Pages

Monday, August 03, 2009

पश्चिमे भारते वा गौरवम्?

मित्रेण श्रुतम् इदम् -- भारते लघुतमेऽपि ग्रामे सर्वे विद्युत्सङ्केतं (email) कुर्वन्ति, यद्यपि सङ्गणककुशलता न स्यात्। विपण्यादीषु पृष्टे सति, सङ्केतं दीयते। किन्तु तद्द्वारा सम्पर्कः असम्भवः, यतो हि पठिता नास्ति। अरण्ये रोदनम् यथा। बहुधा, वयम् अमेरिका-वासिनः कमपि भारतीयग्रन्थं क्रेतुम् इच्छामः। लघ्वापणस्य विद्युत्सङ्केतं प्रति पत्रं प्रेष्यते, किन्तु कुतोऽपि न प्रत्युत्तरितम्। इदानीं मूलकारणं ज्ञातम् ! दूरवाणी एव बलवत्तरा।

किमर्थम् आचारोऽयम्? यतः सर्वेऽपि आधुनिकाः भवितुम् इच्छन्ति। आधुनिकः नाम पाश्चात्यः ननु? अस्माकं गूढेतिहासं श्रुत्वा सदा चिन्त्यते, अहं पश्चिमे स्थिते मम अनुरागः भारते। अन्ये भारते स्थिते तेषां अनुरागः पश्चिमे। अहो बत! विचित्रोऽयं विधाता।

एकदा केनाऽपि अहं पृष्टः -- किमर्थं संस्कृतेन इतिवृत्तलेखनम् -- इति। तदा उत्तरितं -- विभिन्नभाषाभिः अन्तर्जाले एतादृशलेखनम्। आहत्य, प्रत्येकं सप्त-पठितारः स्युः। प्रतिदिनं मम पत्रस्य अष्टपठितारः स्युः। अहो संस्कृतस्य प्रभावः यत् कश्चनः अधिकः पठिताऽपि स्यात्!

आदौ लेखनाभासाय पुटम् इदम् आरब्धम्। ततः मङ्गलवचनानि, मित्रप्राप्तिः, लेखने काचित् वृद्धिः -- फलानि अनेकानि। अतः एव भाषावर्गे सदा निवेद्यते -- यदि पठितॄणां गणनां विना लिख्येत, प्रभावः तु भवति एव। दोषाः तु सहजाः। तत्र यदि पठितृभिः मार्गदर्शनं क्रियते, अनुगृहीतो भवामि।

No comments:

Post a Comment