Pages

Thursday, August 10, 2006

मातृभाषा

भारत-देशः एकः देशः, परन्तु पुरातन-काले अनेकाः राज्याः आसन्. प्रथमतः, प्रतिराज्यम्, संस्कृतम् एव मातृभाषा आसीत् प्रायः. परन्तु, अनेकाः वर्षाः अनन्तरम्, अनेकेषु राज्येषु, अनेकाः भाषाः अविकसन्. ततः, अद्य अपि तेलुगु, तमिल्, कन्नदा, हिन्दी इत्यादि भाषाभिः अनेकाः जनाः भाषन्ते. अमेरिका-देशे, एकः विश्वविद्यालयस्य संस्कृत-शिक्षकः उक्तवान्--भारत-देशं गत्वा, एकस्मिन् विद्यालये प्रविश्य, शिक्षिकाः अपश्यम्. कर्नाटक-राज्ये आसीत्, परन्तु सा भाषा अज्ञाता. किं कर्तव्यं इति अचिन्तयम्. ततः, संस्कृत-भाषया एव मन्दं मन्दं सर्वम् उक्तम्. छात्राः अहसन्, परन्तु, शिक्षिकाः मां अवागच्छन्! (शिक्षिकाः हसतः बालकान् छात्रान् दृष्ट्वा, बालकाः मौनाः भूत्वा, ते छात्राः प्रकोष्ठे धावितवन्तः) तस्मिन् समये, अहं निश्चयेन ज्ञातवान्, संस्कृत-भाषा एव भारत-देशस्य मातृभाषा--इति सः अमेरिका-देशीयः अध्यापकः उक्तवान्.

No comments:

Post a Comment