Thursday, October 28, 2010
सूक्तयः
अधुया संस्कृतस्य न किमपि उत्कृष्टं पदं व्यवहारे, न वा मध्यमम्। जिह्वाग्रवासिनी शुभ्रवस्त्रधारी सा देवी इदनीं मशीमयी संजाता। कुत्रचित् शरीराङ्गलेपनम्, अपरत्र कागदलेखनम्। अत्र कादाचित्की प्रार्थना क्रियते, कस्याश्चित् सूक्तेः अनुवादाय। तदा तदा, प्रथमं यत् मनसि स्फुरति, यत् अवधार्य, कृतयः परिशील्यन्ते। तदा सर्वदापि सुन्दरतरवचनं दृश्यते। हा हन्त! यदि एवं व्यवहारे प्रयुङ्क्ते, तस्मादेव अभ्यासात् ताः सूक्तयः झटिति एव आयासं विना स्फुरेयुः।
Monday, October 25, 2010
सुभाषितार्थग्रहणम्
सर्वस्मिन् अपि क्षेत्रे, आचार्येण नीयमानस्य वटोः चिन्ता अकार्या। तदभावे "टीका गुरूणां गुरुः" इत्यादिन्यायद्वारा गुरुम् अन्विषति सत्यपि, यथाशक्ति अग्रे सरणीयम्। तत्र तु टीका अनुवादः वा महते लाभाय भवति। तथापि क्वचित् सन्देहो विद्यते। पञ्चतन्त्रे कथामुखे पुत्रबुद्धिप्रकाशाय अमरशक्तिः सचिवान् आदिशति। तत्र सुभाषितम् अयं विद्यते --
किं तया क्रियते धेन्वा या न सूते न दुग्धदा ।
कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान् ॥
या धेनुः माता न भवति, न वा दुग्धं वितरति, तस्याः न किञ्चित् अपि प्रयोजनम्। तथैव जननमात्रेण कस्याश्चित् व्यक्तेः न किञ्चित् अपि प्रयोजनम्। अतः सर्वेणपि विद्वता भवितव्यं, सर्वेणापि भक्तिमता भवितव्यम् इति भावः।
अत्र भक्तिः का इति प्रश्नः उदेति। क्वचित् अनुवादकेन न कोऽपि विशिष्टार्थः सूचितः। किन्तु, सामान्यार्थः अस्थाने इति भाति। केनचन टीकाकारेण विनयार्थः सूचितः। विद्वान् विनयवान् भवेत् इति भावार्थः।
किन्तु सः एव अर्थः अभिप्रेतः सुभाषितकारेण? सौन्दर्यलहर्यां द्वितीयश्लोके -- विधिं भजति -- इति। तत्र आनन्दलहरीटीका -- विधिं भजति करोति -- इति स्पष्टीकरोति। अत्रापि किं सः भावः स्वीकारयोग्यः? सर्वेणापि विद्या संपादनीया, पुनश्च सा प्रयोक्तव्या इति? अयमर्थः उचितः इति भाति। किन्तु सुभाषितकाराभावे सूक्ष्मेक्षिकापरीक्षा दुःशक्या। ऊहा इयम् उचितम् अनुचितं वा स्यात्। न्यूनातिन्यूनं सुभाषितपठनेन ईदृशी चर्चा प्रवर्तेत। सुखमयं च जीवनं यापितं भवति।

पञ्चतन्त्रपद्धतिः
पञ्चतन्त्रपठनावसरे केचन प्रश्नाः उद्भवन्ति --
(१) राज्ञा अमरशक्तिना त्रयः विवेकरहिताः पुत्राः बुद्धिप्रकाशनार्थं विष्णुशर्मणे ब्राह्मणाय समर्पिताः। तस्य च ब्राह्मणस्य सिंहनादः -- एतान् मासषट्केन नीतिशास्त्रज्ञान् करोमि -- इति। किन्तु २४० पुटैः लघ्वाकारवान् अयं ग्रन्थः। अस्माभिः प्रतिदिनं पुटद्वयमात्रं पठित्वा मासषट्केन संपूर्णं ग्रन्थं पठितुं शक्यते। आदिनं विष्णुशर्मणा विवेकरहितबुद्धिप्रकाशाय किं वा कृतम्?
(२) पञ्चतन्त्रकं नाम नीतिशास्त्रं बालावबोधनार्थं भूतले प्रवृत्तम्। बालाः शास्त्रविमुखाः स्युः, अल्पवयस्काः वा। ग्रन्थेऽस्मिन् मुख्यपात्राणि बहुधा वनजन्तवः। अल्पवयस्काः यदा पठन्ति, अनेन रुचिवर्धनेन अवधानं सुस्थिरं भवति। अतः बालाः नाम अल्पवयस्काः एव। किन्तु, सुभाषितानि नैकाने दृश्यन्ते ग्रन्थेऽस्मिन्। अवश्यम् शास्त्रविमुखानां विवेकरहितानाम् अल्पवयस्कानां सुभाषिताध्ययने रुचिः न स्यात्। अतः बालाः नाम अल्पवयस्काः नैव। कथं वा समाधानप्राप्तिः?
भवन्तः पठितारः कृपया स्वाभिप्रायं प्रकटीकुर्वन्तु।

Friday, October 22, 2010
समासः
बहवो वयं संस्कृतं पठामः, तेषु केचन एव तया भाषयाऽपि संभाषणं कुर्वाणाः स्मः। द्वाभ्यां मासाभ्यां प्राक् आवासीयशिबिरे कैश्चन अस्माभिः समासाभ्यासः कृतः। तदा स्वयं एव सर्वच्छात्रेण द्वित्राणि समस्तपदानि निर्माय अस्माभिः किञ्चन शिबिरानुभवकथनवाक्यं मुद्रितम्। तच्च अत्र श्रूयताम्। बहूनां भागिनां सर्वप्रथमसमासनिर्माणप्रयत्नः अयम्। श्लाघनीयः ननु प्रयत्नोयम्?
अवतारणाय -- mp3 पत्रम्। ००:०१:४० होराः। १,५७ MB ॥

Thursday, October 21, 2010
वाल्मीकिजयन्ती
वाल्मीकिजयन्ती अद्य श्वो वा भविता। भारते क्वचित् अद्य पर्वदिनम् आचर्यते। बङ्गलूरुनगरे शुक्रवासरे श्वः विरामदिनम् उद्घुष्टम्। न केवलं तं महर्षिं स्मर्तुं स्तोतुं वा अवसरोऽयं, प्रत्युत तस्य कृतीः प्रयोक्तुं दिव्यावसरोऽयम्।
समाजे किञ्चित् दलं स्वं वाल्मीक्यनुयायि मन्यते। सर्वोत्कृष्टकृती रामायणं, योगवासिष्ठं च ये द्वे श्रीवाल्मीकिना विरचिते। पूजावसरे एतयोः द्वयोः पठनम् एव मुख्यांशः। योगवासिष्ठे सर्वविधतथ्यानि वाल्मीकिना उदीरितानि। मुख्याख्यानं तु रामजागरणं श्रीवसिष्ठेन। अद्यत्वे विरलाः एव अस्य पठितारः।
वेदान्ततत्त्वविचारे सार्वजनीयः प्रश्नः -- बहुषु विद्यमानेषु मार्गेषु कतमः मार्गः श्रेष्ठतमः -- इति। भक्तिः उत ज्ञानम्? ज्ञानम् उत कर्म ... इत्यादि। योगवासिष्ठे सुतीक्ष्णनामकः प्रयाता अपरोक्षदर्शिनम् अगस्तिम् ऋषिं पप्रच्छ --
सुतीक्ष्ण उवाच --
मोक्षस्य कारणं कर्म ज्ञानं वा मोक्षसाधनम् ।
उभयं वा विनिश्चित्य एकं कथय कारणम् ॥
अगस्तिरुवाच --
उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः ।
तथैव ज्ञानकर्मभ्यां जायते परमं पदम् ॥
पक्षी कश्चित् कथं वा आकाशस्थं स्वनीडं प्राप्नुयात्? अन्तिमताडनं सव्यपक्षस्य असव्यपक्षस्य वा स्यात्, किन्तु उभाभ्यां विना तलस्थितिमात्रम्। अतः यथा उभौ अपि पक्षौ विना पक्षी आकाशे नैव उड्डयते, तथा एव कर्म विना, ज्ञानं विना वा परमपदप्राप्तिः नैव भवेत्।

Tuesday, October 19, 2010
प्रतिस्पन्दना
वयं बहवः अनौपचारिकसंस्कृतपठनपाठने रताः। यत्र धनं नैव अपेक्ष्यते, बहुत्र प्रतिस्पन्दनासु सर्वाऽपि व्यवस्था उत्कृष्टा इति अङ्क्यते। किन्तु वयं स्वस्मिन् न्यूनताः अभिजानीमः, ताः परिष्कर्तुं च प्रयतमानाः। अद्य चित्रमिदं दृष्ट्वा मन्दस्मितः जातोऽहम्।
व्यवहारभाषा
कतिपयदिवसेभ्यः प्राक् केनापि अङ्कितं प्रतिस्पन्दनासु यत् बहवः राजनीतिवन्तः संस्कृतभाषया शपथं कुर्वन्ति, प्रत्युत न कुत्रचित् तया व्यवहारभाषया वादविवादः श्रूयते सदसि इति। अद्य क्वचित् एकेन उक्तं यत् अपरेण संस्कृतभाषया व्यवहरामि इति, यतो हि तयोः व्यवहारभाषा असमाना। दौर्भाग्यं यत् संस्कृतं ईदृक् हास्यास्पदं विद्यते। कदाचित् वार्ताहरेण सरलसंस्कृतभाषया एते महोदयाः प्रष्टव्याः एव।
Sunday, October 17, 2010
रामायणम् - १.००४ -- कुशीलवौ
अनुवर्तते ध्वनिमाला। सत्त्रेऽस्मिन् कुशीलवयोः प्रवेशः ध्वनितः।
अवतारणाय -- mp3 पत्रम्। ००:१५:११ होराः। ३,४८ MB ॥

Saturday, October 16, 2010
विजयदशमी
दशमीतिथिः समासन्नः। नवरात्रे अहोरात्रं घोरतरं तपः कृत्वा, मानसिकासुरान् मधुकैटभादीन् विजित्य जितेन्द्रियाः इव सर्वेऽपि एकाग्रबुद्धयः कृतव्रताः वीतमन्यवः। क्वचित् सूर्योदये नवमीशेषत्वात् श्वो भूत्वा विजयदशमी आचर्यते, अपरत्र अद्यैव। पुण्यकालेऽस्मिन् आयुधपूजा क्रियते, यत्र ज्ञानैकलक्षणाः पुस्तकपूजां कुर्वन्ति। दृष्टप्राये चलनचित्रे अत्र स्थाप्येते यत्र पुण्यपात्राणि रामादयः ऋषयश्च बुद्बुधगिरा प्रार्थयन्ते॥
वीणापाणि नमस्तुभ्यम्
नमस्तुभ्यं हंसवाहिनि ।
नमस्तुभ्यं वाग्दायिनि देवि
सरस्वति नमो नमः ॥
वीणापाणि नमस्तुभ्यम्
नमस्तुभ्यं हंसवाहिनि ।
नमस्तुभ्यं वाग्दायिनि देवि
सरस्वति नमो नमः ॥
Friday, October 15, 2010
विश्वसंस्कृतपुस्तकमेला
२०११, Jan मासे, बेङ्गलूरु-नगरे विश्वसंस्कृतपुस्तकमेला प्रवर्तिष्यते। अदृष्टप्रायः कार्यक्रमः अयं यत्र बहवः संस्कृतप्रेमिणः भागं वक्ष्यन्ति। कार्यक्रमयोजना सूक्ष्मेक्षिकया क्रियमाणो विद्यते इति तथ्यम् एव। किन्निमिता मेला? उद्देशाः के? भविष्यन्ति कानि? इत्यादयः प्रश्नाः करपत्रेऽस्मिन् विवृताः सन्ति। तच्च सर्वैः अवलोक्यम्। मेला इयं गम्या एव।
"अपूर्वस्य संस्कृतजगतः अभूतपूर्वं दर्शनम्" इति घोषणावाक्यम्। स्वर्गीकृतभूतलम् इति मे विचारः।

Thursday, October 14, 2010
शीशरन्नवरात्रोत्सवाह्वानपत्रिका
दक्षिणाम्नायशारदापीठे शृङ्गगिरौ नवरात्रोत्सवः वैभवेन आचर्यते। आमन्त्रणं संस्कृतभाषयाऽपि विद्यते, यच्च अत्र पठितुं शक्यम्।
Wednesday, October 13, 2010
आरूढः
पदमिदं श्रुतप्रायम् एवम्। हंसारूढा, गजारूढः, रथारूढः, वृक्षारूढः इत्येवं समासे च। ध्यानश्लोकादिषु अपि प्रचुरः प्रयोगोऽयं यथा -- गृहाणार्घ्यं मया दत्तं गजारूढ नमोऽस्तु ते॥ भारतीयाः वयम् इति श्रुत्वा, क्वचित् विदेशीयानि मित्राणि पृच्छेयुः एव -- गजारूढेन भवता पाठशाला गम्यते स्म नु? -- इति। तदा -- आम्, परन्तु आरोहणं क्लेशाय -- इति प्रत्युच्चार्य, तदनु चलच्चित्रम् इदं दर्शनीयम् ।
Monday, October 11, 2010
देव्याः माहात्म्यम्
पूर्वं ध्वनिमाला आरब्धा। द्वितीयविघ्नशमनार्थं द्वितीयम् इदम्।
अवतारणाय -- mp3 पत्रम्। ००:१२:५८ होराः। ३,०४ MB ॥

Sunday, October 10, 2010
सप्तश्लोकी दुर्गा ७
सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ।
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥ ११-३६
हे देवि ! अखिलेश्वरि ! अखिलस्य विश्वस्य ईश्वरि व्यापिके ! सर्वाबाधाप्रशमनं सर्वदुःखोपशमः। अस्मद्वैरिविनाशनं अस्माकं वैरिणां दैत्यानां विनाशनं विध्वंसः। एवंविधम् एतत् उपन्यस्तं कार्यं त्वया जगदुपकारकं कर्म कर्तव्यम्।

सप्तश्लोकी दुर्गा ६
रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान् ।
त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥ ११-२८
हे देवि ! त्वं तुष्टा सती त्वाम् आश्रितानाम् अशेषान् रोगान् उपद्रवान् अपहंसि नाशयसि। रुष्टा सती सकलान् कामान् सकलान् अभीष्टान् अर्थान् अपहंसि। त्वाम् आश्रितानां नराणां न विपत्, आपत् न विद्यते। विशेषतः ये त्वाम् आश्रिताः, ते अन्येषाम् आश्रयतां प्रयान्ति।

सप्तश्लोकी दुर्गा ५
सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥११-२३
सर्वस्वरूपा सर्वतः सर्वत्र पाणिपादम् अनन्तोऽवयवो यस्याः सा। यद्वा सर्वसु अरूपं यस्याः सा तथोक्ता। सर्वस्य स्वामिनी हे सर्वेशे ! सर्वशक्तिभिः समन्विता । हे देवि ! त्वं भयेभ्यः नः देवान् त्राहि त्रायस्व। देविदेवीति प्रसादने द्विरुक्तिः।

सप्तश्लोकी दुर्गा ४
शरणागतदीनार्तपरित्राणपरायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥ ११-११
शरणम् आगताः रक्ष रक्षेति प्रपन्नं प्राप्ताः, ते एव दीनाः दुःखभाजः आर्ताश्च दुःखिताः, तेषां दुःखेभ्यः परित्राणं परिरक्षणं तदेव परं मुख्यम् अनयम् वर्त्म च यस्याः सा शरणागतदीनार्तपरित्राणपरायणा। हे देवि ! नारायणि ! सर्वस्य लोकस्य आर्तिहरे ! पीडादूरीकर्त्रि ! नमोऽस्तु ते।

सप्तश्लोकी दुर्गा ३
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ ११-९
सर्वमङ्गलमाङ्गल्ये सर्वेषां मङ्गलादीनां यत् माङ्गल्यं तद्रूपे ! शिवे कल्याणकारिणि ! सर्वार्थसाधिके सर्वेषाम् अर्थानां साधिके साधयित्रि ! शरण्ये शरणार्हे ! त्र्यम्बके त्रिनेत्रे ! गौरि गौरवर्णे ! नारायणि विष्णुमाये ! नमोऽस्तु ते॥

सप्तश्लोकी दुर्गा २
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।
दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ॥ ४-१६
हे देवि ! दुर्गे ! स्मृता सती त्वं अशेषजन्तोः सर्वस्यापि प्राणिनः भीतिं हरसि। स्वस्थैः अभीतैः तु जन्तुभिः स्मृता सती त्वं शुभां मतिं बुद्धिं ददासि। दारिद्र्यदुःखभयहारिणि ! दारिद्र्यतः समुत्थितं दुःखं, तस्मात् भयं, तत् हरतीति तच्छीला। त्वदन्या का सर्वोपकारकरणाय सदार्द्रचित्ता? सर्वोपकारान् कर्तुं सदा कृपार्द्रहृदया परा देवता त्वदन्या का अस्ति?

सप्तश्लोकी दुर्गा १
ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।
बलादाकृष्य मोहाय महामाया प्रयच्छति ॥ १-४२
न हि केवलं प्रवृत्तिमार्गाणाम् असौ मोहिका भवति, किन्तु ज्ञानिनाम् अपि। सा देवी भगवती महामाया ज्ञानिनां चेतांसि अन्तःकरणानि बलात् आकृष्य विवेकात् व्यावर्त्य मोहाय प्रयच्छति मोहवन्ति करोति। भवद्विधानां का कथा इति भावः॥
[ दुर्गासप्तशती गूढार्थमयी। प्रकाशितार्थः अत्र अन्वयमात्रप्रायः ]

Friday, October 08, 2010
वितस्ता
२००९-तमे वर्षे वितस्ता इति शिबिरम् आवासीयं प्रवर्तितं देशस्य अस्य उत्तरे भागे। यथा काश्मीरराज्ये विस्तता नदी प्रवहति, तथैव अत्रापि सा एव पावनी संस्कृतनदी प्रवहतु इति धिया। काश्मीरराज्येतिहासः नीलमतपुराणे किञ्चित् अङ्कितः वर्त्तते। तत्र एव च उच्यते -- वितस्तां ये गमिष्यन्ति ते यास्यन्त्यमरावतीम् -- इति। पुराणमिदम् अन्तर्जाले लभ्यते। तत्र १४३९-तमं श्लोकं भवन्तः पठितारः स्वयम् एव परिशीलयन्तु।
Thursday, October 07, 2010
नवरात्रम्
श्वः आरभ्य नारात्रपर्वकालः। तत्तद्देवताराधने दर्शकसमूहप्राप्त्यर्थं सर्वाभिः देवालयकार्यसमितिभिः पत्राणि विकीर्णानि। प्रायशः सर्वत्र नवरात्रिः इति अपशब्दः प्रयुक्तः। न्यूनातिन्यूनं यदा संकल्पः क्रियते, शब्दः सुप्रयुक्तो भवतु। नवानां रात्रीणां समाहारः नवरात्रम् इति शुद्धिकौमुदी।
भाषायाः प्रयोजनम्
भाषाकौशल्यवर्धनाय सर्वप्रथमोपायः श्रवणम्। अतः ध्वनिमुद्रणश्रवणे मम प्रीतिः वर्त्तते। कदाचित् कस्यचन उपाध्यायस्य स्वानुभववर्णनकथनं शृणोमि स्म। एकदा संस्कृतविद्यालये मञ्चे संस्कृतभाषया एव भाषमाणः सः। पिपासिते जाते सः अपृच्छत् -- किञ्चित् जलम् आवश्यकम् -- इति। परन्तु, पृष्टः संस्कृतच्छात्रः प्रार्थनां नैव अवागच्छत्। वीक्षकेषु अन्यतमेन संस्कृतपण्डितेन प्रादेशिकभाषया सः एव छात्रः पुनः प्रार्थितः, तदा एव जलम् आनीतम्। सः अध्यापकः अनुधा भणति -- संस्कृतेन न दाहः शाम्यते -- इति।
द्वित्रेभ्यः दिनेभ्यः पूर्वम् उच्चन्यायालयघोषणा यत् संस्कृतभाषाव्यवहारः न्यायालये न्यायविरुद्धम् इति। न वा प्रार्थकः संस्कृभाषया प्रार्थनां कुर्यात्, न वा न्यायाधीशाः संस्कृतभाषया निर्णयं प्रकाशयेयुः। अत्र तु प्रार्थकः संस्कृतभाषामात्रम् उपयुज्य नैव प्रार्थयत, प्रत्युत हिन्दीभाषानुवादः अपि कृतः। तदपि अपर्याप्तम् आसीत्। अहो स्थितिः।

Wednesday, October 06, 2010
अहम् ईश्वरनाम्ना शपे
केभश्चित् मासेभ्यः प्राक् प्रसृता वार्ता इयं यत् राजसभायां शपथोच्चारः संस्कृतभाषया कृतः इति। तदिदं मुद्रितं च।
Tuesday, October 05, 2010
अवधानग्रहं नृत्यम्
विमानेन यातायातम् सर्वैः अभ्यस्तम्। अतः यात्रिकैः आरक्षानुशासनोद्घोषणा सर्वथा उपेक्ष्यते। केचन पुस्तकं पठेतुः, एके सङ्गीतं शृणुयुः, अन्ये च संलापं कुर्युः। अतः क्वचित् अवधानाकर्षणार्थम् अतिथिपतिभिः प्रेक्षात्मकं नृत्यं विधीयते। किन्तु किम् अनुशासने अवधानपातः उत नृत्ये इति प्रश्नः अवशिष्यते।
भारतम्
अस्माकं देशः भारतदेशः। अस्य का व्युत्पत्तिः? भा दीप्तौ अर्थे वर्त्तते। अतः ज्ञानप्राप्तिः एव मुख्योद्देशः यत्र तत् भारतम् इत्युच्यते। कदाचित् श्लोकान्तरमपि श्रुतम् -- भाति सर्वेषु शास्त्रेषु रतिः सर्वेषु जन्तुषु। तारणं सर्वलोकेषु तेन भारतम् उच्यते॥ पौनःपुन्येन स्मारयन्ति ईदृशाः श्लोकाः -- परोपकारं पुण्याय पापाय परपीडनम् -- इति।
Sunday, October 03, 2010
विचित्रं चित्रम्
अन्तर्जाले सर्वक्षेत्रचित्राणि दरीदृश्यन्ते। तथापि संसारे प्रकृतिः क्षणशः यदा आलोक्यते, निजसौन्दर्यं स्वयं भासते। अद्य जलबिन्दुं कञ्चन अवलोकयामः।
Friday, October 01, 2010
रामायणम् - १.००२ -- आदिकाव्यम्
आरभ्यते ध्वनिमाला। प्रथमसत्त्रे रामायणस्य प्रचोदनं ध्वनितम्।
अवतारणाय -- mp3 पत्रम्। ००:१९:४२ होराः। ४,५१ MB ॥

ग्रहान्तरे जीवः
विश्वेऽस्मिन् ग्रहान्तरे जीवाः केचित् किं वर्त्तन्ते इति प्रश्नः। सर्वेषु लोकेषु पितराः देवाश्च कर्मफलम् अनुभवन्ति इति अस्माकं भारतीयानां विश्वासः। किन्तु अस्मिन् एव भूलोके ग्रहान्तरे प्राणिनः किं वर्त्तन्ते इति प्रश्नान्तरम्।
पाश्चात्यैः कैश्चन अनुकूलग्रहान्वेषणे जीवनम् एव यापितम्। सर्वेषु ग्रहेषु सामान्यप्राणिनः जीवितुम् नैव शक्नुवन्ति इति अनुमानम्। असामान्यप्राणिनः नाम भूतपिशाचादयः। बहु कालं यापयित्वा, इदमिदानीं तादृशः ग्रहः दृष्टिगोचरं पतितः, यत्र वातावरणं जीवानुकूलं स्यात्।
श्लाघनीयः अयं प्रयासः। एतादृशः कियान् प्रयासः कृतः अस्माकं पूर्वजैः ऋषिभिः चिरन्जीविभिश्च? न केवलं लोकान्तरे कर्मफलानुभवः, प्रत्युत लोकेऽस्मिन् एव भूतपिशाचादयः निवसन्ति, तात्कालिकदेवदर्शनं च भवितुम् अर्हति इति तेषाम् अनुभवः। "सः तपोऽतप्यत। सः तपस्तप्त्वा" -- इति उक्तेः कियती महत्ता ...

Subscribe to:
Posts (Atom)