tag:blogger.com,1999:blog-85873592024-03-05T02:04:01.825-08:00जयतु जयतु संस्कृतम्यथामति यथारुचि संस्कृतलेखनम्अनामकःhttp://www.blogger.com/profile/13238655109874739775noreply@blogger.comBlogger292125tag:blogger.com,1999:blog-8587359.post-43111423205761917122016-02-07T10:52:00.000-08:002016-02-07T10:52:50.535-08:00This blog has moved permanently.This blog has now moved to http://aupasana.com/blogs/sanskrit.html.
kalidasa.blogspot.com will no longer be updated.अनामकःhttp://www.blogger.com/profile/13238655109874739775noreply@blogger.com0tag:blogger.com,1999:blog-8587359.post-38604334816853269032015-01-12T09:38:00.000-08:002015-01-12T09:38:07.141-08:00दुष्टः काकः -- बालनीतिकथा १.३रचयिता -- वैद्यः रामस्वरूपशास्त्री
एकः नृपः आसीत् । स प्रासादे अवसत् । तस्य प्रासादस्य अङ्गणे उद्यानम् अभवत् । तस्मिन् बहवः पादपाः आसन् । तेषु काकः हंसश्च सखायौ आस्ताम् । काकः स्वभावेन खलः आसीत् । सर्वे राजकुमाराः तं हंसं काकं च पर्यचिन्वन् । एकदा खेलतः राजकुमारस्य हारः भूमौ अपतत् । हारः बहुमूल्यैः रत्नैः कृतः आसीत् । काकः तं भूम्यां पतितम् अपश्यत् । स तूष्णीं तम् आदाय अगच्छत् । नृपस्य पुरुषाः अनामकःhttp://www.blogger.com/profile/13238655109874739775noreply@blogger.com0tag:blogger.com,1999:blog-8587359.post-68389708255430301582015-01-10T23:27:00.000-08:002015-01-10T23:27:04.575-08:00सुभाषितम् -- अदृष्टे दर्शनोत्कण्ठाअदृष्टे दर्शनोत्कण्ठा दृष्टे विच्छेदभीरुता ।नादृष्टेन न दृष्टेन भवता लभ्यते सुखम् ॥ (१०४३)
युवतिः कान्तं प्रति -- भवान् दृष्टः स्यात्, अदृष्टो वा स्यात् ... भवता न किञ्चित् अपि सुखं लभ्यते । यतो हि, अदृष्टे सति, तव दर्शनस्य उत्कण्ठता वर्तते । दृष्टे सति, पुनर्विरहात् मे भयम् ॥अनामकःhttp://www.blogger.com/profile/13238655109874739775noreply@blogger.com0tag:blogger.com,1999:blog-8587359.post-2156854383634803492015-01-09T14:04:00.000-08:002015-01-09T14:04:25.176-08:00महाभारतस्य लेखकः गणेशःमूलम् -- आदिपर्वणि प्रथमोऽध्यायः (५५-८३)
व्यासः महाभारतं कृत्वा अचिन्तयत् -- "कथं शिष्यान् अध्यापयानि" इति । तदा लोकगुरुः ब्रह्मा स्वयं तत्र आजगाम । तं दृष्ट्वा विस्मितः व्यासः आसनं कल्पयामास । अनुज्ञातः सन् आसनाभ्याशे निषसाद, उवाच च -- "भगवन् ! मया परमपूजितं काव्यं इदं कृतं, परं न कश्चित् लेखकः विद्यते" इति । तदा ब्रह्मा उवाच -- "काव्यस्य लेखनार्थं गणेशः स्मर्यताम्" इति ।
ततः व्यासः हेरम्बं अनामकःhttp://www.blogger.com/profile/13238655109874739775noreply@blogger.com2tag:blogger.com,1999:blog-8587359.post-63118591879130014872015-01-09T03:14:00.000-08:002015-01-09T03:15:41.185-08:00धूर्तः शृगालः -- बालनीतिकथा १.२रचयिता -- वैद्यः रामस्वरूपशास्त्री
एकः शृगालः आसीत् । स वनेऽवसत् । एकदा स जलं पातुं वापीम् अगच्छत् । स जलेऽपतत् । तस्मिन्नेव क्षणे कश्चित् छागः तत्रागच्छत् । स अपि पिपासितः आसीत् । स तम् अपृच्छत् -- "अहो मित्र ! अपि वर्तते मधुरं जलम् ?" शृगालः अवदत् -- "मधुरमिति किं कथयामि, केवलं पीयूषमेव । वारं वारं पीत्वापि तृप्तो न भवामि । न कामये हातुं जलमिदम् " ।
छागः सरलहृदयः आसीत् । स दुर्जनस्य तस्य अनामकःhttp://www.blogger.com/profile/13238655109874739775noreply@blogger.com0tag:blogger.com,1999:blog-8587359.post-84786414174920632802015-01-07T10:16:00.001-08:002015-01-07T14:44:48.468-08:00लुब्धो दाशः -- बालनीतिकथा १.१रचयिता -- वैद्यः रामस्वरूपशास्त्री
पुरा धारानगर्यां कश्चिद् दाशः आसीत् । स एकां कुक्कुटीम् अपालयत् । परमा अद्भुता आसीत् सा कुक्कुटस्त्री । सा नित्यं सौवर्णम् अण्डम् अददात् । दाशस्तु तस्य सौवर्णस्य अण्डस्य विक्रयेण कुटुम्बम् अपुष्यत् । सुवर्णं लब्ध्वा तस्य तृष्णा अवर्धत । स अर्थस्य संग्रहं कर्तुं प्रवृत्तः । धनसञ्चये प्रसक्तः स दाशः एकदा अचिन्तयत् --
किन्न एकपदे सर्वं सुवर्णं कुक्कुटस्त्रियाः ।
अनामकःhttp://www.blogger.com/profile/13238655109874739775noreply@blogger.com0tag:blogger.com,1999:blog-8587359.post-90660975201615758262015-01-04T16:32:00.000-08:002015-01-04T16:34:01.199-08:00कुट्टनीमतम् -- औन्नत्यम्कुट्टनीमतकाव्ये वाराणसीवर्णने त्रीणि दीर्घसमस्तपदानि विद्यन्ते । तत्र सर्वत्र नैरन्तर्यं ध्वनितम् । एकैकं तानि पद्यानि अवलोकयामः ।
अतितुङ्ग-सुरनिकेतन-शिखर-समुत्क्षिप्त-पवन-चलिताभिः ।
मञ्जरितमिव विराजति यत्र नभो वैजयन्तीभिः ॥६॥
उन्नताः देवालयाः, तदूर्ध्वभागेषु वायुना कम्पिताः वैजन्त्यः (पताकाः) । तैः मञ्जरितम् इव सञ्जातपुष्पगुच्छम् इव नभः विराजति यत्र (वाराणस्याम्) । अनेन दीर्घसमासेन साधु अनामकःhttp://www.blogger.com/profile/13238655109874739775noreply@blogger.com0tag:blogger.com,1999:blog-8587359.post-78846415762364300212014-12-31T13:47:00.000-08:002015-01-04T16:33:03.529-08:00मधुराविजयम् -- कविवर्णनम् (भट्टबाणः)कवयित्र्याः गङ्गादेव्याः मधुराविजयनामकं काव्यं मनःप्रीतिनदीकमलिनीचन्द्रिका इत्यत्र नास्ति अतिशयोक्तिः । प्रथमसर्गे कविपरम्परावर्णने --
वाणी-पाणि-परामृष्ट-वीणा-निक्वाण-हारिणीम् ।
भावयन्ति कथं वान्ये भट्टबाणस्य भारतीम् ॥१-८॥
पूर्वेषु श्लोकेषु आदिकविं वाल्मीकिं, तथा व्यासं कालिदासं च प्रणम्य सद्यः बाणभट्टं स्तोतुम् उद्युक्ता कवयित्री । बाणस्य वाक् (भारती) कीदृशी ? सरस्वत्याः (वाण्या) हस्तेन (अनामकःhttp://www.blogger.com/profile/13238655109874739775noreply@blogger.com0tag:blogger.com,1999:blog-8587359.post-29552478560167415482011-02-08T07:36:00.001-08:002011-02-08T07:47:12.202-08:00दीपशिखाकालिदासःश्रूयते विद्वद्वचनम् -- उपमा कालिदासस्य भारवेरर्थगौरवम्दण्डिनः पदलालित्यं माघे सन्ति त्र्यो गुणाः ॥ सर्वस्मिन्नपि श्लोके काचित् उपमा निरूप्यते कालिदासेन । प्रेक्षकैः अतिमात्रं कालिदासवचनानि परिशील्य, तस्य काचित् उपमा एव विशेषणत्वेन उपक्षेपिता । कुतः इयम् उपमा इति पृष्ठे -- संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ॥६,६७॥ अनामकःhttp://www.blogger.com/profile/13238655109874739775noreply@blogger.com10tag:blogger.com,1999:blog-8587359.post-69966563901329489272011-02-04T22:08:00.001-08:002011-02-04T22:09:51.223-08:00अमरकोषस्य समाहृतिःअमरकोषस्य विश्वप्रशस्तस्य प्रस्तावना अनावश्यकी । भारतरत्नेषु इदमपि अन्यतमम् । तथापि कथञ्चित् इमे अमूल्यग्रन्थाः केवलं पूज्यन्ते । अद्यत्वे कण्ठस्थीकरणपरम्परा नष्टा इव । अतः शतकेऽस्मिन् कैश्चन विद्वद्भिः अमरकोषस्य नूतनं संक्षिप्तं संस्करणं प्रकाशितम् । यत्र अमरसिंहस्यैव पद्धतिम् अनु श्लोकाः केचन विरचिताः, अन्ये अनूदिताश्च । अमरकोषः -- १५०० श्लोकाः अमरकोषसंग्रहः -- ६६६ श्लोकाः अमरसारः -- ५३० अनामकःhttp://www.blogger.com/profile/13238655109874739775noreply@blogger.com1tag:blogger.com,1999:blog-8587359.post-57448057866145164602011-01-30T07:40:00.001-08:002011-01-30T07:40:40.904-08:00अमरकोषःयथा काव्यप्रवेशस्तरे प्रशस्तः रामोदन्तः प्रयुज्यते, तथैव कुत्रचित् ग्रन्थान्तरं रामायणसङ्ग्रहो नाम । यस्य च आदिमः श्लोकः -- सीतारामपादाब्जान् अभिवाद्य तनोम्यहम् ।सुखबोधाय बालानां श्रीरामायणसङ्ग्रहम् ॥ प्राचीनपद्धत्या तु शब्दरूपावलिं धातुरूपावलिं तथा अमरकोषं कण्ठस्थीकृतवन्तः गुरवः, तदधीनाः छात्राश्च सर्वत्र प्रकाशं क्षिप्त्वा पठन्ति स्म । तद्यथा -- पादाग्रं प्रपदं, पादः पदङ्घ्रिश्चरणोऽस्त्रियाम्अनामकःhttp://www.blogger.com/profile/13238655109874739775noreply@blogger.com0tag:blogger.com,1999:blog-8587359.post-31725261757557353442011-01-29T22:53:00.001-08:002011-01-29T22:53:20.551-08:00विभक्तयःविदितं सर्वैर्यत् सप्तसु विभक्तिषु कारकाणि षट् इति । तद्यथा श्लोकेन स्मर्यते -- कर्ता कर्म च करणं संप्रदानं तथैव च ।उपादानाधिकरणे चेत्याहुः कारकाणि षट् ॥ सप्ताहान्ते प्राथमिकवर्गे कस्मिंश्चित्, विभक्त्यर्थः प्राकाश्यत । तत्र यदा कारकसंज्ञाः उक्ताः, प्रतिपदार्थः बोधनीयः अभवत् । तद्यथा -- किमिदं संप्रदानत्वं, किमिदम् उपादानत्वम्, इत्यादयः प्रश्नाः पृष्टाः । संज्ञया संज्ञीबोधः सहसा न सञ्जातः । अनामकःhttp://www.blogger.com/profile/13238655109874739775noreply@blogger.com0tag:blogger.com,1999:blog-8587359.post-88287142810261405872011-01-20T08:22:00.001-08:002011-01-20T08:23:15.698-08:00अमात्यगुणाःरामायणे अयोध्यावर्णने मन्त्रिणः सुवर्णिताः । तेषु विशेषणेषु अन्यतमानि सर्वजनजीवितयोग्यानि -- विद्याविनीताः -- विद्याविनयोभयसंपन्नाः यथावचनकारिणः -- यथावचनं कुर्वन्ति, सत्यप्रतिज्ञाः स्मितपूर्वाभिभाषिणः -- निर्मत्सरत्वम् सततं प्रियवादिनः एवं च राजगुणं संहरति -- प्रजानां पालनं कुर्वन्नधर्मं परिवर्जयन् अनामकःhttp://www.blogger.com/profile/13238655109874739775noreply@blogger.com3tag:blogger.com,1999:blog-8587359.post-52463617599305205462011-01-15T11:24:00.001-08:002011-01-15T11:24:48.005-08:00अयोध्याख्यातदशरशासिता पुरी इयम् । सा च सत्यनामा इति वाल्मीकिना विवृतम् । सत्यनामा यथार्थनामा अन्वर्थनामा । अत्र टीकाकारैरुच्यते -- न कैश्चित् योधितुं शक्या इति अयोध्या अयोभिः विष्णुब्रह्मशिवैः ध्यायते नित्यं स्मर्यते या सा अयोध्या द्वितीयार्थप्रकाशः कुत इति प्रश्नः । यदि भवद्भिः प्रेक्षावद्भिः ज्ञायते, कृपया सूचनीयाः अत्र वयम् । अनामकःhttp://www.blogger.com/profile/13238655109874739775noreply@blogger.com10tag:blogger.com,1999:blog-8587359.post-79186408498079014742011-01-14T04:51:00.001-08:002011-01-14T05:31:29.799-08:00कथोपायःआबालवृद्धं सर्वमपि विविधाभिः कथाभिः कालं नयति । अतः तत्रैव ऋषिभिः इहलोकतथ्यानि परलोकतथ्यानि च सूत्रितानि । अयं च कथोपायः इति कथ्यते । महर्षिवाल्मीकिना रामायणं, तथैव चतुर्मुखब्रह्मणः पुनर्चोदनात् योगवासिष्ठं च ग्रथिते । तत्रैव उत्तरग्रन्थे उच्यते -- “कथोपायान् विचार्यादौ मोक्षोपायान् इमान् अथ । यो विचारयति प्राज्ञो न स भूयोऽभिजायते” -- इति । टीकाकारः उपबृंहति -- कथा एव अनामकःhttp://www.blogger.com/profile/13238655109874739775noreply@blogger.com0tag:blogger.com,1999:blog-8587359.post-56918069659584942842010-12-03T09:05:00.000-08:002010-12-03T09:34:39.135-08:00उपनिषदःदुःखत्रयाभिघातानां संसारिणां शब्दब्रह्म वेदः परात्परमार्गः। मार्गत्रयं प्रस्थानत्रयम् आश्रियते आस्तिकैः। स च -- उपनिषदः, भगवद्गीता, ब्रह्मसूत्रं चेति। यद्यपि गीता स्वयं भगवता श्रीकृष्णेन उच्चरिता, तथाऽपि तस्याः पौरुषेयत्वं विद्यते। पुनश्च आस्तिकदृष्ट्या उपनिषदः मूलग्रन्थः प्रकृतिः। तस्य ग्रन्थस्य द्वे विकृती। गीता नाम प्रमाणीकृताः शिथिलीभूताः उपनिषदः। ब्रह्मसूत्रं नाम युक्त्या घनीभूताः उपनिषदः। अनामकःhttp://www.blogger.com/profile/13238655109874739775noreply@blogger.com3tag:blogger.com,1999:blog-8587359.post-37347998039207633032010-11-29T12:58:00.000-08:002010-11-29T12:58:01.733-08:00प्रकरणग्रन्थपठनम्प्रायशः सर्वेषां संस्कृतज्ञानां वेदान्ते रुचिः भवति, अल्पीयसीम् अपि। प्रसिद्धं प्रस्थानत्रयम् -- उपनिषदः, ब्रह्मसूत्रं, भगवद्गीता -- चेति। किन्तु तत्र तत्र सूत्रता मृग्या अनुपलभ्या वा सामान्यैः गुरुविहीनैः अस्माभिः। अतः काचित् टीकाऽपि आश्रयणीया भवति। अद्यत्वे सर्वेषां ग्रन्थानाम् अनुवादः क्रियते। तादृशी भाषान्तरटीका संगृह्यते सर्वविधच्छात्रैः। कुतः संस्कृतस्य आवश्यकता ?
भूतकाले संस्कृतलोकविदुषांअनामकःhttp://www.blogger.com/profile/13238655109874739775noreply@blogger.com0tag:blogger.com,1999:blog-8587359.post-22757044043334779692010-11-21T00:07:00.000-08:002010-11-21T00:09:44.042-08:00अधिकारःसिंहावलोकनन्यायः प्रसिद्धः। सिंहः अग्रेगम्यमानः सन्नपि क्वचित् पृष्ठभागे दृष्टिं प्रसारयति। तथैव कर्तुं गुरवः उपदिशन्ति। प्रतिदिनं रात्रौ शयनात् प्राक् विचार्यं -- किं सुकृतं, किं दुष्कृतं चेति। किम् अनुकार्यं, किं परिष्कार्यं चेति। एवमेव सर्वाभिः संस्थाभिः नियमितरूपेण विहङ्गमालोकनं सिंहावलोकनं च करणीयम्।
अद्य कञ्चन ग्रन्थं पठ्यमानः आसम्, यत्र अन्वयपूरणार्थम् अग्रिमश्लोकस्य किञ्चन पदम् आवश्यकम् अनामकःhttp://www.blogger.com/profile/13238655109874739775noreply@blogger.com3tag:blogger.com,1999:blog-8587359.post-66811495306692324162010-11-19T08:39:00.000-08:002010-11-19T08:45:38.396-08:00अनुवादःआन्तर्जालक्षेत्रे कस्मिंश्चित्, कस्यचन ग्रन्थस्य उपस्थापनं कृतम्। अतः सः ग्रन्थः बहुभिः संस्कृतानुरागिभिः परिशीलितः। कृतो वा तलस्पर्शः। भवतु नाम। ग्रन्थोऽयं उपनिषत्प्रसाद-नामकः स्वामिना भास्करानन्द-सरस्वती-वर्येण विरचितः। मुखोपनिषदां सरला व्याख्या इयं, प्रथमावृत्त्यै। प्रथमावृत्तिग्रन्थेषु मम प्रीतिः वर्त्तते। कथञ्चित् अद्य छात्रैः मूलं पठ्यते, पक्षान्तरे प्रसिद्धभाष्यं किञ्चन। मध्ये तु अनामकःhttp://www.blogger.com/profile/13238655109874739775noreply@blogger.com2tag:blogger.com,1999:blog-8587359.post-48694613339543041162010-11-16T07:59:00.000-08:002010-11-16T07:59:00.836-08:00स्वर्णदशाकदाचित् अस्मदितिहासं स्मरन्तः वयं गुणं गुणयामः, दोषान् उपप्रेक्षामहे च। वस्तुतया विस्मरणशक्तिः करुणामयेश्वरस्य कश्चन वरः। बहुत्र आदर्शपुरुषान् उन्नीय, पूजाभावना उत्पाद्येत, यस्मात् आवयोः अन्तरं कल्प्यते। ततः अस्माभिः न कश्चन प्रयासः करणीयः ननु? किन्तु तथ्यम् अन्यथा विद्यते। सर्वेणापि सर्वस्यामपि अवस्थायां प्रयाशः करणीयः, यस्मात् स्वोद्धारः शक्यः। उपनिषदि ईदृशः कथाः भूरि श्रूयन्ते। श्वेतकेतुः अनामकःhttp://www.blogger.com/profile/13238655109874739775noreply@blogger.com1tag:blogger.com,1999:blog-8587359.post-11047370793358742222010-11-10T08:30:00.000-08:002010-11-10T08:38:36.152-08:00सुरुचिःवाङ्मयं विशालम् अपारं च। तत्र वासनाच्छादितः सर्वपठिताऽपि रुचिकरं किञ्चित् प्राप्येत एव।
बहुशः संस्कृतकृतयः दीर्घाः भवन्ति। अधिकोक्तिः अतिशयोक्तिश्च विद्यते इव। यदि मूलभाषया संस्कृतेनैव पठ्यते, न कापि न्यूनता अनुभूयते, यतो हि सहजम् एव इदं कथासु। किन्तु, यदा अनुवादः पठ्यते व्यर्थता भाति या आधुनिकैः बहुभिः उपेक्ष्यते। उदाहारः कश्चित् -- योगवासिष्ठे सुरुचिः नाम काचित् स्त्री हिमवतः शिखरे उपविष्टा अनामकःhttp://www.blogger.com/profile/13238655109874739775noreply@blogger.com1tag:blogger.com,1999:blog-8587359.post-4131688972157022282010-11-09T06:43:00.000-08:002010-11-09T06:43:22.921-08:00सर्वोऽपि गुरुःअस्मदाचार्यबोधः यत् सर्वोऽपि लोकः गुरुः इति। नाम, सर्वस्याम् अपि व्यक्त्यां गुणाः सन्ति। सर्वस्याः अपि व्यक्त्याः परिशीलनात् स्वपरिष्कारः स्वोद्धारश्च शक्यः, सः तस्मात् आचरणीयः। सर्वशास्त्रोक्तिः यत् आदौ साधकेन प्रयासः करणीयः, तदनु स्वयं प्रकृतिः गुरुं प्रेषयति, पठनावसरो वा कल्पयति चेति। उपनिषद्सु अपि बहुचित्रितम् इदम्। छान्दोग्योपनिषदि सत्यकामः गुरुम् उपससार। तदा गुरुसेवार्थं गोवृन्दवृद्धौ अनामकःhttp://www.blogger.com/profile/13238655109874739775noreply@blogger.com0tag:blogger.com,1999:blog-8587359.post-58537282247291744162010-11-03T09:29:00.000-07:002010-11-03T09:30:46.845-07:00साधनाप्रख्यातेन स्वामिना शिवानन्देन उच्यते यत् साधना च अभ्यासश्च पर्यायपदे इति। नाम, साधना = अभ्यासः। तां साधनां विना, तम् अभ्यासं विना न किञ्चित् फलति। सर्वक्षेत्रतथ्यम् इदम्। पदं एकैकम् अग्रे संस्थाप्य चलनाभ्यासः शैशवे। तदेव सातत्येन क्रियमाणं धावनाभ्यासः बाल्ये। स्वामिना उच्यते यत् वेदान्तक्षेत्रे बहवः कुतूहलिनः सन्ति, किन्तु कृताभ्यासाः आत्मविचारवन्तः अङ्गुलीगणनीयाः इति। संस्कृतक्षेत्रेऽपि अनामकःhttp://www.blogger.com/profile/13238655109874739775noreply@blogger.com2tag:blogger.com,1999:blog-8587359.post-3902705852838203522010-10-28T10:10:00.000-07:002010-10-28T10:10:05.624-07:00सूक्तयःअधुया संस्कृतस्य न किमपि उत्कृष्टं पदं व्यवहारे, न वा मध्यमम्। जिह्वाग्रवासिनी शुभ्रवस्त्रधारी सा देवी इदनीं मशीमयी संजाता। कुत्रचित् शरीराङ्गलेपनम्, अपरत्र कागदलेखनम्। अत्र कादाचित्की प्रार्थना क्रियते, कस्याश्चित् सूक्तेः अनुवादाय। तदा तदा, प्रथमं यत् मनसि स्फुरति, यत् अवधार्य, कृतयः परिशील्यन्ते। तदा सर्वदापि सुन्दरतरवचनं दृश्यते। हा हन्त! यदि एवं व्यवहारे प्रयुङ्क्ते, तस्मादेव अभ्यासात् ताः अनामकःhttp://www.blogger.com/profile/13238655109874739775noreply@blogger.com0tag:blogger.com,1999:blog-8587359.post-24451097471690539312010-10-25T21:07:00.000-07:002010-10-25T21:07:42.007-07:00सुभाषितार्थग्रहणम्सर्वस्मिन् अपि क्षेत्रे, आचार्येण नीयमानस्य वटोः चिन्ता अकार्या। तदभावे "टीका गुरूणां गुरुः" इत्यादिन्यायद्वारा गुरुम् अन्विषति सत्यपि, यथाशक्ति अग्रे सरणीयम्। तत्र तु टीका अनुवादः वा महते लाभाय भवति। तथापि क्वचित् सन्देहो विद्यते। पञ्चतन्त्रे कथामुखे पुत्रबुद्धिप्रकाशाय अमरशक्तिः सचिवान् आदिशति। तत्र सुभाषितम् अयं विद्यते --
किं तया क्रियते धेन्वा या न सूते न दुग्धदा ।
कोऽर्थः पुत्रेण जातेन यो अनामकःhttp://www.blogger.com/profile/13238655109874739775noreply@blogger.com1