Sunday, January 30, 2011

अमरकोषः

यथा काव्यप्रवेशस्तरे प्रशस्तः रामोदन्तः प्रयुज्यते, तथैव कुत्रचित् ग्रन्थान्तरं रामायणसङ्ग्रहो नाम । यस्य च आदिमः श्लोकः --

सीतारामपादाब्जान् अभिवाद्य तनोम्यहम् ।
सुखबोधाय बालानां श्रीरामायणसङ्ग्रहम् ॥

प्राचीनपद्धत्या तु शब्दरूपावलिं धातुरूपावलिं तथा अमरकोषं कण्ठस्थीकृतवन्तः गुरवः, तदधीनाः छात्राश्च सर्वत्र प्रकाशं क्षिप्त्वा पठन्ति स्म ।

तद्यथा -- पादाग्रं प्रपदं, पादः पदङ्घ्रिश्चरणोऽस्त्रियाम् -- इति । किन्तु, पादस्तु परिचितपदं सर्वेषाम् । अब्जो न तथा । तच्चोच्यते अमरे -- अब्जो जैवातृकः सोमः -- इति चन्द्रार्थे, यस्मात् अपेक्षितार्थप्रकाशः असञ्जातः ।

अपेक्षितार्थविवरणम् अमरे न दृश्यते । उच्यते त्रिकाण्डशेषे -- पद्मधन्वन्तरी चाब्जौ, अण्डजः खगमीनयोः -- इति । यस्मात् “पद्मे अब्जः” इति ज्ञायते ।

अस्मात् काचित् पृच्छा -- किं नाम प्रयोजनं, यस्मिन् अब्जस्यापि प्रचुरस्य अर्थः न प्रकाश्यते । अत्र उत्तर्यते -- पर्यायपदानि अनन्तानि, कति वा वक्तव्यानि -- इति । उक्तं चामरे -- पुण्डरीकं सिताम्भोजम् -- इति । तथैव -- कुशे जले शेते इति कुशेशयं, तामरे जले सस्तीति तामरसं, सरसि भवं सारसं, सरस्यां रोहतीति सरसीरुहं, कं जलम् अलति इति कमलम् -- इति ।

Saturday, January 29, 2011

विभक्तयः

विदितं सर्वैर्यत् सप्तसु विभक्तिषु कारकाणि षट् इति । तद्यथा श्लोकेन स्मर्यते --

कर्ता कर्म च करणं संप्रदानं तथैव च ।
उपादानाधिकरणे चेत्याहुः कारकाणि षट् ॥

सप्ताहान्ते प्राथमिकवर्गे कस्मिंश्चित्, विभक्त्यर्थः प्राकाश्यत । तत्र यदा कारकसंज्ञाः उक्ताः, प्रतिपदार्थः बोधनीयः अभवत् । तद्यथा -- किमिदं संप्रदानत्वं, किमिदम् उपादानत्वम्, इत्यादयः प्रश्नाः पृष्टाः । संज्ञया संज्ञीबोधः सहसा न सञ्जातः ।

तैरेव प्रश्नकर्तृभिस्तु -- रामाय नमः, वृक्षात् पत्रं पतति -- इत्यादीनां वाक्यार्थः सुष्ठु अवगम्यते । तस्मात् आदौ श्लोकान्तरं सतात्पर्यं बोधनीयम् इति भाति यद्यथा --

रामो राजमणिः सदा विजयते, रामं रमेशं भजे ।
रामेणाभिहिता निशाचरचमू, रामाय तस्मै नमः ।
रामान्नास्ति परायणं परतरं, रामस्य दासोस्म्यहम् ।
रामे चित्तलयः सदा भवतु मे , हे राम मामुद्धर ॥

अत्रापि, यद्यपि ते प्रश्नान्तराणि पृच्छेयुः, तथापि भावावगमः भवेत् ।

Thursday, January 20, 2011

अमात्यगुणाः

रामायणे अयोध्यावर्णने मन्त्रिणः सुवर्णिताः । तेषु विशेषणेषु अन्यतमानि सर्वजनजीवितयोग्यानि --

  • विद्याविनीताः -- विद्याविनयोभयसंपन्नाः
  • यथावचनकारिणः -- यथावचनं कुर्वन्ति, सत्यप्रतिज्ञाः
  • स्मितपूर्वाभिभाषिणः -- निर्मत्सरत्वम्
  • सततं प्रियवादिनः

एवं च राजगुणं संहरति --

  • प्रजानां पालनं कुर्वन्नधर्मं परिवर्जयन्

Saturday, January 15, 2011

अयोध्या

ख्यातदशरशासिता पुरी इयम् । सा च सत्यनामा इति वाल्मीकिना विवृतम् । सत्यनामा यथार्थनामा अन्वर्थनामा । अत्र टीकाकारैरुच्यते --

  1. न कैश्चित् योधितुं शक्या इति अयोध्या
  2. अयोभिः विष्णुब्रह्मशिवैः ध्यायते नित्यं स्मर्यते या सा अयोध्या

द्वितीयार्थप्रकाशः कुत इति प्रश्नः । यदि भवद्भिः प्रेक्षावद्भिः ज्ञायते, कृपया सूचनीयाः अत्र वयम् ।

Friday, January 14, 2011

कथोपायः

आबालवृद्धं सर्वमपि विविधाभिः कथाभिः कालं नयति । अतः तत्रैव ऋषिभिः इहलोकतथ्यानि परलोकतथ्यानि च सूत्रितानि ।  अयं च कथोपायः इति कथ्यते । महर्षिवाल्मीकिना रामायणं, तथैव चतुर्मुखब्रह्मणः पुनर्चोदनात् योगवासिष्ठं च ग्रथिते । तत्रैव उत्तरग्रन्थे उच्यते -- “कथोपायान् विचार्यादौ मोक्षोपायान् इमान् अथ । यो विचारयति प्राज्ञो न स भूयोऽभिजायते” -- इति । टीकाकारः उपबृंहति -- कथा एव धर्मतत्त्वज्ञानानुष्ठानेश्वरप्रपत्तिषु ज्ञानाधिकारप्रापकेषु उपायो यस्मिन् ग्रन्थे स पूर्वरामायणग्रन्थः कथोपायः -- इति ।

महर्षिवचनं श्रुत्वा, संशयानाः वयं -- कुतः कथोपायपठनावश्यकता यत्र स्वयं मोक्षोपायो प्रदीप्यते -- इति । शङ्कामिमां निवारयितुं स्वयमुच्यते -- “शिष्यायास्मै विनीताय भरद्वाजाय धीमते । एकाग्रो दत्तवांस्तस्मै मणिमब्धिरिवार्थिने” -- इति । यथा समुद्रः काङ्क्षिणे मणिं वज्रादिकम् अर्पयति, तथैव श्रीवाल्मीकिः स्वशिष्याय रामायणमणिं दत्तवान् इत्यर्थः । नेदं सामान्यं धनं प्रत्युत महर्षिधनम् । अपि तु न स शिष्यवृन्दभावेन अर्पितवान्, प्रत्युत एकाग्रो भूत्वा । इदमेव एकाग्रत्वं गुरुशिष्यसंप्रदायमहत्त्वम् ।

अलं पल्लवितेन । रामायणपठितॄणां पुण्यम् एव । कथं वा पूर्वजन्मसंपादितपुण्यपुञ्जरहिताः वयं महर्षिप्रणीतग्रन्थम् इमं पठेम ? कथञ्चित् महर्षिकृपाभ्रान्त्या प्राप्तावसराः वयम् । एहि, सफलीकुर्मः ।