Showing posts with label श्लोकः. Show all posts
Showing posts with label श्लोकः. Show all posts

Monday, October 25, 2010

सुभाषितार्थग्रहणम्

सर्वस्मिन् अपि क्षेत्रे, आचार्येण नीयमानस्य वटोः चिन्ता अकार्या। तदभावे "टीका गुरूणां गुरुः" इत्यादिन्यायद्वारा गुरुम् अन्विषति सत्यपि, यथाशक्ति अग्रे सरणीयम्। तत्र तु टीका अनुवादः वा महते लाभाय भवति। तथापि क्वचित् सन्देहो विद्यते। पञ्चतन्त्रे कथामुखे पुत्रबुद्धिप्रकाशाय अमरशक्तिः सचिवान् आदिशति। तत्र सुभाषितम् अयं विद्यते --

किं तया क्रियते धेन्वा या न सूते न दुग्धदा ।
कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान् ॥

या धेनुः माता न भवति, न वा दुग्धं वितरति, तस्याः न किञ्चित् अपि प्रयोजनम्। तथैव जननमात्रेण कस्याश्चित् व्यक्तेः न किञ्चित् अपि प्रयोजनम्। अतः सर्वेणपि विद्वता भवितव्यं, सर्वेणापि भक्तिमता भवितव्यम् इति भावः।

अत्र भक्तिः का इति प्रश्नः उदेति। क्वचित् अनुवादकेन न कोऽपि विशिष्टार्थः सूचितः। किन्तु, सामान्यार्थः अस्थाने इति भाति। केनचन टीकाकारेण विनयार्थः सूचितः। विद्वान् विनयवान् भवेत् इति भावार्थः।

किन्तु सः एव अर्थः अभिप्रेतः सुभाषितकारेण? सौन्दर्यलहर्यां द्वितीयश्लोके -- विधिं भजति -- इति। तत्र आनन्दलहरीटीका -- विधिं भजति करोति -- इति स्पष्टीकरोति। अत्रापि किं सः भावः स्वीकारयोग्यः? सर्वेणापि विद्या संपादनीया, पुनश्च सा प्रयोक्तव्या इति? अयमर्थः उचितः इति भाति। किन्तु सुभाषितकाराभावे सूक्ष्मेक्षिकापरीक्षा दुःशक्या। ऊहा इयम् उचितम् अनुचितं वा स्यात्। न्यूनातिन्यूनं सुभाषितपठनेन ईदृशी चर्चा प्रवर्तेत। सुखमयं च जीवनं यापितं भवति।

Sunday, October 10, 2010

सप्तश्लोकी दुर्गा ७

सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ।
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥ ११-३६

हे देवि ! अखिलेश्वरि ! अखिलस्य विश्वस्य ईश्वरि व्यापिके ! सर्वाबाधाप्रशमनं सर्वदुःखोपशमः। अस्मद्वैरिविनाशनं  अस्माकं वैरिणां दैत्यानां विनाशनं विध्वंसः। एवंविधम् एतत् उपन्यस्तं कार्यं त्वया जगदुपकारकं कर्म कर्तव्यम्।

सप्तश्लोकी दुर्गा ६

रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान् ।
त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥ ११-२८

हे देवि ! त्वं तुष्टा सती त्वाम् आश्रितानाम् अशेषान् रोगान् उपद्रवान् अपहंसि नाशयसि। रुष्टा सती सकलान् कामान् सकलान् अभीष्टान् अर्थान् अपहंसि। त्वाम् आश्रितानां नराणां न विपत्, आपत् न विद्यते। विशेषतः ये त्वाम् आश्रिताः, ते अन्येषाम् आश्रयतां प्रयान्ति।

सप्तश्लोकी दुर्गा ५

सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥११-२३

सर्वस्वरूपा सर्वतः सर्वत्र पाणिपादम् अनन्तोऽवयवो यस्याः सा। यद्वा सर्वसु अरूपं यस्याः सा तथोक्ता। सर्वस्य स्वामिनी हे सर्वेशे ! सर्वशक्तिभिः समन्विता । हे देवि ! त्वं भयेभ्यः नः देवान् त्राहि त्रायस्व। देविदेवीति प्रसादने द्विरुक्तिः।

सप्तश्लोकी दुर्गा ४

शरणागतदीनार्तपरित्राणपरायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥ ११-११

शरणम् आगताः रक्ष रक्षेति प्रपन्नं प्राप्ताः, ते एव दीनाः दुःखभाजः आर्ताश्च दुःखिताः, तेषां दुःखेभ्यः परित्राणं परिरक्षणं तदेव परं मुख्यम् अनयम् वर्त्म च यस्याः सा शरणागतदीनार्तपरित्राणपरायणा। हे देवि ! नारायणि ! सर्वस्य लोकस्य आर्तिहरे ! पीडादूरीकर्त्रि ! नमोऽस्तु ते।

सप्तश्लोकी दुर्गा ३

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ ११-९

सर्वमङ्गलमाङ्गल्ये सर्वेषां मङ्गलादीनां यत् माङ्गल्यं तद्रूपे ! शिवे कल्याणकारिणि ! सर्वार्थसाधिके सर्वेषाम् अर्थानां साधिके साधयित्रि ! शरण्ये शरणार्हे ! त्र्यम्बके त्रिनेत्रे ! गौरि गौरवर्णे ! नारायणि विष्णुमाये ! नमोऽस्तु ते॥

सप्तश्लोकी दुर्गा २

दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।
दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ॥ ४-१६

हे देवि ! दुर्गे ! स्मृता सती त्वं अशेषजन्तोः सर्वस्यापि प्राणिनः भीतिं हरसि। स्वस्थैः अभीतैः तु जन्तुभिः स्मृता सती त्वं शुभां मतिं बुद्धिं ददासि। दारिद्र्यदुःखभयहारिणि ! दारिद्र्यतः समुत्थितं दुःखं, तस्मात् भयं, तत् हरतीति तच्छीला। त्वदन्या का सर्वोपकारकरणाय सदार्द्रचित्ता? सर्वोपकारान् कर्तुं सदा कृपार्द्रहृदया परा देवता त्वदन्या का अस्ति?

सप्तश्लोकी दुर्गा १

ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।
बलादाकृष्य मोहाय महामाया प्रयच्छति ॥ १-४२

न हि केवलं प्रवृत्तिमार्गाणाम् असौ मोहिका भवति, किन्तु ज्ञानिनाम् अपि। सा देवी भगवती महामाया ज्ञानिनां चेतांसि अन्तःकरणानि बलात् आकृष्य विवेकात् व्यावर्त्य मोहाय प्रयच्छति मोहवन्ति करोति। भवद्विधानां का कथा इति भावः॥

[ दुर्गासप्तशती गूढार्थमयी। प्रकाशितार्थः अत्र अन्वयमात्रप्रायः ]