Pages

Friday, January 18, 2008

अक्षराः, तेषां वर्णाः च

सर्वेऽपि जनाः न समानाः। केचन विद्वांसः, केचन क्रीडानिपुणाः। केषाञ्चन मनसि नानाविधरोगाः। एकः रोगः एवमस्ति -- अस्मिन् लेखे बहवः अक्षराः वर्तन्ते। सर्वेऽपि कृष्ण-वर्णाक्षराः प्रायेण। अथवा लिप्याः वर्णं परिवर्त्य सर्वेऽपि अक्षराः रक्ताः स्युः। किन्तु, केचन जनाः सन्ति येषाम् अनुभवः एवं नास्ति। कथं तर्हि? सर्वस्य अक्षरस्य वर्णः पृथक् अस्ति। अतः ब्दः इत्येवं दृश्येत। यत्र यत्र श-कारः अस्ति, तत्र तत्र तस्य समानवर्णः। आङ्ग्लभाषिनी एका महिला बाल्ये एवम् अनुभूता -- कदाचित् P एवं R अनयोः रेखमात्रभेदः। अतः R इति लेखितुं प्रथमं P इति लेखनीयं, अनन्तरं रेखा योजनीया। किन्तु आश्चर्यम् !! रेख्यायां योजनायां सति, P पीतवर्णाक्षरः R कषायवर्णाक्षरः अभूत् !!

No comments:

Post a Comment