Pages

Monday, August 13, 2007

आकाङ्क्षा रघुवंशे

पूर्वं, आकाङ्क्षा का इति अत्र लिखिता। अनेन एव क्रमेण जिनसमुद्रेण रघुवंशस्योपरि भाष्यं लिखितम्। उदाहरणं पश्यामः --

निवर्त्य राजा दयितां दयालुः
तां सौरभेयीं सुरभिर्यशोभिः ।
पयोधरीभूतचतुः समुद्राम्
जुगोप गोरूपधरामिवोर्वीम् ॥२.३॥

दयालुः सः राजा तां सौरभेयीं जुगोप ररक्ष।
किं कृत्वा? दयितां निवर्त्य।
कथंभूतो राजा? यशोभिः सुरभिः श्रेष्ठः।
धेनुं कामिव? गोरूपधराम् उर्वीमिव।
कथंभूता उर्वी? पयोधरीभूतचतुःसमुद्रां, पयसा अधरीभूताः चत्वारः समुद्राः यस्याः सा, ताम्।
उर्वीपक्षे अपयोधराः पयोधराः सम्पन्नाः चत्वारः समुद्राः यस्याः सा, ताम्।

No comments:

Post a Comment