Sunday, February 07, 2016
This blog has moved permanently.
kalidasa.blogspot.com will no longer be updated.
Monday, January 12, 2015
दुष्टः काकः -- बालनीतिकथा १.३
एकः नृपः आसीत् । स प्रासादे अवसत् । तस्य प्रासादस्य अङ्गणे उद्यानम् अभवत् । तस्मिन् बहवः पादपाः आसन् । तेषु काकः हंसश्च सखायौ आस्ताम् । काकः स्वभावेन खलः आसीत् । सर्वे राजकुमाराः तं हंसं काकं च पर्यचिन्वन् । एकदा खेलतः राजकुमारस्य हारः भूमौ अपतत् । हारः बहुमूल्यैः रत्नैः कृतः आसीत् । काकः तं भूम्यां पतितम् अपश्यत् । स तूष्णीं तम् आदाय अगच्छत् । नृपस्य पुरुषाः हारस्य अन्वेषणाय तत्र आगच्छन् । ते तं हंसं हारस्य विषये बहून् प्रश्नान् पर्यपृच्छन् । स तु "न अहं हारस्य चौरः" इति सत्यं सत्यम् अवदत् ।
तेऽकथयन् -- "हे हंस ! त्वं चौरः नास्ति । तव मित्रं काकः चौरः आसीत् । तथापि मित्रार्थे त्वं येन केन प्रकारेण हारम् आनय । अन्यथा नृपस्य आदेशेन वयं त्वां हनिष्यामः" । हंसः अवदत् -- "अहं हारं अ अचोरयम्, दण्डं न अर्हामि" ।
तेऽकथयन् । सत्यं कथयसि । तथापि काकः तव मित्रम् । स चौरः । त्वं तस्य सहचरः । त्वं मित्रस्य दण्डं सहस्व । इति उक्त्वा ते हंसे बाणम् अक्षिपन् । हंसः पञ्चत्वम् अगच्छत् । अतः उच्यते --
खलः करोति दुर्वृत्तं नूनं फलति साधुषु ।
दशाननोऽहरत् सीतां बन्धनं च महोदधेः ॥ (हनुमन्नाटकम् १३.११)
Saturday, January 10, 2015
सुभाषितम् -- अदृष्टे दर्शनोत्कण्ठा
नादृष्टेन न दृष्टेन भवता लभ्यते सुखम् ॥ (१०४३)
युवतिः कान्तं प्रति -- भवान् दृष्टः स्यात्, अदृष्टो वा स्यात् ... भवता न किञ्चित् अपि सुखं लभ्यते । यतो हि, अदृष्टे सति, तव दर्शनस्य उत्कण्ठता वर्तते । दृष्टे सति, पुनर्विरहात् मे भयम् ॥
Friday, January 09, 2015
महाभारतस्य लेखकः गणेशः
व्यासः महाभारतं कृत्वा अचिन्तयत् -- "कथं शिष्यान् अध्यापयानि" इति । तदा लोकगुरुः ब्रह्मा स्वयं तत्र आजगाम । तं दृष्ट्वा विस्मितः व्यासः आसनं कल्पयामास । अनुज्ञातः सन् आसनाभ्याशे निषसाद, उवाच च -- "भगवन् ! मया परमपूजितं काव्यं इदं कृतं, परं न कश्चित् लेखकः विद्यते" इति । तदा ब्रह्मा उवाच -- "काव्यस्य लेखनार्थं गणेशः स्मर्यताम्" इति ।
ततः व्यासः हेरम्बं सस्मार । स्मृतमात्रः गणेशः तत्र आजगाम यत्र वेदव्यासः स्थितः । पूजितः तथा उपविष्टः सन्, गणेशः व्यासेन उक्तः -- "गणनायक ! भारतस्य लेखको भव" इति । एतत् श्रुत्वा, विघेशः प्राह -- "यदि लिखतः मे लेखनी क्षणं न अवतिष्ठेत, तदा अहं लेखकः स्याम्" इति । व्यासोऽपि तं देवम् उवाच -- "अबुद्ध्वा मा क्वचित् लिख" इति । "ॐ" इति उक्त्वा गणेशः लेखकः बभूव ।
अतः मुनिः तदा तदा गूढं ग्रन्थग्रन्थिं चक्रे । गणेशः सर्वज्ञोऽपि तदा क्षणं विचारयन् आस्ते । तावत् व्यासोऽपि अन्यान् बहून् श्लोकान् चकार ।
धूर्तः शृगालः -- बालनीतिकथा १.२
एकः शृगालः आसीत् । स वनेऽवसत् । एकदा स जलं पातुं वापीम् अगच्छत् । स जलेऽपतत् । तस्मिन्नेव क्षणे कश्चित् छागः तत्रागच्छत् । स अपि पिपासितः आसीत् । स तम् अपृच्छत् -- "अहो मित्र ! अपि वर्तते मधुरं जलम् ?" शृगालः अवदत् -- "मधुरमिति किं कथयामि, केवलं पीयूषमेव । वारं वारं पीत्वापि तृप्तो न भवामि । न कामये हातुं जलमिदम् " ।छागः सरलहृदयः आसीत् । स दुर्जनस्य तस्य मधुराणि वचनानि श्रुत्वा जलं पातुं तां वापिकां अवातरत् । शृगालस्तु तस्य पृष्ठे पादं निधाय वाप्याः बहिः निरगच्छत् । छागस्तु तत्रैव जले मज्जनानि च पुनः पुनः अनुभूय दुःखेन प्राणान् अत्यजत् । अत उच्यते --
दुर्जनः प्रियवादी च नैतद्विश्वासकारणम् ।
मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ॥ (हितोपदेशः १.८२)
Wednesday, January 07, 2015
लुब्धो दाशः -- बालनीतिकथा १.१
पुरा धारानगर्यां कश्चिद् दाशः आसीत् । स एकां कुक्कुटीम् अपालयत् । परमा अद्भुता आसीत् सा कुक्कुटस्त्री । सा नित्यं सौवर्णम् अण्डम् अददात् । दाशस्तु तस्य सौवर्णस्य अण्डस्य विक्रयेण कुटुम्बम् अपुष्यत् । सुवर्णं लब्ध्वा तस्य तृष्णा अवर्धत । स अर्थस्य संग्रहं कर्तुं प्रवृत्तः । धनसञ्चये प्रसक्तः स दाशः एकदा अचिन्तयत् --
किन्न एकपदे सर्वं सुवर्णं कुक्कुटस्त्रियाः ।
कुक्षिं विदार्य संग्राह्यं किं स्वल्पेन शनैः शनैः ॥इति विचिन्त्य स कुक्कुट्याः उदरं पाटयाञ्चकार । उत्पाटिताद् अपि कुक्कुट्याः उदरात् न स एकमपि अण्डम् अलभत ।
"हा दुःखम् ! वृद्धिमिष्टवतो मूलं मे विनष्टम्", इति बहु विलप्य लोभाविष्टः स आत्मानं शपन् विनष्टः । अत उच्यते --
मातरं पितरं पुत्रं भ्रातरं वा सुहृत्तमम् ।
लोभाविष्टो नरो हन्ति स्वामिनं वा सहोदरम् ॥
भोजप्रबन्धात् उद्धृतं सुभाषितम् (३) । अस्यां बालनीतिकथायां धारानगरी, भोजप्रबन्धे धाराराज्यम् । कथावस्तु तु भिन्नमेव । भोजप्रबन्धे राजा वृद्धत्वं गतः स्वपुत्रे राज्यभारम् आरोपयितुंम् इच्छन्नपि बलवन्तम् अनुजं वीक्ष्य, तत्र लोभभूमिं ज्ञात्वा, विचार्य अनुजाय राज्यं ददाति ॥
Sunday, January 04, 2015
कुट्टनीमतम् -- औन्नत्यम्
अतितुङ्ग-सुरनिकेतन-शिखर-समुत्क्षिप्त-पवन-चलिताभिः ।
मञ्जरितमिव विराजति यत्र नभो वैजयन्तीभिः ॥६॥
उन्नताः देवालयाः, तदूर्ध्वभागेषु वायुना कम्पिताः वैजन्त्यः (पताकाः) । तैः मञ्जरितम् इव सञ्जातपुष्पगुच्छम् इव नभः विराजति यत्र (वाराणस्याम्) । अनेन दीर्घसमासेन साधु ध्वनितं प्रासादौन्नत्यम् ।
Wednesday, December 31, 2014
मधुराविजयम् -- कविवर्णनम् (भट्टबाणः)
वाणी-पाणि-परामृष्ट-वीणा-निक्वाण-हारिणीम् ।
भावयन्ति कथं वान्ये भट्टबाणस्य भारतीम् ॥१-८॥
पूर्वेषु श्लोकेषु आदिकविं वाल्मीकिं, तथा व्यासं कालिदासं च प्रणम्य सद्यः बाणभट्टं स्तोतुम् उद्युक्ता कवयित्री । बाणस्य वाक् (भारती) कीदृशी ? सरस्वत्याः (वाण्या) हस्तेन (पाणिना) स्पृष्टा (परामृष्टा) सती, सा वाक् सरस्वत्याः वीणाशब्दम् (वीणानिक्वाणम्) अनुकरोति (अनुहरति) इति भावः । तत्र अवधेयम् । पूर्वार्धे बाणभट्टम् अनुकुर्वन् अखण्डसमासः । अन्येषां कवीनाम् अन्तरं ज्ञापयितुम् उत्तरार्धे खण्डं खण्डं समासाभावः ।
Tuesday, February 08, 2011
दीपशिखाकालिदासः
श्रूयते विद्वद्वचनम् --
उपमा कालिदासस्य भारवेरर्थगौरवम्
दण्डिनः पदलालित्यं माघे सन्ति त्र्यो गुणाः ॥
सर्वस्मिन्नपि श्लोके काचित् उपमा निरूप्यते कालिदासेन । प्रेक्षकैः अतिमात्रं कालिदासवचनानि परिशील्य, तस्य काचित् उपमा एव विशेषणत्वेन उपक्षेपिता । कुतः इयम् उपमा इति पृष्ठे --
संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ॥६,६७॥
रघुवंशमहाकाव्ये इन्दुमतीस्वयंवराख्याने तस्याः इन्दुमत्याः प्रभावः वर्णितः । सा इन्दुमती रात्रौ दीपशिखा इव संचारिणी, यं यं राजानं व्यतीयाय अतीत्य गता, सः सः भूमिपालः नरेन्द्रमार्गाट्टः इव विवर्णभावं प्रपेदे इति ।
अस्मादेव श्लोकात् अयं कविः दीपशिखाकालिदासः इति ख्यातिं गतः । मुहुर्मुहुः पठित्वाऽपि पुनःपठितुकामाः वयम् । सौन्दर्यात् आख्यायिका इयं बहुषु विश्वविद्यालयेषु पाठ्यवस्तुना विहिता ।
Friday, February 04, 2011
अमरकोषस्य समाहृतिः
अमरकोषस्य विश्वप्रशस्तस्य प्रस्तावना अनावश्यकी । भारतरत्नेषु इदमपि अन्यतमम् । तथापि कथञ्चित् इमे अमूल्यग्रन्थाः केवलं पूज्यन्ते । अद्यत्वे कण्ठस्थीकरणपरम्परा नष्टा इव । अतः शतकेऽस्मिन् कैश्चन विद्वद्भिः अमरकोषस्य नूतनं संक्षिप्तं संस्करणं प्रकाशितम् । यत्र अमरसिंहस्यैव पद्धतिम् अनु श्लोकाः केचन विरचिताः, अन्ये अनूदिताश्च ।
- अमरकोषः -- १५०० श्लोकाः
- अमरकोषसंग्रहः -- ६६६ श्लोकाः
- अमरसारः -- ५३० श्लोकाः
कथं वा संक्षेपीकरणम् ? इन्द्रम् उद्दिश्य कश्चन उदाहारः --
इन्द्रो मरुत्वान् मघवा बिडौजाः पाकशासनः
वृद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः
जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः
सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा
वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः
जन्मभेदी हरिहयः स्वाराण्नमुचिसूदनः
संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः
आखण्डलः सहस्राक्षः ॥ अमरःइन्द्रो मरुत्वान् मघवा विडौजाः पाकशासनः
वृद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः ॥ संग्रहःइन्द्रो मरुत्वान् मघवा बिडौजाः पाकशासनः
शक्रः पुरन्दरो वज्री वासवो वृत्रहा वृषा
आखण्डलः सहस्राक्षस्तुराषाण्मेघवाहनः
पुरुहूतः सुरपतिर्बलारातिः शचीपतिः ॥ सारः
एवं, संग्रहकारेण बहुत्र अमरकोषस्य एव श्लोकाः चिताः । किन्तु, अमरसारकारेण पूजाभावनामात्रं त्यक्त्वा, नूतनश्लोकाः बहुत्र विरचिताः ।
Sunday, January 30, 2011
अमरकोषः
यथा काव्यप्रवेशस्तरे प्रशस्तः रामोदन्तः प्रयुज्यते, तथैव कुत्रचित् ग्रन्थान्तरं रामायणसङ्ग्रहो नाम । यस्य च आदिमः श्लोकः --
सीतारामपादाब्जान् अभिवाद्य तनोम्यहम् ।
सुखबोधाय बालानां श्रीरामायणसङ्ग्रहम् ॥
प्राचीनपद्धत्या तु शब्दरूपावलिं धातुरूपावलिं तथा अमरकोषं कण्ठस्थीकृतवन्तः गुरवः, तदधीनाः छात्राश्च सर्वत्र प्रकाशं क्षिप्त्वा पठन्ति स्म ।
तद्यथा -- पादाग्रं प्रपदं, पादः पदङ्घ्रिश्चरणोऽस्त्रियाम् -- इति । किन्तु, पादस्तु परिचितपदं सर्वेषाम् । अब्जो न तथा । तच्चोच्यते अमरे -- अब्जो जैवातृकः सोमः -- इति चन्द्रार्थे, यस्मात् अपेक्षितार्थप्रकाशः असञ्जातः ।
अपेक्षितार्थविवरणम् अमरे न दृश्यते । उच्यते त्रिकाण्डशेषे -- पद्मधन्वन्तरी चाब्जौ, अण्डजः खगमीनयोः -- इति । यस्मात् “पद्मे अब्जः” इति ज्ञायते ।
अस्मात् काचित् पृच्छा -- किं नाम प्रयोजनं, यस्मिन् अब्जस्यापि प्रचुरस्य अर्थः न प्रकाश्यते । अत्र उत्तर्यते -- पर्यायपदानि अनन्तानि, कति वा वक्तव्यानि -- इति । उक्तं चामरे -- पुण्डरीकं सिताम्भोजम् -- इति । तथैव -- कुशे जले शेते इति कुशेशयं, तामरे जले सस्तीति तामरसं, सरसि भवं सारसं, सरस्यां रोहतीति सरसीरुहं, कं जलम् अलति इति कमलम् -- इति ।
Saturday, January 29, 2011
विभक्तयः
विदितं सर्वैर्यत् सप्तसु विभक्तिषु कारकाणि षट् इति । तद्यथा श्लोकेन स्मर्यते --
कर्ता कर्म च करणं संप्रदानं तथैव च ।
उपादानाधिकरणे चेत्याहुः कारकाणि षट् ॥
सप्ताहान्ते प्राथमिकवर्गे कस्मिंश्चित्, विभक्त्यर्थः प्राकाश्यत । तत्र यदा कारकसंज्ञाः उक्ताः, प्रतिपदार्थः बोधनीयः अभवत् । तद्यथा -- किमिदं संप्रदानत्वं, किमिदम् उपादानत्वम्, इत्यादयः प्रश्नाः पृष्टाः । संज्ञया संज्ञीबोधः सहसा न सञ्जातः ।
तैरेव प्रश्नकर्तृभिस्तु -- रामाय नमः, वृक्षात् पत्रं पतति -- इत्यादीनां वाक्यार्थः सुष्ठु अवगम्यते । तस्मात् आदौ श्लोकान्तरं सतात्पर्यं बोधनीयम् इति भाति यद्यथा --
रामो राजमणिः सदा विजयते, रामं रमेशं भजे ।
रामेणाभिहिता निशाचरचमू, रामाय तस्मै नमः ।
रामान्नास्ति परायणं परतरं, रामस्य दासोस्म्यहम् ।
रामे चित्तलयः सदा भवतु मे , हे राम मामुद्धर ॥
अत्रापि, यद्यपि ते प्रश्नान्तराणि पृच्छेयुः, तथापि भावावगमः भवेत् ।
Thursday, January 20, 2011
अमात्यगुणाः
रामायणे अयोध्यावर्णने मन्त्रिणः सुवर्णिताः । तेषु विशेषणेषु अन्यतमानि सर्वजनजीवितयोग्यानि --
- विद्याविनीताः -- विद्याविनयोभयसंपन्नाः
- यथावचनकारिणः -- यथावचनं कुर्वन्ति, सत्यप्रतिज्ञाः
- स्मितपूर्वाभिभाषिणः -- निर्मत्सरत्वम्
- सततं प्रियवादिनः
एवं च राजगुणं संहरति --
- प्रजानां पालनं कुर्वन्नधर्मं परिवर्जयन्
Saturday, January 15, 2011
अयोध्या
ख्यातदशरशासिता पुरी इयम् । सा च सत्यनामा इति वाल्मीकिना विवृतम् । सत्यनामा यथार्थनामा अन्वर्थनामा । अत्र टीकाकारैरुच्यते --
- न कैश्चित् योधितुं शक्या इति अयोध्या
- अयोभिः विष्णुब्रह्मशिवैः ध्यायते नित्यं स्मर्यते या सा अयोध्या
द्वितीयार्थप्रकाशः कुत इति प्रश्नः । यदि भवद्भिः प्रेक्षावद्भिः ज्ञायते, कृपया सूचनीयाः अत्र वयम् ।
Friday, January 14, 2011
कथोपायः
आबालवृद्धं सर्वमपि विविधाभिः कथाभिः कालं नयति । अतः तत्रैव ऋषिभिः इहलोकतथ्यानि परलोकतथ्यानि च सूत्रितानि । अयं च कथोपायः इति कथ्यते । महर्षिवाल्मीकिना रामायणं, तथैव चतुर्मुखब्रह्मणः पुनर्चोदनात् योगवासिष्ठं च ग्रथिते । तत्रैव उत्तरग्रन्थे उच्यते -- “कथोपायान् विचार्यादौ मोक्षोपायान् इमान् अथ । यो विचारयति प्राज्ञो न स भूयोऽभिजायते” -- इति । टीकाकारः उपबृंहति -- कथा एव धर्मतत्त्वज्ञानानुष्ठानेश्वरप्रपत्तिषु ज्ञानाधिकारप्रापकेषु उपायो यस्मिन् ग्रन्थे स पूर्वरामायणग्रन्थः कथोपायः -- इति ।
महर्षिवचनं श्रुत्वा, संशयानाः वयं -- कुतः कथोपायपठनावश्यकता यत्र स्वयं मोक्षोपायो प्रदीप्यते -- इति । शङ्कामिमां निवारयितुं स्वयमुच्यते -- “शिष्यायास्मै विनीताय भरद्वाजाय धीमते । एकाग्रो दत्तवांस्तस्मै मणिमब्धिरिवार्थिने” -- इति । यथा समुद्रः काङ्क्षिणे मणिं वज्रादिकम् अर्पयति, तथैव श्रीवाल्मीकिः स्वशिष्याय रामायणमणिं दत्तवान् इत्यर्थः । नेदं सामान्यं धनं प्रत्युत महर्षिधनम् । अपि तु न स शिष्यवृन्दभावेन अर्पितवान्, प्रत्युत एकाग्रो भूत्वा । इदमेव एकाग्रत्वं गुरुशिष्यसंप्रदायमहत्त्वम् ।
अलं पल्लवितेन । रामायणपठितॄणां पुण्यम् एव । कथं वा पूर्वजन्मसंपादितपुण्यपुञ्जरहिताः वयं महर्षिप्रणीतग्रन्थम् इमं पठेम ? कथञ्चित् महर्षिकृपाभ्रान्त्या प्राप्तावसराः वयम् । एहि, सफलीकुर्मः ।
Friday, December 03, 2010
उपनिषदः
शृङ्गगिरेः जगद्गुरुभिः बह्व्यः कृतयः रचिताः। अवश्यम् उपनिषदः अपि व्याखाताः। विद्यारण्यस्वामी सुप्रसिद्धः, यस्य पञ्चदशी बहुभिः साधकैः अधीयते। तेन अपरोऽपि अनुभूतिप्रकाश नामकग्रन्थः विरचितः। अस्य शैली सरला मधुरपूर्णा च। तथैव शङ्करानन्दसरस्वतीयतेः उपनिषद्रत्नम् (आत्मपुराणं) विद्यते। द्वेऽपि कृती श्लोकात्मके। एतयोः कृत्योः महत्तां प्रमाणयितुं शक्यते -- अनुभूतिप्रकाशिकस्य उपरि वृत्तित्रयं वर्त्तते। तथैव उपनिषद्रतस्योपरि काचित् वृत्तिः उपलभ्यते। कैश्चन तादृशम् उपयोग्यत्वम् अनुभूतं, यस्मात् वृत्तिरेव रचिता एतयोः कृत्योः उपरि। किन्तु, बहुशः वृत्तेः अनावश्यकता इति पठितृभिः शप्यते।
अनुभूतिप्रकाशः, उपनिषद्रत्नं च अधुना उपलभ्येते इति बोद्धव्यम्। एतादृशीनां कृतीनाम् अध्ययनपरम्परा नष्टा इति चेन्न। सम्पूर्णानुभूतिप्रकाशः स्वामिपरमार्थानन्देन अस्मिन् दशके एव पाठितः। उपनिषद्रत्नस्य कश्चित् भागः (केनोपनिषद्व्याख्या) गतसंवत्सरे अमेरिकादेशे पाठितः।
एवं च सति, अस्माभिः उपनिषदां व्याख्याचतुष्टयं दृष्टम्
- भास्करानन्दसरस्वतीयतेः उपनिषत्प्रसादः
- अमरदासस्य उप्निषन्मणिप्रभा
- विद्यारण्यस्वामिनः अनुभूतिप्रकाशः
- शङ्करानन्दसरस्वतीयतेः उपनिषद्रत्नम् (आत्मपुराणम् इति नामान्तरम्)
Monday, November 29, 2010
प्रकरणग्रन्थपठनम्
भूतकाले संस्कृतलोकविदुषां स्थितिः दृढतरा अवर्तत। नाम, षड् दर्शनेषु (विशेषतया तर्कशास्त्रे) कुशलता आसीत्। अद्य, सर्वं शिथिलायते। उदाह्रियते -- क्वचित् पुरस्कृतवैयाकरणः परिपृष्टः -- कालिदासकृत्यवगमाय कुतः मल्लिनाथस्यैव आश्रयः इति।
तदा भणितम् -- निर्दोषवचनं तस्य। अन्याः टीकाः वर्त्तन्ते यासां गुणाः अवश्यं स्युः, किन्तु क्वचित् क्वचित् दोषाः अपि स्फुटाः स्युः। मा तादृशीं टीकाम् आहृत्य अहं दोषप्रदर्शनाय प्रार्थनीयः, यतो हि तदन्वेषणाय महान् प्रयासो विधेयो भवति -- इति।
एवं, बहवः गुणवन्तः अनुवादाः सन्ति, किन्तु तेऽपि दोषवन्तः स्युः। परम्परागतानां कृतीनां तु परिशीलनं सूक्ष्मतया कृतम्। नाम, कालाग्निपरीक्षिताः ताः। अतः तासाम् उपादेयत्वम्।
प्रस्थानत्रयपठनात् पूर्वं द्वित्राः प्रकरणग्रन्थाः पठनीयाः। किन्तु तत्र चिन्ता उदेति। उक्तं महेशानन्दगिरिवर्येण -- ग्रन्थानामभावे कथं पठनं पाठनं वा सिद्ध्येदिति भृशं चिन्तयन्तः खिन्नाः वयं भगवन्तं भूतभावनं शङ्करं प्रार्थितवन्तः -- इति। प्रयासः अयं सफलतां गतश्च। तैः प्रकरणद्वादशी, प्रकरणाष्टकं नामकौ ग्रन्थौ प्रकाशितौ यत्र अद्वैतवेदान्तस्य प्रकरणकुसुमगुच्छं संग्रहीतं, सर्वं टीकोपेतं च। http://books.arshavidya.org द्वारा उपलभ्यते। तत्र "prakaranadvadashi" अन्वेष्टव्यम्।
प्रकरणाष्टके आदिमग्रन्थः अपरोक्षानुभूतिः। सरलभाषा अस्याः। कदाचित् कस्यचन आचार्यस्य प्रवचनं श्रुत्वा, मुदितोऽभवं, यतो हि कृतौ अनुक्ताः नैके अंशाः अनेन आचार्येन वर्णिताः। अतीते च काले, प्राप्तायां च टीकायां, ज्ञातं यत् सर्वोऽपि अनुक्तांशः टीकायामपि स्फुटं गतः इति। नात्र कार्या विचारणा, ननु् ?
टीकायाः गुणमात्रसूचना अस्मल्लक्ष्यम्।
Sunday, November 21, 2010
अधिकारः
अद्य कञ्चन ग्रन्थं पठ्यमानः आसम्, यत्र अन्वयपूरणार्थम् अग्रिमश्लोकस्य किञ्चन पदम् आवश्यकम् आसीत्। एतादृशं तु बहुत्र सहजम्। क्वचित् कृत्रिमम् अपि सहते, अन्वयबोधार्थम्। तादृक् कश्चन अवसरः, किञ्चन श्लोकद्वयम्।
भाष्ये तु स्पष्टीकृतम् -- "वक्ष्यमाणं [पदं] सिंहावलोकन्यायेन अनुषञ्जनीयम्" इति। पुनश्च टीकाकारेण कश्चन श्लोकः उद्धृतः। तद्यथा --
सिंहावलोकिताख्यश्च मण्डूकप्लुतिरेव च ।
गङ्गास्रोत इति ख्याता अधिकारास्त्रयो मताः ॥
एवं त्रयः प्रयोगाः। यदा पदम् अग्रिमश्लोकेऽपि अनुषज्यते, गङ्गास्रोतः। यदा पदं पूर्वश्लोकेऽपि अनुषज्यते, सिंहावलोकः। यदा श्लोकं निरस्य अग्रे पुनः तिष्ठति, मण्डूकप्लुतिः।
Friday, November 19, 2010
अनुवादः
[ यदि भवतां पठितॄणां कुतूहलं विद्यते, उपनिषत्प्रसादारोपः कृतः अन्तर्जाले। पठ्यताम् -- http://groups.google.com/group/samskrita/msg/7ff8c270337fee76?hl=en ]
Tuesday, November 16, 2010
स्वर्णदशा
भर्त्सयन् बालकान् अन्यान् बहुशोऽपि च ताडयन् ।
स्त्रियो विप्रांश्च पश्वादीन् संप्रयाति द्रुतं तथा ।
बाल एव जनं सर्वं दुःखयन्नत्यशिक्षितः ॥
इतिहासोल्लेखः एकः एव -- कृते प्रयत्ने किं न लभेत -- इति॥
