Showing posts with label वेदान्तः. Show all posts
Showing posts with label वेदान्तः. Show all posts

Thursday, October 21, 2010

वाल्मीकिजयन्ती

वाल्मीकिजयन्ती अद्य श्वो वा भविता। भारते क्वचित् अद्य पर्वदिनम् आचर्यते। बङ्गलूरुनगरे शुक्रवासरे श्वः विरामदिनम् उद्घुष्टम्। न केवलं तं महर्षिं स्मर्तुं स्तोतुं वा अवसरोऽयं, प्रत्युत तस्य कृतीः प्रयोक्तुं दिव्यावसरोऽयम्।

समाजे किञ्चित् दलं स्वं वाल्मीक्यनुयायि मन्यते। सर्वोत्कृष्टकृती रामायणं, योगवासिष्ठं च ये द्वे श्रीवाल्मीकिना विरचिते। पूजावसरे एतयोः द्वयोः पठनम् एव मुख्यांशः। योगवासिष्ठे सर्वविधतथ्यानि वाल्मीकिना उदीरितानि। मुख्याख्यानं तु रामजागरणं श्रीवसिष्ठेन। अद्यत्वे विरलाः एव अस्य पठितारः।

वेदान्ततत्त्वविचारे सार्वजनीयः प्रश्नः -- बहुषु विद्यमानेषु मार्गेषु कतमः मार्गः श्रेष्ठतमः -- इति। भक्तिः उत ज्ञानम्? ज्ञानम् उत कर्म ... इत्यादि। योगवासिष्ठे सुतीक्ष्णनामकः प्रयाता अपरोक्षदर्शिनम् अगस्तिम् ऋषिं पप्रच्छ --

सुतीक्ष्ण उवाच --
मोक्षस्य कारणं कर्म ज्ञानं वा मोक्षसाधनम् ।
उभयं वा विनिश्चित्य एकं कथय कारणम् ॥

अगस्तिरुवाच --
उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः ।
तथैव ज्ञानकर्मभ्यां जायते परमं पदम् ॥

पक्षी कश्चित् कथं वा आकाशस्थं स्वनीडं प्राप्नुयात्? अन्तिमताडनं सव्यपक्षस्य असव्यपक्षस्य वा स्यात्, किन्तु उभाभ्यां विना तलस्थितिमात्रम्। अतः यथा उभौ अपि पक्षौ विना पक्षी आकाशे नैव उड्डयते, तथा एव कर्म विना, ज्ञानं विना वा परमपदप्राप्तिः नैव भवेत्।

Wednesday, September 15, 2010

उपनिषदः पठनम्

वेदान्तदर्शनस्य मूलभूतग्रन्थाः उपनिषदः एव, यस्मात् सर्वेऽपि ताः पठितुकामाः। यतो हि बहुत्र आर्षप्रयोगाः विहिताः, भाष्यं लाभाय भवति। किन्तु भाष्ये पूर्वपक्षसिद्धन्तनिराकारः इत्यादयः अंशाः अपि अन्तर्हिताः भवन्ति। आदौ प्रथमावृत्तौ अनावश्यकम् इदं सर्वम्। अमरदासस्य मणिप्रभा व्याख्या वर्त्तते, यत्र मुख्यभूताः एव अंशाः प्रकाशिताः। कथमपि बहूनां संस्कृतज्ञानां ग्रन्थोऽयम् अपरिचितः।

Thursday, May 13, 2010

आवासशिबिरेषु संस्कृतम्

बहुशः, सर्वेषामपि पठितॄणां न केवलं संस्कृते रुचिः, परन्तु वेदान्ते साहित्ये वा रुचिरपि स्यात्। बाल्ये संस्कृतम् अधीतं चेत्, पितॄणामपि संस्कृतश्रद्धा स्यात्। प्रौढावस्थायाम् अधीतं चेत्, स्वस्यैव संस्कृतश्रद्धा स्यात्। गतदशके, ततः प्राक् च, बहुभिः हितैषिभिः महती संस्कृतसेवा आचरिता। ततः संस्कृतपरम्परा कणशः आश्वासिता।

संस्कृताध्ययनं बहुत्र क्रियते। अन्तर्जालस्य महान् लाभः, यतो हि, दूरे स्थितेऽपि बहवः परिचिताः जाताः। क्वचित् वार्षिकशिबिराणि मेलनानि च आचर्यन्ते, यैः प्रत्यक्षतया वास्तविकपरिचयोऽपि जायते। विश्वविद्यालयेषु पाश्चात्येषु केषुचित् मेलनानि आयोज्यन्ते यत्र भाषणानि संस्कृतेन अपि क्रियन्ते।

वेदान्तक्षेत्रे, क्वचित् द्विवर्षात्मकं त्रिवर्षात्मकं वा आवासीयशिबिरं प्रवत्त्यते, यस्मिन् प्रस्थानत्रयं परिचर्यते। आचार्यभाष्यं मुख्यम् अंशं मत्त्वा, संस्कृतज्ञानम् अपि प्रतिपाद्यते। किन्तु, संस्कृतभाषा अङ्गुलीयकमात्रं मत्त्वा, केषुचन सत्रेषु एव "भाषापाठनम्"। तेषु अपि सत्रेषु अङ्गुलीयकं नैव धार्यते, प्रत्युत केवलं प्रदर्श्यते। यदि मासाभ्यन्तरे व्यवहारः संस्कृतभाषया क्रियते, तर्हि कियान् अमाप्यः लाभः स्यात्? पुनश्च यदा भाष्यं पठ्यते, गतिवेगः भवत्येव। त्रिः वर्षं, ततः कियती कुशलता स्यात् भागवाहिनाम्? सुन्दरः स्वप्नः ननु?

गुरुकुलं गुरुकुलीकर्तुं, संस्कृतभाषा अपि आश्रयणीया इति भाति।

Monday, August 03, 2009

मोक्षस्य कारणम्

प्रश्नः यः पौनःपुण्येन पृच्छ्यते -- मोक्षस्य कारणं कर्म वा ज्ञानं वा इति। अद्वैतिनां मतं यत् कर्मयोगद्वारा चित्तशुद्धिः, पुनः ज्ञानेन अविद्यानाशः। सः एव भावः योगवासिष्ठायाम् अपि आदौ प्रतिपादितम्।

अगस्तिः वदति --
उभाभ्याम् अपि पक्षिभ्यां यथा खे पक्षिणां गतिः।
तथैव ज्ञानकर्मभ्यां जायते परमं पदम्॥

तात्पर्यं व्याचष्टे -- कर्मणां पूर्वभावः तु प्रवृत्ति-निवृत्तयोः युगपत् असम्भवात् विरुद्धाधिकारि-विशेषणकत्वात् च अर्थसिद्धः इति न यौगपद्यांशे दृष्टान्तः। यथा दर्पणे प्रतिबिम्बोदये मार्जनालोकौ द्वौ अपि आवश्यकौ तद्वत् कर्मकृतचित्तशुद्धिः प्रमाणजन्यवृत्तिः च अविद्यानिवृत्तौ आवश्यके अशुद्धचित्तैः शतशः श्रुतेऽपि ज्ञानफलात् अदर्शनात् इति भावः॥

अतः कर्मयोगः च ज्ञानयोगः च पक्षिणः द्वौ पक्षौ, अधिकारभेदात्। यत्र श्रेष्ठतरः योगः उच्यते, गीतायां अन्यत्र वा, अधिकारं मनसि निधाय एव उत्तरम् अपेक्षितम्। कर्मयोगः ज्ञानयोगः इत्येवं सोपानायते यथा दर्पणे प्रतिबिम्बदर्शनार्थं मार्जनम्, आलोकः च।