शृङ्गगिरेः जगद्गुरुभिः बह्व्यः कृतयः रचिताः। अवश्यम् उपनिषदः अपि व्याखाताः। विद्यारण्यस्वामी सुप्रसिद्धः, यस्य पञ्चदशी बहुभिः साधकैः अधीयते। तेन अपरोऽपि अनुभूतिप्रकाश नामकग्रन्थः विरचितः। अस्य शैली सरला मधुरपूर्णा च। तथैव शङ्करानन्दसरस्वतीयतेः उपनिषद्रत्नम् (आत्मपुराणं) विद्यते। द्वेऽपि कृती श्लोकात्मके। एतयोः कृत्योः महत्तां प्रमाणयितुं शक्यते -- अनुभूतिप्रकाशिकस्य उपरि वृत्तित्रयं वर्त्तते। तथैव उपनिषद्रतस्योपरि काचित् वृत्तिः उपलभ्यते। कैश्चन तादृशम् उपयोग्यत्वम् अनुभूतं, यस्मात् वृत्तिरेव रचिता एतयोः कृत्योः उपरि। किन्तु, बहुशः वृत्तेः अनावश्यकता इति पठितृभिः शप्यते।
अनुभूतिप्रकाशः, उपनिषद्रत्नं च अधुना उपलभ्येते इति बोद्धव्यम्। एतादृशीनां कृतीनाम् अध्ययनपरम्परा नष्टा इति चेन्न। सम्पूर्णानुभूतिप्रकाशः स्वामिपरमार्थानन्देन अस्मिन् दशके एव पाठितः। उपनिषद्रत्नस्य कश्चित् भागः (केनोपनिषद्व्याख्या) गतसंवत्सरे अमेरिकादेशे पाठितः।
एवं च सति, अस्माभिः उपनिषदां व्याख्याचतुष्टयं दृष्टम्
- भास्करानन्दसरस्वतीयतेः उपनिषत्प्रसादः
- अमरदासस्य उप्निषन्मणिप्रभा
- विद्यारण्यस्वामिनः अनुभूतिप्रकाशः
- शङ्करानन्दसरस्वतीयतेः उपनिषद्रत्नम् (आत्मपुराणम् इति नामान्तरम्)
3 comments:
Hello,
Thanks for sharing the link - but unfortunately it seems to be down? Does anybody here at kalidasa.blogspot.com have a mirror or another source?
Thanks,
Harry
What link are you referring to?
FYI: If you include your contact details in a comment, I'll get back to you without publishing your comment to the blog.
anyone can tell me how to traslate this in hindi ???
Post a Comment