गीतायां (६-४७) उच्यते -- यो मां मद्गतेन अन्तरात्मना श्रद्धावान् भजते, सः मे युक्ततमो मतः -- इति।
ज्ञातं सन्नपि उच्यते -- उपदेशः उत्तमः इति। कर्मयोगिभिः अत्र कृष्ण-पदस्य स्थाने, साधु-पदाश्रयः अपि स्यात्। साधु यथा -- परित्राणाय साधूनाम्। साधु-पदं विशेषणं, न तु विशेष्यम्। विशेष्येषु संस्कृतम् अपि अन्यतमं किमर्थं न? यः संस्कृतं भजति, सः युक्ततमः। केन कथंभूतः सन् भजति?
वेङ्कटनाथ-भाष्यम् -- राजानं भजते भृत्यः, तद्वत् एव किं तव भजनं? तत्र आह -- गद्गतेन अन्तरात्मना मयि प्रेमासक्तेन मनसा इत्यर्थः। भृत्यस्य हि स्वभार्यायां मनः, राज्ञि भजनम्। क्वचित् दानमानादिना राजासक्तः भृत्यः तद्गतेन एव अन्तरात्मना तं भजते, ततः तत्साधारणं व्यावर्तयितुं श्रद्धावान् इति॥
विद्वान् न केवलं संस्कृतं भजते, किन्तु प्रेम्णा भजते। पुनः प्रेम फलापेक्षया न, किन्तु निःस्वार्थभावनया। कृष्णः यथा भजनीयः, साधु संस्कृतं अपि तथैव भजनीयम्। किमपि अनपेक्षमानः प्रेम्णा। अपि, अहं संस्कृतमातुः सरस्वतीदेव्याः कर्मफलापेक्षां विना सेवां करवाणि?
No comments:
Post a Comment