Wednesday, January 07, 2015

लुब्धो दाशः -- बालनीतिकथा १.१

रचयिता -- वैद्यः रामस्वरूपशास्त्री

पुरा धारानगर्यां कश्चिद् दाशः आसीत् । स एकां कुक्कुटीम् अपालयत् । परमा अद्भुता आसीत् सा कुक्कुटस्त्री । सा नित्यं सौवर्णम् अण्डम् अददात् । दाशस्तु तस्य सौवर्णस्य अण्डस्य विक्रयेण कुटुम्बम् अपुष्यत् । सुवर्णं लब्ध्वा तस्य तृष्णा अवर्धत । स अर्थस्य संग्रहं कर्तुं प्रवृत्तः । धनसञ्चये प्रसक्तः स दाशः एकदा अचिन्तयत् --

किन्न एकपदे सर्वं सुवर्णं कुक्कुटस्त्रियाः ।
कुक्षिं विदार्य संग्राह्यं किं स्वल्पेन शनैः शनैः ॥

इति विचिन्त्य स कुक्कुट्याः उदरं पाटयाञ्चकार । उत्पाटिताद् अपि कुक्कुट्याः उदरात् न स एकमपि अण्डम् अलभत ।

"हा दुःखम् ! वृद्धिमिष्टवतो मूलं मे विनष्टम्", इति बहु विलप्य लोभाविष्टः स आत्मानं शपन् विनष्टः । अत उच्यते --

मातरं पितरं पुत्रं भ्रातरं वा सुहृत्तमम् ।
लोभाविष्टो नरो हन्ति स्वामिनं वा सहोदरम् ॥


भोजप्रबन्धात् उद्धृतं सुभाषितम् (३) । अस्यां बालनीतिकथायां धारानगरी, भोजप्रबन्धे धाराराज्यम् । कथावस्तु तु भिन्नमेव । भोजप्रबन्धे राजा वृद्धत्वं गतः स्वपुत्रे राज्यभारम् आरोपयितुंम् इच्छन्नपि बलवन्तम् अनुजं वीक्ष्य, तत्र लोभभूमिं ज्ञात्वा, विचार्य अनुजाय राज्यं ददाति ॥

No comments: