Wednesday, December 12, 2007

पादत्राणम्


गजाः अपि पादत्राणानि धर्तुम् इच्छन्ति ननु ! सिङ्गपुरे, जन्तुशालायां, गजानां पादवेदनां शामयितुं विशिष्ट-पादत्राणानि धारयन्ति एते हस्तिपाः। कियता धार्ष्ट्रेन भवितव्यं तैः !!

विश्व-दक्षिणे

अद्य, एकस्मिन् अन्तर्जाल-पत्रिकायां, एकस्य विश्व-दक्षिण-वासिनः प्रबन्धकस्य वीक्षणं कृतम्। शोधनं कर्तुं, केचन जनाः विश्वस्य दक्षिणतमे भागे (सौत्-पोल्) वसन्ति। तत्रत्यं अनिवार्य-शैत्यम् अनूह्यम्। तथापि केचन जनाः तत्रैव वसन्ति। सङ्गणक-साहाय्यार्थं अपि केचन तत्र कार्यं कुर्वन्ति। तेषां प्रबन्धकस्य वीक्षणं कृतं सद्यः। तत्र, सः वदति यत् कदाऽपि अधिक-शैत्यं भवति --ऊन १००--इति। तदा किं कुर्वन्ति एते? अन्ते एव तिष्ठन्ति खलु?

न तथा। अन्ते, ऊष्ण-प्रकोष्ठः एकः अस्ति। तत्र, तापं २०० कारयित्वा सह्यमानाः अन्ते तिष्ठन्ति। अनन्तरं बहिः गत्वा नग्न-प्रदक्षिणं कृत्वा अन्ते आगच्छन्ति। ये एवं कुर्वन्ति तेषां गणस्य नाम -- त्रिशत-गणः इति !!!

Tuesday, December 11, 2007


वार्षिकपुरस्काराः तु सामान्याः, किन्तु केचन विशिष्ट-पुरस्काराः प्रति-वर्ष-चतुष्टयमेव दीयन्ते। यथा विश्व-क्रीडा--आलम्पिक् नाम्ना। अग्रे इयं स्पर्धा चीन-देशे प्रचलिष्यति। अतः तत्र नूतनाङ्ग-निर्माणं तीव्रेण प्रचलत् अस्ति। अस्मिन् चित्रे गौणे नूतन-क्रीडा-भवनं दृश्यते। तत्रत्यैः पौरैः इयं -- नीडं -- इति अभिधीयते॥