Friday, December 03, 2010

उपनिषदः

दुःखत्रयाभिघातानां संसारिणां शब्दब्रह्म वेदः परात्परमार्गः। मार्गत्रयं प्रस्थानत्रयम् आश्रियते आस्तिकैः। स च -- उपनिषदः, भगवद्गीता, ब्रह्मसूत्रं चेति। यद्यपि गीता स्वयं भगवता श्रीकृष्णेन उच्चरिता, तथाऽपि तस्याः पौरुषेयत्वं विद्यते। पुनश्च आस्तिकदृष्ट्या उपनिषदः मूलग्रन्थः प्रकृतिः। तस्य ग्रन्थस्य द्वे विकृती। गीता नाम प्रमाणीकृताः शिथिलीभूताः उपनिषदः। ब्रह्मसूत्रं नाम युक्त्या घनीभूताः उपनिषदः। अतः एव सर्वैरपि उपनिषदः अध्येतव्या इति मतम्। तत्र नैकाः प्रसिद्धाः प्रौढव्याख्या वर्त्तन्ते। सरलव्याख्यास्तु अप्रचुराः। पूर्वम् उपनिषन्मणिप्रभा, उपनिषत्प्रसादश्च किञ्चित् विवृते। अधुना अन्यत् विव्रियते।

शृङ्गगिरेः जगद्गुरुभिः बह्व्यः कृतयः रचिताः। अवश्यम् उपनिषदः अपि व्याखाताः। विद्यारण्यस्वामी सुप्रसिद्धः, यस्य पञ्चदशी बहुभिः साधकैः अधीयते। तेन अपरोऽपि अनुभूतिप्रकाश नामकग्रन्थः विरचितः। अस्य शैली सरला मधुरपूर्णा च। तथैव शङ्करानन्दसरस्वतीयतेः उपनिषद्रत्नम् (आत्मपुराणं) विद्यते। द्वेऽपि कृती श्लोकात्मके। एतयोः कृत्योः महत्तां प्रमाणयितुं शक्यते -- अनुभूतिप्रकाशिकस्य उपरि वृत्तित्रयं वर्त्तते। तथैव उपनिषद्रतस्योपरि काचित् वृत्तिः उपलभ्यते। कैश्चन तादृशम् उपयोग्यत्वम् अनुभूतं, यस्मात् वृत्तिरेव रचिता एतयोः कृत्योः उपरि। किन्तु, बहुशः वृत्तेः अनावश्यकता इति पठितृभिः शप्यते।

अनुभूतिप्रकाशः, उपनिषद्रत्नं च अधुना उपलभ्येते इति बोद्धव्यम्। एतादृशीनां कृतीनाम् अध्ययनपरम्परा नष्टा इति चेन्न। सम्पूर्णानुभूतिप्रकाशः स्वामिपरमार्थानन्देन अस्मिन् दशके एव पाठितः। उपनिषद्रत्नस्य कश्चित् भागः (केनोपनिषद्व्याख्या) गतसंवत्सरे अमेरिकादेशे पाठितः।

एवं च सति, अस्माभिः उपनिषदां व्याख्याचतुष्टयं दृष्टम्

  1. भास्करानन्दसरस्वतीयतेः उपनिषत्प्रसादः
  2. अमरदासस्य उप्निषन्मणिप्रभा
  3. विद्यारण्यस्वामिनः अनुभूतिप्रकाशः
  4. शङ्करानन्दसरस्वतीयतेः उपनिषद्रत्नम् (आत्मपुराणम् इति नामान्तरम्)

Monday, November 29, 2010

प्रकरणग्रन्थपठनम्

प्रायशः सर्वेषां संस्कृतज्ञानां वेदान्ते रुचिः भवति, अल्पीयसीम् अपि। प्रसिद्धं प्रस्थानत्रयम् -- उपनिषदः, ब्रह्मसूत्रं, भगवद्गीता -- चेति। किन्तु तत्र तत्र सूत्रता मृग्या अनुपलभ्या वा सामान्यैः गुरुविहीनैः अस्माभिः। अतः काचित् टीकाऽपि आश्रयणीया भवति। अद्यत्वे सर्वेषां ग्रन्थानाम् अनुवादः क्रियते। तादृशी भाषान्तरटीका संगृह्यते सर्वविधच्छात्रैः। कुतः संस्कृतस्य आवश्यकता ?

भूतकाले संस्कृतलोकविदुषां स्थितिः दृढतरा अवर्तत। नाम, षड् दर्शनेषु (विशेषतया तर्कशास्त्रे)  कुशलता आसीत्। अद्य, सर्वं शिथिलायते। उदाह्रियते -- क्वचित् पुरस्कृतवैयाकरणः परिपृष्टः -- कालिदासकृत्यवगमाय कुतः मल्लिनाथस्यैव आश्रयः इति।

तदा भणितम् -- निर्दोषवचनं तस्य। अन्याः टीकाः वर्त्तन्ते यासां गुणाः अवश्यं स्युः, किन्तु क्वचित् क्वचित् दोषाः अपि स्फुटाः स्युः। मा तादृशीं टीकाम् आहृत्य अहं दोषप्रदर्शनाय प्रार्थनीयः, यतो हि तदन्वेषणाय महान् प्रयासो विधेयो भवति -- इति।

एवं, बहवः गुणवन्तः अनुवादाः सन्ति, किन्तु तेऽपि दोषवन्तः स्युः। परम्परागतानां कृतीनां तु परिशीलनं सूक्ष्मतया कृतम्। नाम, कालाग्निपरीक्षिताः ताः। अतः तासाम् उपादेयत्वम्।

प्रस्थानत्रयपठनात् पूर्वं द्वित्राः प्रकरणग्रन्थाः पठनीयाः। किन्तु तत्र चिन्ता उदेति। उक्तं महेशानन्दगिरिवर्येण -- ग्रन्थानामभावे कथं पठनं पाठनं वा सिद्ध्येदिति भृशं चिन्तयन्तः खिन्नाः वयं भगवन्तं भूतभावनं शङ्करं प्रार्थितवन्तः -- इति। प्रयासः अयं सफलतां गतश्च। तैः प्रकरणद्वादशी, प्रकरणाष्टकं नामकौ ग्रन्थौ प्रकाशितौ यत्र अद्वैतवेदान्तस्य प्रकरणकुसुमगुच्छं संग्रहीतं, सर्वं टीकोपेतं च। http://books.arshavidya.org द्वारा उपलभ्यते। तत्र "prakaranadvadashi" अन्वेष्टव्यम्।

प्रकरणाष्टके आदिमग्रन्थः अपरोक्षानुभूतिः। सरलभाषा अस्याः। कदाचित् कस्यचन आचार्यस्य प्रवचनं श्रुत्वा, मुदितोऽभवं, यतो हि कृतौ अनुक्ताः नैके अंशाः अनेन आचार्येन वर्णिताः। अतीते च काले, प्राप्तायां च टीकायां, ज्ञातं यत् सर्वोऽपि अनुक्तांशः टीकायामपि स्फुटं गतः इति। नात्र कार्या विचारणा, ननु् ?

टीकायाः गुणमात्रसूचना अस्मल्लक्ष्यम्।

Sunday, November 21, 2010

अधिकारः

सिंहावलोकनन्यायः प्रसिद्धः। सिंहः अग्रेगम्यमानः सन्नपि क्वचित् पृष्ठभागे दृष्टिं प्रसारयति। तथैव कर्तुं गुरवः उपदिशन्ति। प्रतिदिनं रात्रौ शयनात् प्राक् विचार्यं -- किं सुकृतं, किं दुष्कृतं चेति। किम् अनुकार्यं, किं परिष्कार्यं चेति। एवमेव सर्वाभिः संस्थाभिः नियमितरूपेण विहङ्गमालोकनं सिंहावलोकनं च करणीयम्।

अद्य कञ्चन ग्रन्थं पठ्यमानः आसम्, यत्र अन्वयपूरणार्थम् अग्रिमश्लोकस्य किञ्चन पदम् आवश्यकम् आसीत्। एतादृशं तु बहुत्र सहजम्। क्वचित् कृत्रिमम् अपि सहते, अन्वयबोधार्थम्। तादृक् कश्चन अवसरः, किञ्चन श्लोकद्वयम्।

भाष्ये तु स्पष्टीकृतम् -- "वक्ष्यमाणं [पदं] सिंहावलोकन्यायेन अनुषञ्जनीयम्" इति। पुनश्च टीकाकारेण कश्चन श्लोकः उद्धृतः। तद्यथा --

सिंहावलोकिताख्यश्च मण्डूकप्लुतिरेव च ।
गङ्गास्रोत इति ख्याता अधिकारास्त्रयो मताः ॥

एवं त्रयः प्रयोगाः। यदा पदम् अग्रिमश्लोकेऽपि अनुषज्यते, गङ्गास्रोतः। यदा पदं पूर्वश्लोकेऽपि अनुषज्यते, सिंहावलोकः। यदा श्लोकं निरस्य अग्रे पुनः तिष्ठति, मण्डूकप्लुतिः।

Friday, November 19, 2010

अनुवादः

आन्तर्जालक्षेत्रे कस्मिंश्चित्, कस्यचन ग्रन्थस्य उपस्थापनं कृतम्। अतः सः ग्रन्थः बहुभिः संस्कृतानुरागिभिः परिशीलितः। कृतो वा तलस्पर्शः। भवतु नाम। ग्रन्थोऽयं उपनिषत्प्रसाद-नामकः स्वामिना भास्करानन्द-सरस्वती-वर्येण विरचितः। मुखोपनिषदां सरला व्याख्या इयं, प्रथमावृत्त्यै। प्रथमावृत्तिग्रन्थेषु मम प्रीतिः वर्त्तते। कथञ्चित् अद्य छात्रैः मूलं पठ्यते, पक्षान्तरे प्रसिद्धभाष्यं किञ्चन। मध्ये तु बहुशून्यम्। किन्तु अवश्यं सर्वशास्त्रसोपानानि सन्ति, ते च ग्रन्थाः संस्कृतभाषया अपि विरचिताः सन्ति इति मे विश्वासः। अयं कश्चन उदाहारः। उपनिषदां पठने तु अपरा अपि प्रसिद्धतरा सरला व्याख्या विद्यते -- सा च अमरदासविरचिता उपनिषन्मनिप्रभा। भास्करानन्दस्वामिनः उपनिषत्प्रसादग्रन्थम् उपलभ्य मन्दस्मितोऽहं सञ्जातः। किमिति? शीर्षके अयं ग्रन्थः अनुवादग्रन्थः इति निवेदितम्। सामान्यतया अनुवादः नाम भाषान्तरप्रयोगः। अत्र तु अनुवादः संस्कृतभाषया एव कृतः। साधु ननु?

[ यदि भवतां पठितॄणां कुतूहलं विद्यते, उपनिषत्प्रसादारोपः कृतः अन्तर्जाले। पठ्यताम् -- http://groups.google.com/group/samskrita/msg/7ff8c270337fee76?hl=en ]

Tuesday, November 16, 2010

स्वर्णदशा

कदाचित् अस्मदितिहासं स्मरन्तः वयं गुणं गुणयामः, दोषान् उपप्रेक्षामहे च। वस्तुतया विस्मरणशक्तिः करुणामयेश्वरस्य कश्चन वरः। बहुत्र आदर्शपुरुषान् उन्नीय, पूजाभावना उत्पाद्येत, यस्मात् आवयोः अन्तरं कल्प्यते। ततः अस्माभिः न कश्चन प्रयासः करणीयः ननु? किन्तु तथ्यम् अन्यथा विद्यते। सर्वेणापि सर्वस्यामपि अवस्थायां प्रयाशः करणीयः, यस्मात् स्वोद्धारः शक्यः। उपनिषदि ईदृशः कथाः भूरि श्रूयन्ते। श्वेतकेतुः विख्याता वैदिकव्यक्तिः ननु? तत्र पूर्वावस्था वर्ण्यते --

भर्त्सयन् बालकान् अन्यान् बहुशोऽपि च ताडयन् ।
स्त्रियो विप्रांश्च पश्वादीन् संप्रयाति द्रुतं तथा ।
बाल एव जनं सर्वं दुःखयन्नत्यशिक्षितः ॥

इतिहासोल्लेखः एकः एव -- कृते प्रयत्ने किं न लभेत -- इति॥

Wednesday, November 10, 2010

सुरुचिः

वाङ्मयं विशालम् अपारं च। तत्र वासनाच्छादितः सर्वपठिताऽपि रुचिकरं किञ्चित् प्राप्येत एव।

बहुशः संस्कृतकृतयः दीर्घाः भवन्ति। अधिकोक्तिः अतिशयोक्तिश्च विद्यते इव। यदि मूलभाषया संस्कृतेनैव पठ्यते, न कापि न्यूनता अनुभूयते, यतो हि सहजम् एव इदं कथासु। किन्तु, यदा अनुवादः पठ्यते व्यर्थता भाति या आधुनिकैः बहुभिः उपेक्ष्यते। उदाहारः कश्चित् -- योगवासिष्ठे सुरुचिः नाम काचित् स्त्री हिमवतः शिखरे उपविष्टा वर्त्तते। संस्कृतक्षेत्रे सर्वक्षेत्रवर्णनम् अपेक्षितं ननु कविभिः? एवं च सति अग्रिमश्लोकोक्तिः तदेव क्षेत्रवर्णनम्। अतः, अयं च श्लोकः अनुवादे बहुत्र जहितो विद्यते।

रमन्ते कामसंतप्ताः किन्नर्यो यत्र किन्नरैः ।
स्वर्धुन्योघेन संसृष्टे महाघौघविनाशिना ॥ १,१,२०

स्वर्धुनी = आकाशनदी गङ्गा, अघौघः = पापराशिः। भूलोके यत्र पापनाशिन्या गङ्गानद्या आविर्भूयते, तत्रैव किन्नराः कामक्रीडां कुर्वन्ति इति। तादृक् अद्भुतं स्वर्गसमं वातावरणम् इति।

किन्तु, अर्थान्तरं निजं सुन्दरतमं मे भाति। वेदान्ततत्त्वं एव मूलबीजम् उप्तं श्लोकेऽस्मिन्। किम् ईदृशं किञ्चित् भवतां पठितॄणां दृष्टिगोचरम् आयाति? यद्येवं, कृपया स्वमतं प्रेषयन्तु। (अन्यथाऽपि स्वमतप्रकाशो भवतु)। स्वमतम् अग्रे मयाऽपि कतिपयदिवसाभ्यन्तरे प्रकाश्यते।

देवक्रीडा इयं ननु? एके श्लोकं त्यजन्ति, अन्ये तमेव श्लोकं पूजयन्ति।

Tuesday, November 09, 2010

सर्वोऽपि गुरुः

अस्मदाचार्यबोधः यत् सर्वोऽपि लोकः गुरुः इति। नाम, सर्वस्याम् अपि व्यक्त्यां गुणाः सन्ति। सर्वस्याः अपि व्यक्त्याः परिशीलनात् स्वपरिष्कारः स्वोद्धारश्च शक्यः, सः तस्मात् आचरणीयः। सर्वशास्त्रोक्तिः यत् आदौ साधकेन प्रयासः करणीयः, तदनु स्वयं प्रकृतिः गुरुं प्रेषयति, पठनावसरो वा कल्पयति चेति। उपनिषद्सु अपि बहुचित्रितम् इदम्। छान्दोग्योपनिषदि सत्यकामः गुरुम् उपससार। तदा गुरुसेवार्थं गोवृन्दवृद्धौ नियुक्तः असौ। वर्षगणः अतीतः। तदनु स्वयम् अग्निना अयं वटुः बोधितः। अग्रे मानवेतरेभ्यः केभ्यश्चित् पुनः अयं वटुः बोधितः। एवमेव सज्जनैः सर्वत्र दॄष्टिः प्रसार्यते। दोषान्वेषने नैव, प्रत्युत आदर्शगुणान्वीक्षणे, यस्मात् स्वजीवने प्रयोगः विधेयः। प्रकृतिः एव प्रधानगुरुः।

Wednesday, November 03, 2010

साधना

प्रख्यातेन स्वामिना शिवानन्देन उच्यते यत् साधना च अभ्यासश्च पर्यायपदे इति। नाम, साधना = अभ्यासः। तां साधनां विना, तम् अभ्यासं विना न किञ्चित् फलति। सर्वक्षेत्रतथ्यम् इदम्। पदं एकैकम् अग्रे संस्थाप्य चलनाभ्यासः शैशवे। तदेव सातत्येन क्रियमाणं धावनाभ्यासः बाल्ये। स्वामिना उच्यते यत् वेदान्तक्षेत्रे बहवः कुतूहलिनः सन्ति, किन्तु कृताभ्यासाः आत्मविचारवन्तः अङ्गुलीगणनीयाः इति। संस्कृतक्षेत्रेऽपि कृताभ्यासाः अभ्यस्तचतुर्विधसोपानाः न्यूनाः। चत्वारि सोपानानि -- श्रवणं, भाषणं, पठनं, लेखनम् -- चेति। यस्मिन् कस्मिन् सर्वस्मिन् अपि क्षेत्रे कृताभ्यासाः साधनावन्तः अग्रेसराः भवेम। न केवलं कुतूहलं प्रत्युत अभ्यासश्च क्रियताम्। प्रयोगः करणीयः। इदम् एव सार्वकालिकन्यायः श्रीकृष्णशास्त्रिणा "ज्ञाने धर्मः उत प्रयोगे" नामके ग्रन्थेऽपि सरलसंस्कृतभाषया अङ्कितः। संस्कृतभारत्या एव प्रकाशितोऽयं ग्रन्थः।

Thursday, October 28, 2010

सूक्तयः

अधुया संस्कृतस्य न किमपि उत्कृष्टं पदं व्यवहारे, न वा मध्यमम्। जिह्वाग्रवासिनी शुभ्रवस्त्रधारी सा देवी इदनीं मशीमयी संजाता। कुत्रचित् शरीराङ्गलेपनम्, अपरत्र कागदलेखनम्। अत्र कादाचित्की प्रार्थना क्रियते, कस्याश्चित् सूक्तेः अनुवादाय। तदा तदा, प्रथमं यत् मनसि स्फुरति, यत् अवधार्य, कृतयः परिशील्यन्ते। तदा सर्वदापि सुन्दरतरवचनं दृश्यते। हा हन्त! यदि एवं व्यवहारे प्रयुङ्क्ते, तस्मादेव अभ्यासात् ताः सूक्तयः झटिति एव आयासं विना स्फुरेयुः।

Monday, October 25, 2010

सुभाषितार्थग्रहणम्

सर्वस्मिन् अपि क्षेत्रे, आचार्येण नीयमानस्य वटोः चिन्ता अकार्या। तदभावे "टीका गुरूणां गुरुः" इत्यादिन्यायद्वारा गुरुम् अन्विषति सत्यपि, यथाशक्ति अग्रे सरणीयम्। तत्र तु टीका अनुवादः वा महते लाभाय भवति। तथापि क्वचित् सन्देहो विद्यते। पञ्चतन्त्रे कथामुखे पुत्रबुद्धिप्रकाशाय अमरशक्तिः सचिवान् आदिशति। तत्र सुभाषितम् अयं विद्यते --

किं तया क्रियते धेन्वा या न सूते न दुग्धदा ।
कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान् ॥

या धेनुः माता न भवति, न वा दुग्धं वितरति, तस्याः न किञ्चित् अपि प्रयोजनम्। तथैव जननमात्रेण कस्याश्चित् व्यक्तेः न किञ्चित् अपि प्रयोजनम्। अतः सर्वेणपि विद्वता भवितव्यं, सर्वेणापि भक्तिमता भवितव्यम् इति भावः।

अत्र भक्तिः का इति प्रश्नः उदेति। क्वचित् अनुवादकेन न कोऽपि विशिष्टार्थः सूचितः। किन्तु, सामान्यार्थः अस्थाने इति भाति। केनचन टीकाकारेण विनयार्थः सूचितः। विद्वान् विनयवान् भवेत् इति भावार्थः।

किन्तु सः एव अर्थः अभिप्रेतः सुभाषितकारेण? सौन्दर्यलहर्यां द्वितीयश्लोके -- विधिं भजति -- इति। तत्र आनन्दलहरीटीका -- विधिं भजति करोति -- इति स्पष्टीकरोति। अत्रापि किं सः भावः स्वीकारयोग्यः? सर्वेणापि विद्या संपादनीया, पुनश्च सा प्रयोक्तव्या इति? अयमर्थः उचितः इति भाति। किन्तु सुभाषितकाराभावे सूक्ष्मेक्षिकापरीक्षा दुःशक्या। ऊहा इयम् उचितम् अनुचितं वा स्यात्। न्यूनातिन्यूनं सुभाषितपठनेन ईदृशी चर्चा प्रवर्तेत। सुखमयं च जीवनं यापितं भवति।