Thursday, September 13, 2007

नीतिः पङ्गुः चेत्

मार्कः नामकः कश्चन जनः। कदापि कारयान-दुर्घटना अभवत्। पीडा-कारणात्, वैद्येन औषधं दत्तम्। एवं बहवः जनाः पीडा-निवारणार्थम् औषधं स्वीकुर्वन्ति। न कोऽपि दोषः खलु?

एकस्मिन् दिने, कश्चन आरक्षकः मार्कं कारागृहं नीतवान्। किमर्थं? यतः ५८ औषध-गुलिकाः मार्कस्य सकाशे आसन्। प्रायः सः न ज्ञातवान् यत् वैद्येन दत्तम् आसीत् . . . नैव। न्यायालये अपि मार्कः दोषी इति उद्घोषितम्। यतः, तस्मिन् राज्ये नीतिः एवम् अस्ति -- औषधम् यस्य सकाशे अस्ति, सः दोषी। वितरणं न कृतं चेत् अपि, वितरणार्थं औषधम् अस्ति इति मत्वा मार्कः कारागृहं प्रेषितः। वर्षद्वयानन्तरं उच्चन्यायालये, न्यायाधीशः उक्तवान् -- एतत् तु मूर्खत्वम्! वैद्येन दत्तं इति मन्तव्यम् एव -- इति।

(कथायाः अपरः पक्षः अस्ति। मार्कः पुनः पुनः आरक्षकाणां वीक्षणे अवरोधं कृतवान्। पूर्वं व्यसनात्, गुलिकानां सेवनम् अपि कृतम् तेन। अतः ते आरक्षकाः अपि मार्कस्य बन्धनं कारितवन्तः)

Sunday, September 09, 2007

मित्रं नपुंसके

भाषावर्गे, मित्र-शब्दस्य लिङ्गे प्रश्नः उद्भूतः। भाषा-पाक नाम पुस्तकात् समाधानं दीयते --

शिष्यः - आगतवान् अस्ति मित्रभूतः रमेशः। अहं रमेशशब्दम् अनुच्चार्य भूतकालिकम् आगमनं निर्देष्टुम् इच्छामि। तदा "मित्रम् आगतवत्" इत्येव वक्तव्यम्, उत् "मित्रम् आगतवान्" इत्यपि साधु?

आचार्यः - "मित्रम् आगतवत्" इत्येव वक्तव्यम्। "मित्रम् आगतवान्" इति प्रयोगः असाधुः एव। "मित्रं रमेशः आगतवान्" इति प्रयोगः पुनः साधुः भवति। यतः रमेशशब्दस्य तत्र विशेष्यत्वम्। तदनुगुणं क्तवतुप्रत्ययान्तस्य पुँल्लिङ्गता। क्तवतुप्रत्ययान्तं नपुंसकलिङ्गरूपं सर्दवा प्रयोगे क्लेशं जनयति। अतः "मित्रेण आगतम्" इत्येवं कर्मणिप्रयोगरूपम् एव प्रयोगसुलभम् इति भाति मम।

Saturday, September 08, 2007

राष्ट्रपतेः शपथः / प्रतिज्ञानं वा

सर्वदेशस्य संविधानं (constitution) वर्तते। भारतस्य तु अनेकासु भाषासु। तासु अन्यतमा संस्कृतम्। नूतनः राष्ट्रपतिः, उपराष्ट्रपतिः वा यदि पदम् आरोढुम उद्युक्तः, सः संस्कृतेन कथं शपे? एवम् --

राष्ट्रपतेः शपथः -- अहम् अमुकः [ईश्वरस्य नाम्ना शपे / सत्यनिष्ठया प्रतिजाने] यद् अहं श्रद्धापूर्वकं भारतस्य राष्ट्रपतेः पदस्य कार्यपालनं करिष्यामि (अथवा राष्ट्रपतेः कृत्यानि निर्वक्ष्यामि) तथा च सम्पूर्णयोग्यतया संविधानस्य विधेश्च परिरक्षणं, संरक्षणं, प्रतिरक्षणं च करिष्यामि; किञ्च अहं भारतस्य जनतायाः सेवार्थं, कल्याणार्थं च निरतः भविष्यामि।

उपराष्ट्रपतेः शपथः -- अहम् अमुकः [ईश्वरस्य नाम्ना शपे / सत्यनिष्ठया प्रतिजाने] यद् अहं विधिना भारतस्य संविधानं प्रति श्रद्धां, निष्ठां च धारयिष्ये, तथा च अहं श्रद्धासमन्वितं निर्वर्तयिष्ये तस्य पदस्य कर्त्तव्यानि यद् अहम् आरोढुम् उद्यतः अस्मि।

Wednesday, September 05, 2007

जाह्नवी - सोमवासरे

प्रातः अन्तिम-सत्त्रम्। अनन्तरं "जेपर्दी" नाम्ना क्रीडा। तदपि संस्कृतेन एव। हास्यकरम्! एकस्मिन् स्तरे, सर्वेऽपि अनुचितानि उत्तराणि उक्तवन्तः। केनापि एक-रूप्यकं अपि न सम्पादितम्। जेतुः अपि ऋणम्!!! अनन्तरम्, केचन छात्राः शिबिरे स्वानुभवान् वर्णितवन्तः। मध्ये मया निर्गन्तव्यम् आसीत् . . . अतः तदनन्तरं किम् प्राचलत् इति न जाने। अन्ये भागवाहिनः कृपया अत्र लिखन्तु।

अधुना विगणना (क्रमेण अधः गणना) आरब्धा। केवलं ३६५, ३६४, ३६३ . . . ३५९ दिनानि अवशिष्टानि।

जाह्नवी - रविवासरे

कक्ष्यायां गभीर-आत्मीयता। यद्यपि कोऽपि अपरिचितः नासीत्, तथाऽपि सर्वेषां सम्मुख-परिचयः शिबिरे एव प्राप्तः। मासः अतीतः इव आसीत्। अस्मिन् दिने, मनोरञ्जनकार्यक्रमे, बहवः युवकाः भागं स्वीकृतवन्तः। भारतीय गीतम्, एवं संस्कृति-प्रदर्शनं कृतम्। एतत् सर्वं बालकानां मुखैः श्रुत्वा सर्वे हृदयस्पृष्टाः।

जाह्नवी - शनिवासरे

द्वितीयदिनम्॥ दिनचर्या तु यथापूर्वम् एव। शास्त्री महोदयः संस्कृतस्य स्थितिः का, समाजः कः, स्वचिन्तनं कथं विशाली-करणीयम् -- एवं मनसः विकासनं कारितम्।

सर्वस्वामिनः सामान्योक्तिः अस्ति -- ब्राह्ममुहूर्त-उत्थानम्। किन्तु तस्मिन् समये सामान्य-संस्कारः अस्ति गभीर-निद्रा। न तु शिबिरे। सर्वेऽपि षड्वादनात् पूर्वम् एव उत्थिताः। तदपि विना प्रयत्नम्। पुनः अर्धरात्रेः जल्पनानन्तरम्। परितः यः संस्कारः अस्ति, स्वयं ऊढ्वा, मनसि सन्निहितं भवति। अस्मिन् शिबिरे, तत्तु लाभाय।

जाह्नवी -- शुक्रवासरे

शिबिरस्य प्रथम-दिनम् अद्य! दिनचर्या -- योगकक्ष्या, पठन-सत्त्र-चतुष्टयं, कृष्ण-शास्त्रिणः भाषण-द्वयं, मनोरञ्जन-कार्यक्रमः च। आदिनं संस्कृत-वातावरणम्। अस्मिन् शिबिरे अष्ट-गणाः आसन् -- बालगणः, किशोरगणः, प्रौढाणां षड्गणाः च। सर्वगणस्य अध्यापकः आयोजना . . . एवं कार्यकर्तॄभिः परिश्रमेण व्यवस्था कृता।

उद्घाटनकार्यक्रमे मुख्यातिथिः आसीत् आर्ष-विद्या-गुरुकुलस्य स्वामी तत्त्वविदानन्दः। संस्कृते तस्य उत्सुकतां श्रुत्वा, सर्वे आनन्दिताः। अनन्तरं पठनम् आरब्धम्। योग्याः अध्यापकाः सम्यक् पठनं कारितवन्तः। कृष्ण-शास्त्री महोदयः प्रथम-भाषणे, संस्कृतक्षेत्रे प्राचुर्यं कुदृष्टिं निवारितवान्। अयोग्यं चिन्तनम् अपगतम्। द्वितीय-भाषणे, जीवनस्य लक्ष्यस्य चिन्तनं कृतम्।

जाह्नवी -- गुरुवासरे

गत-सप्ताहे, जाह्नवी नाम्ना आवास-संस्कृत-शिबिरं, अमेरिकायाः पूर्वप्रान्ते प्राचलत्। एतत् शिबिरं, संस्कृतभारत्या योजितम्। प्रथम-सत्त्रं शुक्रवासरे प्रातः आसीत्। अतः बहुशः सर्वे गुरुवासरे एव वासस्थलं प्रति आतगवन्तः। प्रथमं, पञ्जीकरणम्। तदा अस्माकं वासगृहं निर्दिष्टम्। यथा जाह्नवी, तथा वासगृह-नामानि अपि नद्याः नामानि -- गङ्गा, यमुना, सरस्वती, तुङ्गा, कावेरी इत्यादीनि। स्व-वस्तूनि वासगृहे स्थापयित्वा, भोजनं कृत्वा, नूतन-मित्राणां परिचयं प्राप्य, निद्रा कृता।

सरलम्

एतस्य पुटस्य एका पठिता (या पठति, सा) सूचितवती यत् नूतन-लेखाः कठिनाः सन्ति . . . पुरातन-लेखाः सरलतराः आसन् -- इति। एवं, पुनः केचन लेखान् सरल-शैल्या लिखामि। तत्र "सरलम्" इति अङ्कः अपि भविष्यति।