेश। बन्धनस्थौ देवकीं आनकदुन्दुभिं च विमोचयामास च॥

विलासिनी ॥ इतीति॥ सः कंसः इत्यूचिषः एवम् उक्तवतः तान् प्रलम्बादीन् उचितैः योग्यैः उपचारैः अन्नपानाभरणादिसम्मानैः सम्भाव्य पूजयित्वा कृत्येषु जगद्ध्वंसनरूपकार्येषु समादिदेश सम्यक् नियुक्तवान्। बन्धनस्थौ बन्दने स्थितौ आनकदुन्दुभिं च विमोचयामास विगतबन्धौ कृतवान् च॥

तिप्पणीः ॥ उचितः उपचारः उचितोपचारः॥

श्रीकृष्णविलासः ३.१८

लब्ध्वा निधानं न तथा दरिद्रो
गतिं समासाद्य तथा न पङ्गुः ।
तथा न चान्धो दृशमाप्य हृष्येत् ।
यथाऽऽप्तपुत्रस्स जहर्ष नन्दः ॥३.१८॥

अन्वयः ॥ आप्तपुत्रः सः नन्दः यथा जहर्ष तथा दरिद्रः धनं लब्ध्वा न हृष्येत्, पङ्गुः गतिः समाराद्य तथा न हृष्येत्, अन्धश्च दृशम् आप्य तथा न हृष्येत्॥

विलासिनी ॥ आप्तपुत्रः प्राप्ततनयोत्पत्तिः सः नन्दः नन्दगोपः यथा येन प्रकारेण जहर्षं दृष्टवान् तथा तादृशप्रकारं दरिद्रः निर्धनः निधानं निक्षेपकुम्भं लब्ध्वाऽपि न हृष्येत् हृष्टः न भवेत्। तथा पङ्गुः पदाखञ्जः गतिं स्वच्छन्दगमनं समासाद्य प्राप्य न हृष्येत्। तथा अन्धः नष्टलोचनः दृशं दर्शनम् अवाप्य लब्ध्वा च न हृष्येदिति। एषां यः हर्षः भवेत् ततोऽधिको नन्दस्य हर्षः अभूदित्यर्थः॥

तिप्पणीः ॥ आप्तः पुत्रः येन सः आप्तपुत्रः।

श्रीकृष्णविलासः ३.१९

तपने चरमाचलं प्रपन्ने
तमसा च स्थगितेषु दिङ्मुखेषु ।
यमुनातटवासिनं तमूचे
वसुदेवः प्रतिपद्य नन्दतोपम् ॥३.१९॥

अन्वयः ॥ तपने चरमाचलं प्रपन्ने (सति), दिङ्मुखेषु तमसा स्थगितेषु च (सत्सु), वसुदेवः यमुनातटवासिनं नन्दगोपं प्रतिपद्य तम् ऊचे ॥

विलासिनी ॥ तपन इति॥ तपने सूर्ये चरमाचलम् अस्ताचलं प्रपन्ने प्राप्ते सति तमसा अन्धकारेण दिङ्मुखेषु दिगन्तरेषु च स्थगितेषु आच्छदितेषु सत्सु वसुदेवः यमुनातटे वस्तुं शीलमस्येति तथाभूतं तनयोत्पत्तिहृष्टं नन्दगोपं प्रतिपद्य प्राप्य बहुमान्य च। "प्रतिपत्तिस्तु गौरवे। प्राप्ता"विति वचनात्। ऊचे उक्तवान्। वसन्तमालिकावृत्तमिदम्। विषये ससजा गुरू समे चेत् समरा यश्च वसन्तमालिका स्या--दिति लक्षणात्॥

श्रीकृष्णविलासः ३.२०

तपसा तव नन्दगोप मन्ये
फलितं जन्मसहस्रसञ्चितेन ।
ऋणमन्त्यमपोहितुं त्वदीयम्
यदयं पुत्रनिधिः समाविरासीत् ॥३.२०॥

अन्वयः ॥ (हे) नन्दगोप! तव जन्मसहस्रसञ्चितेन तपसा फलितं (इति) मन्ये, यत् त्वदीयम् अन्त्यं ऋणम् अपोहितुम् अयं पुत्रनिधिः, आविरासीत् ॥

विलासिनी ॥ तपसेति॥ हे नन्दगोप! तव जन्मसहस्रेषु बहुषु जन्मान्तरेषु सञ्चितेन समूहीहृतेन तपसा फलितं फलं दर्शितमिति अहं मन्ये कल्पयामि। यत् यस्मात् कारणात् पुत्र एव निधिः निक्षेपः अन्त्यं ऋणं पितृविषयं सन्तत्या निष्क्रेतव्यं त्वदीयं तव ऋणम् अपोहितुं निराकर्तुं सम्यक् आविरासीत् आविर्भूतः। लब्ध्वनिक्षेपेण किं दुर्लभं ऋणमोचनमिति द्योत्यते॥

तिप्पणीः ॥ जन्मसहस्रेषु सञ्चितं जन्मसहस्रसञ्चितम्।

श्रीकृष्णविलासः ३.२१

इह खेलति पूतनेति कृत्या
शिशुहत्यानिरता पुरोपकण्ठे ।
तदहर्निशमत्र रक्षणीयो
नयनानन्दकरः सुतस्त्वयाऽयम् ॥३.२१॥

अन्वयः ॥ इह पुरोपकण्ठे शिशुहत्यानिरता पूतना इति कृत्वा खेलति, तत् अत्र त्वया नयनानन्दकरः अयं सुतः अहर्निशं रक्षणीयः॥

विलासिनी ॥ इहेति॥ इह अस्मिन् प्रदेशे पुरस्य उपकण्ठे समीपे शिशुहत्यायां बालवधे नितरा तत्परा पूतनेति पूतनाख्या कृत्या पिशाची खेलति सलीलं सञ्चरति। शिशुमारणमेव अस्याः क्रीडेति भावः। तत् तत्माद्धेतोः अत्र अस्मिन् समये त्वया नयनयोः आनन्दकरः अयं सुतः पुत्रः अहर्निशं अहनि निशायां च रक्षणीयः रक्षितुमर्हः॥

तिप्पणीः ॥ पुरस्य उपकण्ठः पुरोपकण्ठः। शिशुहत्यायां निरता शिशुहत्यानिरता। अहनि निशायां च अहर्हिशम्॥

श्रीकृष्णविलासः ३.२२

अथवा किमिवास्यते त्वयाऽस्मिन्
निजमुत्सृज्य पदं पुरोपकण्ठे ।
सविधे न वसन्ति बुद्धिमन्तः
फणिनो वायुसखस्य भूपतेश्च ॥३.२२॥

अन्वयः ॥ अथवा त्वया निजं पदम् उत्सृज्य अस्मिन् पुरोपकण्ठं किमिव आस्यते? बिद्धिमन्तः फणिनः, वायुसखस्य भूपतेश्च सविधे न वसन्ति॥

विलासिनी ॥ अन्यच्च। राजकुलसञ्चारोऽप्यनुचितम् इत्याह -- अथवेति॥ अथवेति पक्षान्तरद्योतकमव्ययम्। त्वया निजम् आत्मीयं पदं स्थानं गोकुलम् उत्सृज्य उपेक्ष्य अस्मिन् पुरस्य उपकण्ठे राजधान्याः समीपे किमिव किमर्थम्। किमिवेत्येकमव्ययम्। आस्यते स्थीयते। तत् असाम्प्रतमित्याह--बुद्धिमन्तः मतिमन्तः विवेकिन इत्यर्थः। फणिनः सर्पस्य, वायुसखस्य अग्नेः, भूपतेः राज्ञश्च सविधे सन्निधौ न वसन्ति न वासं कुर्वन्ति। अपायस्य अतिसुलभत्वादिति भावः॥

तिप्पणीः ॥ वायोः सखा वयुसखः। भुवः पतिः भूपतिः।

श्रीकृष्णविलासः ३.२३

प्रतिवेदि निविष्टपूर्णकुम्भम्
विलसत्तोरणमुज्वलत्प्रदीपम् ।
व्रज गोकुलमाकुलं प्रजाभिः
भवदीयागमनप्रहर्षिणीभिः ॥३.२३॥

अन्वयः ॥ (त्वं) प्रतिवेदि निविष्टपूर्णकुम्भं विलसत्तोरणम् उज्वलत्प्रदीपं भवदीयागमनप्रहर्षिणीभिः प्रजाभिः आकुलं गोकुलं व्रज॥

विलासिनी ॥ अस्मिन् समये तु विशेषतः न परित्याज्यं गोकुलमित्याह--प्रतिवेदीति॥ त्वं गोकुलं गोष्ठं व्रज गच्छ। प्राप्तकाले लोट्। तदागमने तत्र सभाव्यमानविशेषमाह विशेषचतुष्टयेन--प्रतिवेदि वेदिषु निविष्टपूर्णकुम्भं निहितकनकादिपूर्णकलशं विलसत्तोरणम् उच्छ्रितधजादिना शोभमानबहिर्द्वारम्। तोरणोऽस्त्रीबहिर्द्वार--मित्यमरः। उज्वलन्तः प्रज्वलनः प्रदीपाः यस्मिन् तथाभ्‌तम्। भवदीयेन आगमनेन हेतुना प्रहर्षिणीभिः प्राप्तहर्षशीलाभिः प्रजाभिः गोपगोपीजनैः आकुलं सङ्कीर्णम्। भवत्प्राप्तावेवं भविष्यतीत्यर्थः॥

तिप्पणीः ॥ वेद्यां वेद्यां प्रतिवेदि। निविष्टाः पूर्णकुम्भाः यस्मिन् तत् निविष्टपूर्णकुम्भम्। विलसत् तोरणं यस्मिन् तत् विलसत्तोरणम्। उज्वलन्तः प्रदीपाः यस्मिन् तत् उज्ज्वलत्प्रदीपम्।