Showing posts with label गीता. Show all posts
Showing posts with label गीता. Show all posts

Monday, August 03, 2009

श्रद्धावान् -- गीता

गीतायां (६-४७) उच्यते -- यो मां मद्गतेन अन्तरात्मना श्रद्धावान् भजते, सः मे युक्ततमो मतः -- इति।

ज्ञातं सन्नपि उच्यते -- उपदेशः उत्तमः इति। कर्मयोगिभिः अत्र कृष्ण-पदस्य स्थाने, साधु-पदाश्रयः अपि स्यात्। साधु यथा -- परित्राणाय साधूनाम्। साधु-पदं विशेषणं, न तु विशेष्यम्। विशेष्येषु संस्कृतम् अपि अन्यतमं किमर्थं न? यः संस्कृतं भजति, सः युक्ततमः। केन कथंभूतः सन् भजति?

वेङ्कटनाथ-भाष्यम् -- राजानं भजते भृत्यः, तद्वत् एव किं तव भजनं? तत्र आह -- गद्गतेन अन्तरात्मना मयि प्रेमासक्तेन मनसा इत्यर्थः। भृत्यस्य हि स्वभार्यायां मनः, राज्ञि भजनम्। क्वचित् दानमानादिना राजासक्तः भृत्यः तद्गतेन एव अन्तरात्मना तं भजते, ततः तत्साधारणं व्यावर्तयितुं श्रद्धावान् इति॥

विद्वान् न केवलं संस्कृतं भजते, किन्तु प्रेम्णा भजते। पुनः प्रेम फलापेक्षया न, किन्तु निःस्वार्थभावनया। कृष्णः यथा भजनीयः, साधु संस्कृतं अपि तथैव भजनीयम्। किमपि अनपेक्षमानः प्रेम्णा। अपि, अहं संस्कृतमातुः सरस्वतीदेव्याः कर्मफलापेक्षां विना सेवां करवाणि?

Monday, November 10, 2008

समत्वम् -- गीता

गीतायाः ख्यातोक्तिः -- समत्वं योग उच्यते (२।४८)। तथैव सा पुनर्वदति -- समः सङ्ग-विवर्जितः (१२।१८)। भाष्ये ज्ञानेश्वरः उदाहरति --

य आत्मानं रोपयति यः शस्त्रेण च्छिनत्ति च।
उभयोः सदृशीं छायां यथा वृक्षः प्रयच्छति॥१२।१९९

वृक्षः सर्वेभ्यः छायां प्रयच्छति, शीतलत्वं प्रयच्छति, पक्षपातं विना। ते वृक्षस्य आरोपनं किं कृतवन्तः इति अचिन्तयित्वा। आरोपनं नाम बीज-वपनं, सेचनम् इत्यादीनि। तथैव छायास्थः किं शस्त्रेण छिनत्ति इति अचिन्तयित्वा। तथा वयमपि सर्वेभ्यः संस्कृतं प्रयच्छामः।

नाम, केचन संस्कृतभारती-द्वारा किञ्चित् पठित्वा, द्रोहिणः भविष्यन्ति। भवतु। दोषारोपणं अपि ते संस्कृतेन यथा कुर्युः तथा प्रयतामहे। अपि च, स्मरणीयं -- अहिंसा परमो धर्मः -- इत्यस्याः उक्तेः पूरणं -- धर्महिंसा तथैव च -- इति।