Monday, February 20, 2006

नलोपाख्यानम्

नलोपाखानं महाभारत-कथा। बहुत्र, संस्कृतछात्राणां पठनाभ्यासाय, इयं कथा युक्ता। ग्रन्थालयं गत्वा, पुस्तकानि दृष्टानि। प्रतिश्लोकं पठित्वा, भावार्थः अत्र लिखितः। प्रधानतया रामचन्द्र-ऐयर् महोदयस्य पुस्तक-पाठानुसारं लिखितम्। तिप्पण्यः ततः, तारिणी-झा-महोदयस्य पुस्तकात् च स्वीकृता।

श्लोकाः ३.५०.१, ३.५०.२, ३.५०.३, ३.५०.४, ३.५०.५, ३.५०.६, ३.५०.७, ३.५०.८, ३.५०.९, ३.५०.१०, ३.५०.११, ३.५०.१२, ३.५०.१३, ३.५०.१४, ३.५०.१५, ३.५०.१६, ३.५०.१७, ३.५०.१८, ३.५०.१९, ३.५०.२०, ३.५०.२१, ३.५०.२२, ३.५०.२३, ३.५०.२४, ३.५०.२५, ३.५०.२६, ३.५०.२७, ३.५०.२८, ३.५०.२९, ३.५०.३०, ३.५०.३१

३.५१.१, ३.५१.२, ३.५१.३, ३.५१.४, ३.५१.५, ३.५१.६, ३.५१.७, ३.५१.८, ३.५१.९, ३.५१.१०, ३.५१.११, ३.५१.१२, ३.५१.१३, ३.५१.१४, ३.५१.१५, ३.५१.१६, ३.५१.१७, ३.५१.१८, ३.५१.१९, ३.५१.२०, ३.५१.२१, ३.५१.२२, ३.५१.२३, ३.५१.२४, ३.५१.२५, ३.५१.२६, ३.५१.२७, ३.५१.२८, ३.५१.२९

नलोपाख्यानम् ३.५०.१

बृहदश्व उवाच--

आसीद्राजा नलो नाम वीरसेनसुतो बली।
उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः॥३.५०.१॥

अन्वयः॥ बली इष्टैः गुणैः उपपन्नः रूपवान् अश्वकोविदः वीरसेनसुतः नलः नाम राजा आसीत्॥

तिप्पणी॥ वीरसेनस्य सुतः वीरसेनसुतः। रूपम् अस्य अस्ति इति रूपवान्। अश्वेषु कोविदः अश्वकोविदः। बलम् अस्ति अस्य इति बली।

वीरसेनस्य सुतः नलः। सः नलः महाराजः। कीदृशः? बलवान्, अश्वपण्डितः, सुरूपः च। सर्वैः अभीष्टैः सद्गुणैः युक्तः इति भावः।

नलोपाख्यानम् ३.५०.२

अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा ।
उपर्युपरि सर्वेषामादित्य इव तेजसा ॥३.५०.२॥

अन्वयः॥ (सः) मनुजेन्द्राणां मूर्ध्नि अतिष्ठत् यथा देवपतिः, तेजसा आदित्यः इव सर्वेषां उपर्युपरि (च आसीत्)॥

तिप्पणी॥ मनोः जाता मनुजाः, मनुजानां इन्द्रः मनुजेन्द्रः। देवानां पतिः देवपतिः इन्द्रः।

सः गुणवान् नलः पुनः कथम्? सर्वेषां मनुजेन्द्रानां राज्ञां श्रेष्ठतमः। सः एव प्रथमः अग्रे मस्तके स्थितवान्। यथा सूर्यः श्रेष्ठतमः तेजस्वी, तथा नलः अपि सर्वेषां उपरि आसीत्।

नलोपाख्यानम् ३.५०.३

ब्राह्मण्यो वेदविच्छूरो निषधेषु महीपतिः ।
अक्षप्रियः सत्यवादी महानक्षौहिणीपतिः ॥३.५०.३॥

अन्वयः॥ निषधेषु महीपतिः ब्राह्मण्यः वेदवित् शूरः अक्षप्रियः सत्यवादी महान् अक्षैहिणीपतिः (च आसीत्)॥

तिप्पणी॥ ब्राह्मणानां वशंवदः इति ब्राह्मण्यः। ब्रह्मणे हितः इति ब्रह्मण्यः। वेदान् वेत्ति इति वेदवित्। अक्षाः प्रियाः यस्य सः अक्षप्रियः। अक्षौहिण्याः पतिः अक्षौहिणीपतिः।

सः नलः पुनः कथम्? सः निषधराज्यस्य राजा। सः अक्षौहिण्याख्यविशालवाहिन्याः स्वामी, धर्मपालकः च--ब्रह्मणे हितः, वेदज्ञः, वीरः। सदा तस्य सत्यध्वजः। तथापि नलस्यापि राज्ञां दोषः, यथा सः द्यूतप्रमी।

नलोपाख्यानम् ३.५०.४

ईप्सितो वरनारीणां उदारः संयतेन्द्रियः ।
रक्षिता धन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम् ॥३.५०.४॥

अन्वयः॥ (सः) वरनारीणां ईप्सितः, उदारः, संयतेन्द्रियः धन्विनां श्रेष्ठः, साक्षात् मनुः इव स्वयं रक्षिता (आसीत्)॥

तिप्पणी॥ वराश्च ताः नार्यः च, वरनार्यः। आप्तुं इष्टः ईप्सितः। संयतानि इन्द्रियाणि येन सः संयतेन्द्रियः। प्रशस्तं धनुः येषां ते धन्विनः।

अपि च, सः नलः उत्तमाङ्गनानां प्रियः। सः उदारः, स्वेन्द्रियानां निग्राहकः च। रक्षणे अपि सः धन्विनां प्रथमः। एवं, सः साक्षात् मनुः इव आरक्षकः।

नलोपाख्यानम् ३.५०.५

तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः ।
शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजः ॥३.५०.५॥

अन्वयः॥ तथा एव विदर्भेषु भीम (नाम्ना) भीमपराक्रमः शूरः सर्वगुणैः युक्तः आसीत्। सः च अप्रजः प्रजाकामः (आसीत्)॥

तिप्पणी॥ भीमः पराक्रमः यस्य सः भीमपराक्रमः। प्रजां कामयते इति प्रजाकामः। न विद्यते प्रजा यस्य सः अप्रजः।

यथा राजा नलः निषधेषु, तथा विदर्भेषु राजा भीमः आसीत्। सः महान् पराक्रमी, सद्गुणैः उपपन्नः। यतः सः सन्तानरहितः, सः सन्तानेच्छुकः।

नलोपाख्यानम् ३.५०.६

स प्रजार्थे परं यत्नम् अकरोत्सुसमाहितः ।
तमभ्यगच्छद् ब्रह्मर्षिर्दमनो नाम भारत ॥३.५०.६॥

अन्वयः॥ भारत! सः प्रजार्थे सुसमाहितः (भूत्वा) परं यत्नम् अकरोत्। दमनः नाम ब्रह्मर्षिः तम् अभ्यगच्छत्॥

तिप्पनी॥ भरतस्य अपत्यं भारतः। सुष्ठु समाहितः सुसमाहितः। ब्रह्मा च असौ ऋषिः ब्रह्मार्षिः।

भरतकुलोत्पन्न! युधिष्ठिर! अपत्यार्थं अत्यन्तं सावधानः नलः महान् आयासः कृतः। एकदा एकः दमनः नाम्ना ऋषिः तं प्रति गतवान्॥

नलोपाख्यानम् ३.५०.७

तं स भीमः प्रजाकामः तोषयामास धर्मवित् ।
महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम् ॥३.५०.७॥

अन्वयः॥ राजेन्द्र! सः भीमः धर्मवित् प्रजाकामः महिष्या सह तं सुवर्चसं सत्कारेण तोषयामास॥

तिप्पणी॥ राज्ञाम् इन्द्रः राजेन्द्रः। सुष्ठु वर्चः तेजः यस्य सः सुवर्चाः। धर्मं वेत्ति इति धर्मवित्। शोभनं वर्चः यस्य सः सुवर्चसः।

राजा भीमः धर्मज्ञः सादरः, पट्टाभिषिक्तया राज्ञ्या सह तं मुनिं तेजस्विनं विनम्रेण प्रसादयामास॥

नलोपाख्यानम् ३.५०.८-९

तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ ।
कन्यारत्नं कुमारांश्च त्रीनुदारान्महायशाः ॥३.५०.८॥
दमयन्तीं दमं दान्तं दमनं च सुवर्चसम् ।
उपपन्नान् गुणैः सर्वैः भीमान् भीमपराक्रमान् ॥३.५०.९॥

अन्वयः॥ दमनः प्रसन्नः महायशाः सर्वैः गुणैः उपपन्नान् दमयन्तीं कन्यारत्नं सुवरचसं त्रीन् कुमारान् दमं दान्तं दमनं च भीमान् भीमपराक्रमान् तस्मै सभाराय वरं ददौ॥

तिप्पणी॥ भार्यया सह वर्तते इति सभार्यः। कन्यासु रत्नं कन्यारत्नम्। महत् यशः यस्य सः महायशाः। भीमः पराक्रमः यस्य सः भीमपराक्रमः। दमयति नाशयति अमङ्गलादिकम् इति दमयन्ती।

दमनः परमकीर्तिशीला महायशस्वी भीमाय सपत्नीकाय अपत्यचतुष्टयम् अददत्। एका पुत्री, त्रयः पुत्राः च। दमयन्ती नाम्ना गुणवती उत्तमकन्या। दमः दान्तः दमनः च नाम्ना पुत्राः वीराः अभयङ्करशीलाः। मुनिः एतं वरं महाराजाय दत्तवान्।

नलोपाख्यानम् ३.५०.१०

दमयन्ती तु रूपेण तेजसा यशसा श्रिया ।
सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा ॥३.५०.१०॥

अन्वयः॥ दमयन्ती सुमध्यमा तु रूपेण तेजसा यशसा श्रिया सौभाग्येन च लोकेषु यशः प्राप॥

तिप्पणी॥ सुष्ठु मध्यमः मध्यमभागः यस्याः सा सुमध्यमा।

भीमस्य अपत्यचतुष्टयम्। तेषु पुत्री दमयन्ती लोकेषु ख्यातिम् अप्राप्नोत्। कथम्? सा कृशोदरी, रूपवती, तेजस्विनी, श्रीमती, सौभाग्यवती च। तैः गुणैः सा यशः कीर्तिं प्राप्तवती।

नलोपाख्यानम् ३.५०.११

अथ तां वयसि प्राप्ते दासीनां समलङ्कृताम् ।
शतं सखीनां च तथा पर्युपास्ते शचीमिव ॥३.५०.११॥

अन्वयः॥ अथ वयसि प्राप्ते, दासीनां सखीनां च शतं समलङ्कृतां तां शचीम् इव पर्युपास्ते॥

तिप्पणी॥ तस्याः दमयन्त्याः अधिगते यौवने, सर्वालङ्कारसम्पन्नाः सुसज्जिताः शतं शतं दास्यः सख्यः च तां दमयन्तीं शचीम् इव परिचर्याम् अकुर्वन्।

नलोपाख्यानम् ३.५०.१२

तत्र स्म भ्राजते भैमी सर्वाभरणभूषिता ।
सखीमध्येऽनवद्याङ्गी विद्युत्सौदामिनी यथा ।
अतीव रूपसम्पन्ना श्रीरिवायतलोचना ॥३.५०.१२॥

अन्वयः॥ सर्वाभरणभूषिता अनवद्याङ्गी अतीवरूपसम्पन्ना श्रीः इव आयतलोचना भैमी तत्र सखीमध्ये विद्युत्सौदामिनी यथा भ्राजते स्म॥

तिप्पणी॥ भीमस्य अपत्यं स्त्री भैमी। सर्वैः आभरणैः भूषिता सर्वाभरणभूषिता। न अवद्यम् अनवद्यम्, अनवद्यं अङ्गं (शरीरं) यस्याः सा अनवद्याङ्गी। आयते (दीर्घे) लोचने यस्याः सा आयतलोचना।

सकलैः आभूषणैः भूषिता, चार्वङ्गी, सुन्दरी श्रीः इव विशालाक्षी दमयन्ती तत्र मित्रेषु, सा विद्युत् वा सौदामिनी इव दीप्यते स्म॥

नलोपाख्यानम् ३.५०.१३

न देवेषु न यक्षेषु तादृग्रूपवती क्वचित् ।
मनुष्येष्वपि चान्येषु दृष्टपूर्वा न च श्रुता ।
चित्तप्रमाथिनी बाला देवानामपि सुन्दरी ॥३.४०.१३॥

अन्वयः॥ तादृग्रूपवती देवामाम् अपि चित्तप्रमाथिनी सुन्दरी बाला न देवेषु न यक्षेषु मनुष्येषु अपि च क्वचित् अन्येषु (न) दृष्टपूर्वा न च श्रुता॥

तिप्पणी॥ तादृक् रूपम् अस्याः अस्ती इति तादृग्रूपवती। पूर्वं दृष्टा दृष्टपूर्वा। चित्तं प्रमथ्नाति अथवा प्रमथितुं शीलम् अस्याः इति चित्तप्रमाथिनी।

तादृशलावण्यवती सुराणाम् अपि चित्तचञ्चलकारिणी युवती न कुत्रापि वर्तते, न वा पूर्वं दृष्टं केनापि, न वा श्रुतम् अपि केनापि।

नलोपाख्यानम् ३.५०.१४

नलश्च नरशार्दूलो रूपेणाप्रतिमो भुवि ।
कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम् ॥३.५०.१४॥

अन्वयः॥ नलः च नरशार्दूलः भुवि रूपेण अप्रतिमः स्वयं रूपेण मूर्तिमान् कन्दर्पः इव अभवत्॥

तिप्पणी॥ नरेषु शार्दूलः अथवा नरः शार्दूलः इव नरशार्दूलः। न विद्यते प्रतिमः (तुल्यः) यस्य सः अप्रतिमः। मूर्तिः अस्य अस्ती इति मूर्तिमान्।

नलः मानवश्रेष्ठः भुवने अद्वितीय-रूपी, सः स्वयं कामदेवः सरूपः सदेहः इव आसीत्॥

नलोपाख्यानम् ३.५०.१५

तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात् ।
नैषधस्य समीपे तु दमयन्तीं पुनः पुनः ॥३.५०.१५॥

अन्वयः॥ (जनाः) कुतूहलात् तस्याः समीपे तु नलं प्रशशंसुः, तु नैषधस्य समीपे दमयन्तीं पुनः पुनः (प्रशशंसुः)॥

तिप्पणी॥ निषधानां राजा नैषधः।

कौतुकात् सर्वे जनाः दमयन्त्याः पार्श्वे नलं प्रशंसां चक्रुः। एवं नलस्य नैषधस्य पार्श्वे दमयन्तीं प्रशंसां चक्रुः।

नलोपाख्यानम् ३.५०.१६

तयोरदृष्टः कामोऽभूत् शृण्वतोः सततं गुणान् ।
अन्योन्यं प्रति कौन्तेय स व्ययर्धत हृच्छयः ॥३.५०.१६॥

अन्वयः॥ (हे) कौन्तेय! अन्योन्यं प्रति गुणान् सततं शृण्वतोः तयोः अदृष्टकामः अभूत्। स हृच्छयः व्यवर्धत।

तिप्पणी॥ न दृष्टः अदृष्टः। कुन्त्याः अपत्यं पुमान् कौन्तेयः। हृदि शेते इति हृच्छयः।

हे युधिष्ठिर! गुणान् पुनः पुनः श्रुत्वा, परस्परं कामः जातः। सः कामः हृच्छयः वृद्धिं प्राप्नोत्।

नलोपाख्यानम् ३.५०.१७

अशक्नुवन् नलः कामं तदा धारयितुं हृदा ।
अन्तःपुरसमीपस्थे वन आस्ते रहोगतः ॥३.५०.१७॥

अन्वयः॥ तदा नलः कामं हृदा धारयितुम् अशक्नुवन् अन्तःपुरसमीपस्थे वने रहोगतः आस्ते॥

तिप्पणी॥ रहसि गतः रहोगतः॥

नलः दम्यन्त्यां कामं सोढुम् असमर्थः, प्रासादे उद्याने एकाकी स्थातुं गतः।

नलोपाख्यानम् ३.५०.१८

स ददर्श तदा हंसान् जातरूपपरिच्छदान् ।
वने विचरतां तेषामेकं जग्राह पक्षिणम् ॥३.५०.१८॥

अन्वयः ॥ तदा सः हंसान् जातरूपपरिच्छदान् ददर्श। [सः] वने विचरतां तेषां एकं पक्षिणं जग्राह [च]॥

तिप्पणी ॥ जातं प्रशस्तं रूपं यस्य तत् रातरूपं सुवर्णम्। जातरूपमयाः परिच्छदाः येषां तान् जातरूपपरिच्छदान्।

तदा नलः स्वर्णपक्षान् हंसान् दृष्टवान्। सः विहरतां एकं हंसं अगृह्णात्।

नलोपाख्यानम् ३.५०.१९

ततोऽन्तरिक्षगो वाचं व्याजहार तदा नलम् ।
न हन्तव्योऽस्मि ते राजन् करिष्यामि हि ते प्रियम् ॥३.५०.१९॥

अन्वयः ॥ ततः अन्तरिक्षगः तदा नलं वाचं व्याजहार -- [हे] राजन्! न हन्तव्यः अस्मि ते! हि ते प्रियं करिष्यामि--[इति]।

तिप्पणी ॥ अन्तरिक्षे गच्छतीति अन्तरिक्षगः। हन्तुं योग्यः हन्तव्यः।

विहगः पक्षी नलम् एवं वाणीं उक्तवान्--भोः मम हननं मास्तु, तव हितकार्यं करोमि।

नलोपाख्यानम् ३.५०.२०

दमयन्तीसकाशे त्वां कथयिष्यामि नैषध ।
यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित् ॥३.५०.२०॥

अन्वयः ॥ नैषध! दमयन्तीसकाशे त्वां कथयिष्यामि। यथा कर्हिचित् त्वदन्यं सा पुरुषं न मंस्यति [तथा]॥

तिप्पणी ॥ त्वत्तः अन्यः त्वदन्यः।

राजन्! दमयन्तीं तव गुणान् वर्णयिष्यामि। यथा सा कदापि त्वं विहाय अन्यं स्वपुरुषं पतिं इति न चिन्तयति, तथा कथयिष्यामि।

नलोपाख्यानम् ३.५०.२१

एवमुक्तस्ततो हंसम् उत्ससर्ज महीपतिः ।
ते तु हंसा खमुत्पत्य विदर्भानगमंस्ततः ॥३.५०.२१॥

अन्वयः ॥ ततः एवम् उक्तः महीपतिः हंसम् उत्ससर्ज। ते हंसाः तु खम् उत्पत्य ततः विदर्भान् अगमन्॥

हंसेन उक्तः बोधितः राजा तदा हंसं मोचितवान्। ततः सर्वे हंसाः आकाशे उड्डय्य विधर्भदेशं गतवन्तः।

नलोपाख्यानम् ३.५०.२२

विदर्भनगरीं गत्वा दमयन्त्यास्तदान्तिके ।
निपेतुस्ते गरुत्मन्तः सा ददर्शाथ तान् खगान् ॥३.५०.२२॥

अन्वयः ॥ ते गरुत्मन्तः विदर्भनगरीं गत्वा दमयन्त्याः तदान्तिके निपेतुः। अथ सा तान् खगान् ददर्श॥

तिप्पणी ॥ प्रशस्ताः गरुतः सन्ति एषाम् इति गरुत्मन्तः।

ते पक्षिनः विधर्भदेशं प्राप्य दमयन्त्याः समीपे अपतन्। सा तान् पक्षिणः अपश्यत्।

नलोपाख्यानम् ३.५०.२३

सा तानद्भुतरूपान्वै दृष्ट्वा सखिगणावृता ।
हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे ॥३.५०.२३॥

अन्वयः ॥ तान् अद्भुतरूपान् वै दृष्ट्वा सा हृष्टा सखिगणावृता खगमान् ग्रहीतुं त्वरमाणा उपचक्रमे॥

तिप्पणी ॥ अद्भुतं रूपं येषां तान् अद्भुतरूपान्। सखीनां गणैः आवृता सखीगणावृता, सखिगणावृता इति आर्षप्रयोगः। खे गच्छन्ति इति खगमाः।

तान् सुन्दरान् हंसान् वीक्ष्य, दमयन्ती सुखत्वेन एकं पक्षिणं सङ्ग्रहीतुं शीघतां कुर्वती पादविक्षेपम् आरेभे।

नलोपाख्यानम् ३.५०.२४

अथ हंसा विससृपुः सर्वतः प्रमदावने ।
एकैकशस्ततः कन्यास्तान् हंसान् समुपाद्रवन् ॥३.५०.२४॥

अन्वयः ॥ अथ हंसाः प्रमदावने सर्वतः विससृपुः। ततः कन्याः एकैकशः तान् हंसान् समुपाद्रवन्॥

तिप्पणी ॥ एकं एकं कृत्वा इति एकैकशः।

प्रमदकानने हंसाः सर्वदिक्षु प्रसस्रुः। ततः युवत्यः सर्वेपि एकं हंसं समुपाधावन्।

नलोपाख्यानम् ३.५०.२५

दमयन्ती तु यं हंसं समुपाधावतन्तिके ।
स मानुषीं गिरं कृत्वा दमयन्तीमथाब्रवीत् ॥३.५०.२५॥

अन्वयः ॥ अथ दमयन्ती तु यं हंसं समुपाधावत्, सः अन्तिके मानुषीं गिरं कृत्वा दमयन्तीम् अब्रवीत्॥

नलोपाख्यानम् ३.५०.२६

दमन्ति नलो नाम निषधेषु महीपतिः ।
अश्विनोः सदृशो रूपे न समास्तस्य मानुषाः ॥३.५०.२६॥

अन्वयः ॥ [हे] दमयन्ति! निषधेषु नलो नाम महीपतिः। [सः] अश्विनोः सदृशः। तस्य रूपे समाः मानुषाः न [सन्ति]॥

तिप्पणी ॥ मनोः जाताः इति मानुषाः।

नलोपाख्यानम् ३.५०.२७

तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनि ।
सफलं ते भवेज्जन्म रूपं चेदं सुमध्यमे ॥३.५०.२७॥

अन्वयः ॥ [हे] वरवर्णिनि! सुमध्यमे! यदि वै त्वं तस्य भार्या भवेथाः [तर्हि] ते जन्म इदं रूपं च सफलं भवेत्।

तिप्पणी ॥ भवेथाः इति आत्मनेपद्याम् आर्षप्रयोगः। वरः वर्णः अस्याः अस्ति इति वरवर्णिनी, तस्याः सम्बुद्धिः हे वरवर्णिनि।

नलोपाख्यानम् ३.५०.२८

वयं हि देवगन्धर्वमनुष्योरगराक्षसान् ।
दृष्टवन्तो न चास्माभिर्दृष्टपूर्वस्तथाविधः ॥३.५०.२८॥

अन्वयः ॥ वयं हि देवगन्धर्वमनुष्योरगराक्षसान् दृष्टवन्तः । तथाविधः च अस्माभिः दृष्टपूर्वः न [अस्ति]॥

नलोपाख्यानम् ३.५०.२९

त्वं चापि रत्नं नारीणां नरेषु च नलो वरः ।
विशिष्टाया विशिष्टेन सङ्गमो गुणवान् भवेत् ॥३.५०.२९॥

अन्वयः ॥ त्वं च अपि नारीणां रत्नं नलः च नरेषु वरः। विशिष्टायाः विशिष्टेन सङ्गमः गुणवान् भवेत्॥

नलोपाख्यानम् ३.५०.३०

एवमुक्त्वा तु हंसेन दमयन्ती विशाम्पते ।
अब्रवीत्तत्र तं हंसं तमप्येवं नलं वद ॥३.५०.३०॥

अन्वयः ॥ [हे] विशाम्पते! हंसेन एवम् उक्त्वा दमयन्ती तु तत्र तं हंसम् अब्रवीत्--तं नलम् अपि एवं वद--[इति]॥

तिप्पणी ॥ विशः प्रजाः, तासां पतिः विशाम्पतिः॥

नलोपाख्यानम् ३.५०.३१

तथेत्युक्त्वाण्डजः कन्यां वैदर्भस्य विशाम्पते ।
पुनरागम्य विषदान्नले सर्वं न्यवेदयत् ॥३.५०.३१॥

अन्वयः ॥ [हे] विशाम्पते! अण्डजः वैदर्भस्य कन्यां तथा इति उक्त्वा पुनः निषधान् आगम्य नले सर्वं न्यवेदयत्॥

तिप्पणी ॥ अण्डात् जातः इति अण्डजः।