Showing posts with label सरलम्. Show all posts
Showing posts with label सरलम्. Show all posts

Thursday, September 13, 2007

नीतिः पङ्गुः चेत्

मार्कः नामकः कश्चन जनः। कदापि कारयान-दुर्घटना अभवत्। पीडा-कारणात्, वैद्येन औषधं दत्तम्। एवं बहवः जनाः पीडा-निवारणार्थम् औषधं स्वीकुर्वन्ति। न कोऽपि दोषः खलु?

एकस्मिन् दिने, कश्चन आरक्षकः मार्कं कारागृहं नीतवान्। किमर्थं? यतः ५८ औषध-गुलिकाः मार्कस्य सकाशे आसन्। प्रायः सः न ज्ञातवान् यत् वैद्येन दत्तम् आसीत् . . . नैव। न्यायालये अपि मार्कः दोषी इति उद्घोषितम्। यतः, तस्मिन् राज्ये नीतिः एवम् अस्ति -- औषधम् यस्य सकाशे अस्ति, सः दोषी। वितरणं न कृतं चेत् अपि, वितरणार्थं औषधम् अस्ति इति मत्वा मार्कः कारागृहं प्रेषितः। वर्षद्वयानन्तरं उच्चन्यायालये, न्यायाधीशः उक्तवान् -- एतत् तु मूर्खत्वम्! वैद्येन दत्तं इति मन्तव्यम् एव -- इति।

(कथायाः अपरः पक्षः अस्ति। मार्कः पुनः पुनः आरक्षकाणां वीक्षणे अवरोधं कृतवान्। पूर्वं व्यसनात्, गुलिकानां सेवनम् अपि कृतम् तेन। अतः ते आरक्षकाः अपि मार्कस्य बन्धनं कारितवन्तः)

Wednesday, September 05, 2007

सरलम्

एतस्य पुटस्य एका पठिता (या पठति, सा) सूचितवती यत् नूतन-लेखाः कठिनाः सन्ति . . . पुरातन-लेखाः सरलतराः आसन् -- इति। एवं, पुनः केचन लेखान् सरल-शैल्या लिखामि। तत्र "सरलम्" इति अङ्कः अपि भविष्यति।