Pages

Wednesday, November 26, 2008

मुंबय्यां विस्फोटाः

अधुना वाचिकं यत् भारते, मुंबईनगरे स्फोटक-विस्फोटाः प्रचल्यमानाः सन्ति। युगपत् विभिन्नस्थलेषु कुहृदयैः कारितम्। आबालवृद्धाः स्वर्गम् प्रेषिताः। वार्तां प्राप्य, दुःखकथाः श्रुत्वा, चित्राणि दृष्ट्वा आर्द्रहृदयाः वयम्। किमर्थं एते अवराः मूढ-मतयः स्फोटक-हस्ताः आर्त-जनकाः सामान्य-पौर-हननाः नरक-गन्तारः एवम् आचरन्तीति आ-जीवन-कादम्बिनी कदापि न अवगम्यते। क्लैब्यमिदम्। देवः प्रार्थनीयः। किन्तु अभिमुखम् एव स्थातव्यं, न तु पलायनीयम्। सङ्घौ शक्तिः कलियुगे इति सूक्तिः। एतेषां मलकीटानां सङ्घानां परिणामः तु अनुभूयते। कदा वा वयं सर्वे धर्मरक्षणे समाजसेवायां संलग्नाः भवेम? कदा वा बद्धकटाः हस्ताहस्ति एकदृष्ट्या -- पर्याप्तम् -- इति क्रोशेण उत्तिष्ठेम?

Thursday, November 20, 2008

अष्टपद! क्व गतः?

चन्द्रगमनात् आकाशगमनात् वा देशस्य ख्याति-वृद्धिः भवेत्। कदापि अनपेक्षितं अपि भवेत्। यू-एस्-देशात् मासारम्भे यानं ISS-प्रति गतम्। तदा ज्ञान-वृद्ध्यर्थं अष्टपद-द्वयं अपि नीतम्। अष्टपदेन किं आकाशे जीवितुं शक्यते? किं तत्र जालं अपि निर्मातुं शक्यते इति द्वौ प्रश्नौ। किन्तु, यदा भूलोकः प्राप्तः, अभिज्ञातं यत् एकः षट्पदः अदृष्टं गतः। कदा, कुत्र, कथं इत्यादयः प्रश्नाः उदभवन्। तथापि, अवशिष्ट-अष्टपदेन किं जीव्यते? जालं किं मञ्जूषायां वर्तते? उत्तरे केनापि न उच्येते! द्वाभ्यां प्रश्नाभ्यां यानम् आकाशं गतं, पञ्च प्रश्नेभ्यः निवर्तितम्!

अहो! समासः बाधते

नामरामायणं लोके विश्रुतम्। शुद्धब्रह्मपरात्पर राम! इति आरभ्यते। रामसम्बोधनपदानि सर्वाणि, तेभ्यः रामायणस्य पुनर्कथनं च। सर्वाणि अपि सम्बोधनपदानि समस्तपदानि च। अतः केनचित् भागेन समासः अभ्यस्तः। तत किञ्चित् नाम -- विश्वामित्रप्रियधन राम -- इति। यत्र अनुवादः कृतः, तत्र -- रामस्य प्रियतमं धनं -- इति भावः। किन्तु व्याकरण-दृष्ट्या कथं एवं साधयेत् इति शङ्का जाता। यतः, धनं नपुंसकलिङ्गपदम्। रामः तु पुरुषः। तदा, केनचित् मित्रेण पञ्चषाः नानार्थाः कल्पिताः। मित्रेण तदा बोधितं -- इतः एव समास-सौन्दर्यम्, इतः एव समास-बाधा च -- इति। अहो तथ्यमिदम्।

Monday, November 17, 2008

परमहंसः

श्रेष्ठतराः सन्न्यासिनः परमहंसाः इति कथ्यते। हंस-लक्षणं विवेचनम्। तत् यथा अस्मिन् श्लोके निर्दिष्टम् --

हंसस्य चोर्ध्व-गमने गतिर्भवति निश्चला।
तत्त्वाऽतत्त्व-विवेकोऽस्ति जल-दुग्ध-विभागवत्॥
अज्ञान-ज्ञानयोस्तत्त्वं विेवेचयति हंसकः। (शिवपुराणे १५।१०)

आह्वान-पत्रिकायां मङ्गल-श्लोकः

शुभावसरेषु अवश्यं संस्कृतेनापि आह्वान-पत्रिकाः प्रेषणीयाः। शीर्षकं मङ्गल-पूर्वकं भवतु इति परम्परा। संस्कृतं देवभाषा, अतः संस्कृतेन लिखिता पत्रिका मङ्गल-पत्रिका एव ... न केवलं शीर्षके! तथाऽपि श्लोकयुगलं सरलसंस्कृतेन --

मङ्गल-ध्वनि-गानश्च बभूव बहु सर्वतः।
वाद्य-ध्वनिरभूद् रम्यो सर्वानन्द-प्रवर्धनः॥

Friday, November 14, 2008

गायत्र्याः अर्थः -- मन्त्रदीपिकायाम्

(पाठद्वयस्य मिश्रणं कृतम्। अन्तिम-वाक्यार्थ-भेदत्वात् द्वेऽपि दीयेते)

तत् ब्रह्म परमं नित्यं ध्येयं यत् सूर्यमण्डले।
सवितुः सकलोत्पत्ति-स्थिति-संहार-कारिणः॥

वरेण्यं आश्रयणीयं यदाधारं इदं जगत्।
भर्गस्य साक्षात्कारेण विद्या तत्-कार्य-दाहकम्॥

देवस्य ज्ञान-रूपस्य स्वानन्दात् क्रीडतोऽपि वा।
धीमह्यहं स एवेति तेनैवाभेद-सिद्धये॥

धियोऽन्तःकरणे वृत्तीः प्रत्यक् प्रवण-चारिणीः।
य इत्यरूपं अव्यक्तं सत्य-ज्ञानादि-लक्षणम्।

नोऽस्माकं बहुधाध्यस्तभेदेनानेक-देहिनाम्।
प्रचोदयात् प्रेरयितुः सत्य-ज्ञानादि-लक्षणम् ॥
प्रचोदयात् प्रेरयितुं प्रार्थनीयं विधीयते॥

गायत्र्याः अर्थः -- लघु

विश्वामित्रेण --
देवस्य सवितुस्तस्य धियो यो नः प्रचोदयात्।
भर्गो वरेण्यं तद्ब्रह्म धीमहीत्यर्थ उच्यते॥

अगस्त्येन --
यो देवः सविताऽस्माकं धियो धर्मादिगोचरः।
प्रेरयेत् तस्य यद्भर्गः तद्वरेण्यं उपास्महे॥

मन्त्रदीपिकायाम् --
देवस्य सवितुस्तेजो वरेण्यं भर्गसंज्ञितम्।
ध्यायेमहीति शब्दोक्तौ धीमहीत्यर्थ उच्यते॥

गायत्र्याः अर्थः -- वैद्यनाथदीक्षितेन

सवितुः सर्वजगतः प्रसवितुः जगत्कारणस्य देवस्य द्योतनस्वभावस्य स्वयं प्रकाशचिदेकरसस्य वरेण्यं वरणीयं सर्वैः प्रार्थनीयं सुखैकतानरूपं सर्वैः सुखस्यैव प्रार्थनीयत्वात्। भर्गः भ्रस्जदाहे प्रकृतिप्राकृतलक्षणसंसारस्य दाहकं यः धियः धी-वृत्तीः प्रचोदयात् सदा प्रेरयति। तस्य बुध्यादि-प्रेरकस्य सवितुः देवस्य वरेण्यं परमानन्दैकरसं भर्गः सकारान्तः संसारदाहकं निर्गुणं धीमहि ध्यायामः इति।

गायत्र्याः अर्थः -- निरुक्तभाष्ये

यद्ब्रह्म नित्यं हृदि सन्निविष्टं
मां प्रेरयेत् तिष्ठति नः सुबुद्धिः।
भर्गस्तदाख्यं भजनीयं एतत्
ध्यायामि नित्यं रविमण्डलस्थम्॥

देवस्य सवितुर्मध्ये यो भर्गो नो धियः स्वयम्।
प्रचोदयात् तत्वरेण्यं धीमहीत्यन्वयक्रमः॥

द्युस्थानात् द्योतनाद्वाऽपि भानुर्देव उदाहृतः।
जगत्प्रसव-हेतुत्वात् स एव सविता भवेत्॥

तत्सम्बन्धी च यो भर्गः पापानां भञ्जकत्वतः।
अस्माकं कार्यविषये बुद्धीः प्रेरयतीह यः॥
तद्ब्रह्म प्रार्थनीयं स्याद्वरणीयं उपास्महे।

ध्येयः सदा सवितृ-मण्डल-मध्यवर्ती
नारायणः सरसिजासन-सन्निविष्टः।
केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्मय-वपुर्धृत-शङ्खचक्रः॥

Tuesday, November 11, 2008

बलवन्तं प्रार्थयामहे

ईश्वरः किमर्थं प्रार्थ्यते इति पृष्टे सति, केषाञ्चन मतं यत् सः बलतरः इति। निर्धनिकः धनलाभाय धनवन्तं एव प्रार्थयते, न तु अपरं निरुपायम् इति न्यायेन। यतः, अपरः निर्बलः कथम् अस्मान् रक्षेत्।

Monday, November 10, 2008

मन्त्रश्लोकः

भारतगमने, सदा देवालय-अटनं क्रियते। तथा एकदा प्रसिद्धं हनुमतः क्षेत्रं गतः। भक्ताः स्वाकाङ्क्षां पत्रे सम्यक् लिखित्वा, नालिकेरसहितं रज्जुना बद्ध्वा आकाङ्क्षा-वरार्थं प्रार्थयन्ते। तदा रामायणस्य कस्यचन मन्त्रश्लोकस्य उच्चारणं करणीयम् इति प्रक्रिया। तत्तु भित्तौ आङ्ग्ललिप्या मुद्रितम्। न तु लिप्यान्तरेण! दीर्घता कुत्र, महाप्राणता कुत्र इति कथं वा ज्ञातव्यम्? अर्चके पृष्टे सति, न कोऽपि लाभः। इदानीं लेश-मात्रेण संस्कृत-ज्ञानेन स्पष्टं भवति। अपि च, अनन्तरं देवनागरीलिप्या मुद्रिते ग्रन्थेऽपि श्लोकः लब्धः।

त्वम् अस्मिन् कार्य-निर्योगे प्रमाणं हरि-सत्तम!।
हनुमन्! यत्नं आस्थाय दुःख-क्षय-करो भव॥

एवं सीता, हनुमते स्व-चूडामणिं दत्त्वा, उपदिशति। अतः सकल-कार्य-सिद्ध्यर्थं भक्ताः मन्त्रत्वेन जपन्ति।

समत्वम् -- गीता

गीतायाः ख्यातोक्तिः -- समत्वं योग उच्यते (२।४८)। तथैव सा पुनर्वदति -- समः सङ्ग-विवर्जितः (१२।१८)। भाष्ये ज्ञानेश्वरः उदाहरति --

य आत्मानं रोपयति यः शस्त्रेण च्छिनत्ति च।
उभयोः सदृशीं छायां यथा वृक्षः प्रयच्छति॥१२।१९९

वृक्षः सर्वेभ्यः छायां प्रयच्छति, शीतलत्वं प्रयच्छति, पक्षपातं विना। ते वृक्षस्य आरोपनं किं कृतवन्तः इति अचिन्तयित्वा। आरोपनं नाम बीज-वपनं, सेचनम् इत्यादीनि। तथैव छायास्थः किं शस्त्रेण छिनत्ति इति अचिन्तयित्वा। तथा वयमपि सर्वेभ्यः संस्कृतं प्रयच्छामः।

नाम, केचन संस्कृतभारती-द्वारा किञ्चित् पठित्वा, द्रोहिणः भविष्यन्ति। भवतु। दोषारोपणं अपि ते संस्कृतेन यथा कुर्युः तथा प्रयतामहे। अपि च, स्मरणीयं -- अहिंसा परमो धर्मः -- इत्यस्याः उक्तेः पूरणं -- धर्महिंसा तथैव च -- इति।

Sunday, November 09, 2008

विवाह-पत्रिका -- उदाहरणं ३

स्वस्ति श्रीचान्द्रमानेन (अमुक)नामसंवत्सरे (अमुक)तिथौ (अमुक) वासरे dd-mm-yy रात्रौ hh:mm समये सुमुहूर्ते देवाग्निद्विजसन्निधौ ... सह विवाह-शुभ-महोत्सवः भविष्यतीति महद्भिः सुनिश्चितम्। शुभेऽस्मिन् प्रसङ्गे भवन्तः सकुटुम्ब-बन्धु-मित्र-समेताः समागत्य वधूवरौ स्वीयामोघ-शुभाशीर्भिः अभिनन्द्य अस्मान् प्रमोदयन्तु।

स्थानम् -- ...

विवाह-पत्रिका -- उदाहरणं २

स्वस्तिश्री (अमुक)संवत्सरस्य (अमुक) मासे (अमुक) दिने (अमुक) पक्षे (अमुकस्मिन्) तिथौ (dd-mm-yyyy तमे दिनाङ्के) (अमुक) वासरे (अमुक) अह्णे hh:mm वादने (अमुक) लग्ने सुमुहूर्ते ... इत्यनयोः विवाह-महोत्सवः गुरुजनैः श्रीकुलदेवतानुग्रहेण निश्चितः। ... प्रचलिष्यमाणे अतिथिसत्कार-कार्यक्रमे भवन्तः सकुटुम्बं समुपस्थाय वधूवरौ आशीर्भिः अनुगृह्णन्तु इति सप्रश्रयं प्रार्थयामहे।

विवाह-पत्रिका -- उदाहरणं १

श्रीमद्भ्यः (अमुकेभ्यः) सन्तु नमांसि भूयांसि / सन्त्वाशिषः। उभयकुशलोपरि।
स्वस्ति श्रीयुत (अमुक) नाम संवत्सरे (एवं अयने, मासे, पक्षे, तिथौ, नक्षत्रे, योगे) शुभतिथौ (dd-mm-yyyy) प्रातः (hh:mm घण्टायाः परं hh:mm घण्टायाः पूर्वं) (अमुक) लग्ने कन्यका-प्रदानं कर्तुं शुभ-मुहूर्तः सर्व-शक्तेः ईश्वरस्य कृपां पुरस्कृत्य श्री-भूषित जगद्गुरु शङ्कराचार्य-वर्याणां परिपूर्णाज्ञाऽनुग्रह पुरस्सरं महद्भिः निश्चितोऽस्ति। अयं च शुभमुहूर्तः (अमुक) क्षेत्रे (एवं मण्डपे) प्रचलिष्यति। तदनुग्रहाय श्रीमन्तः सपरिवाराः समेत्य शुभ-मुहूर्तं सम्यक् निर्वर्त्य दम्पती अनुगृह्य आशीभिर्योजयन्तु इति सप्रश्रयम् अभ्यर्थये।

विवाह-आह्वान-पत्रिका

वयं सर्वे संस्कृतानुरागिणः षोडशसंस्कारान्, अन्यानि शुभ-कार्याणि च आचरामः। तदा तु संस्कृत-मित्रेभ्यः आह्वान-पत्रिकां संस्कृतेन अपि प्रेषयामः। न्यूनातिन्यूनं विवाह-समये। तदा, मङ्गल-श्लोकः कः वा स्थाप्यते पत्रिकायाम्? द्वित्राः श्लोकाः --

शिव-पार्वत्योः --
पाणि-ग्रहे पर्वत-राज-पुत्र्याः पादाम्बुजं पाणि-सरोरुहाभ्याम्।
अश्मानं आरोपयतः स्मरारेः मन्दस्मितं मङ्गलं आतनोतु॥

सीता-रामयोः --
जानक्याः कमलामलाञ्जलिपुटे याः पद्मरागायिताः।
न्यस्ता राघव-मस्तके च विलसत्कुन्दप्रसूनायिताः।
ग्रस्ताः श्यामल-काय-कान्ति-कलिता या इन्द्र-नीलायिताः।
मुक्तास्ताः शुभदा भवन्तु भवतां श्रीराम-वैवाहिकाः॥

शिवपुराणात् --
तदानीं दिव्य-नार्यश्च षोडशारं समाययुः।
तौ दम्पती च संद्रष्टुं महादर-पुरःसरम्॥५०-२१

पुनः सीत-रामयोः --
स्वयंवरे किल प्राप्ता त्वं अनेन यशस्विना।
राघवेनेति मे सीते कथा श्रुतिं उपागता॥ रामायणे अयो॰ ११८।२४

वेदात् --
गृभ्णामि॑ ते सौभग॒त्वाय॒ हस्तं॒ मया॒ पत्या॑ ज॒रद॑ष्टि॒र्यथासः॑।
भगो॑ अर्य॒मा स॑वि॒ता पुरं॑धि॒र्मह्यं॑ त्वादु॒र्गार्ह॑पत्याय देवाः॥ (ऋ॰१०।८५।३६)