ह्यः श्रावण-पौर्णिमा आसन्ना। तस्मिन्नेव मुहूर्ते, सर्वैः अपि द्विजैः वेदाध्ययनम् अनुवर्त्तनीयम्। अग्रिमदिवसे (अद्य नाम) संवत्सरप्रायश्चित्तम् अपि क्रियते। गायत्रीमन्त्रस्य अष्टोत्तरसहस्रावृत्तयः। बहुत्र बहुधा बहूनां गायत्र्युपदेशः क्रियते बाल्ये। किन्तु साधना विरला। यत्र उपासना दृढा, तत्राऽपि बहुधा मन्त्रार्थम् अविचार्य कर्तव्यतावशात्।
लेशमात्रमन्त्रार्थः तु बहुषु ग्रन्थेषु, अन्तर्जालादिषु अपि प्रकाशितः। किन्तु ततः न काऽपि तृप्तिः। अन्विष्टे सति, नानाः व्याख्याः उपलब्धाः। भाति यत् तस्य एव मन्त्रस्य अर्थः नानाविधः, साधकाधिकारवशात्। सः एव मन्त्रः सगुणेश्वरत्वेन निर्गुणेश्वरत्वेन अपि उपास्यते। अतः एव सर्वैः अपि द्विजैः उपासनीयः एव, अपवादं विना।
ज्ञानेश्वरः सुविख्यातः। तेन गीतायाः प्रसिद्धव्याख्या रचिता मराठभाषया। तस्य संस्कृतानुवादः लभ्यते, गीर्वाणज्ञानेश्वरी इति अभिधीयते। पद्यात्मकं मूलग्रन्थपदैः। अतः अस्माभिः अपि अर्थः आस्वादयितुं शक्यः। कश्चित् श्लोकः यः मह्यं रोचते --
ब्रुवतेऽनुभवस्यापि वाचालत्वेन ये कथाः ।
तेषां परीक्षासमयेऽनुभवो निष्फलो भवेत् ॥ ८-१३९
बहवः अनुभूतम् इति व्याजेन नटन्ति। वास्तविकं भिन्नम्। अस्माभिः उपासनया विश्वतथ्यं साक्षात्करणीयम्। तदर्थं पौनःपुण्येन सवितारं भावयामः। यदि भक्तिः असहजा, उपसनां कुर्मः निष्कपटभक्तिं च प्रार्थयामः।
Thursday, August 06, 2009
Monday, August 03, 2009
मोक्षस्य कारणम्
प्रश्नः यः पौनःपुण्येन पृच्छ्यते -- मोक्षस्य कारणं कर्म वा ज्ञानं वा इति। अद्वैतिनां मतं यत् कर्मयोगद्वारा चित्तशुद्धिः, पुनः ज्ञानेन अविद्यानाशः। सः एव भावः योगवासिष्ठायाम् अपि आदौ प्रतिपादितम्।
अगस्तिः वदति --
उभाभ्याम् अपि पक्षिभ्यां यथा खे पक्षिणां गतिः।
तथैव ज्ञानकर्मभ्यां जायते परमं पदम्॥
तात्पर्यं व्याचष्टे -- कर्मणां पूर्वभावः तु प्रवृत्ति-निवृत्तयोः युगपत् असम्भवात् विरुद्धाधिकारि-विशेषणकत्वात् च अर्थसिद्धः इति न यौगपद्यांशे दृष्टान्तः। यथा दर्पणे प्रतिबिम्बोदये मार्जनालोकौ द्वौ अपि आवश्यकौ तद्वत् कर्मकृतचित्तशुद्धिः प्रमाणजन्यवृत्तिः च अविद्यानिवृत्तौ आवश्यके अशुद्धचित्तैः शतशः श्रुतेऽपि ज्ञानफलात् अदर्शनात् इति भावः॥
अतः कर्मयोगः च ज्ञानयोगः च पक्षिणः द्वौ पक्षौ, अधिकारभेदात्। यत्र श्रेष्ठतरः योगः उच्यते, गीतायां अन्यत्र वा, अधिकारं मनसि निधाय एव उत्तरम् अपेक्षितम्। कर्मयोगः ज्ञानयोगः इत्येवं सोपानायते यथा दर्पणे प्रतिबिम्बदर्शनार्थं मार्जनम्, आलोकः च।

श्रद्धावान् -- गीता
गीतायां (६-४७) उच्यते -- यो मां मद्गतेन अन्तरात्मना श्रद्धावान् भजते, सः मे युक्ततमो मतः -- इति।
ज्ञातं सन्नपि उच्यते -- उपदेशः उत्तमः इति। कर्मयोगिभिः अत्र कृष्ण-पदस्य स्थाने, साधु-पदाश्रयः अपि स्यात्। साधु यथा -- परित्राणाय साधूनाम्। साधु-पदं विशेषणं, न तु विशेष्यम्। विशेष्येषु संस्कृतम् अपि अन्यतमं किमर्थं न? यः संस्कृतं भजति, सः युक्ततमः। केन कथंभूतः सन् भजति?
वेङ्कटनाथ-भाष्यम् -- राजानं भजते भृत्यः, तद्वत् एव किं तव भजनं? तत्र आह -- गद्गतेन अन्तरात्मना मयि प्रेमासक्तेन मनसा इत्यर्थः। भृत्यस्य हि स्वभार्यायां मनः, राज्ञि भजनम्। क्वचित् दानमानादिना राजासक्तः भृत्यः तद्गतेन एव अन्तरात्मना तं भजते, ततः तत्साधारणं व्यावर्तयितुं श्रद्धावान् इति॥
विद्वान् न केवलं संस्कृतं भजते, किन्तु प्रेम्णा भजते। पुनः प्रेम फलापेक्षया न, किन्तु निःस्वार्थभावनया। कृष्णः यथा भजनीयः, साधु संस्कृतं अपि तथैव भजनीयम्। किमपि अनपेक्षमानः प्रेम्णा। अपि, अहं संस्कृतमातुः सरस्वतीदेव्याः कर्मफलापेक्षां विना सेवां करवाणि?

पश्चिमे भारते वा गौरवम्?
मित्रेण श्रुतम् इदम् -- भारते लघुतमेऽपि ग्रामे सर्वे विद्युत्सङ्केतं (email) कुर्वन्ति, यद्यपि सङ्गणककुशलता न स्यात्। विपण्यादीषु पृष्टे सति, सङ्केतं दीयते। किन्तु तद्द्वारा सम्पर्कः असम्भवः, यतो हि पठिता नास्ति। अरण्ये रोदनम् यथा। बहुधा, वयम् अमेरिका-वासिनः कमपि भारतीयग्रन्थं क्रेतुम् इच्छामः। लघ्वापणस्य विद्युत्सङ्केतं प्रति पत्रं प्रेष्यते, किन्तु कुतोऽपि न प्रत्युत्तरितम्। इदानीं मूलकारणं ज्ञातम् ! दूरवाणी एव बलवत्तरा।
किमर्थम् आचारोऽयम्? यतः सर्वेऽपि आधुनिकाः भवितुम् इच्छन्ति। आधुनिकः नाम पाश्चात्यः ननु? अस्माकं गूढेतिहासं श्रुत्वा सदा चिन्त्यते, अहं पश्चिमे स्थिते मम अनुरागः भारते। अन्ये भारते स्थिते तेषां अनुरागः पश्चिमे। अहो बत! विचित्रोऽयं विधाता।
एकदा केनाऽपि अहं पृष्टः -- किमर्थं संस्कृतेन इतिवृत्तलेखनम् -- इति। तदा उत्तरितं -- विभिन्नभाषाभिः अन्तर्जाले एतादृशलेखनम्। आहत्य, प्रत्येकं सप्त-पठितारः स्युः। प्रतिदिनं मम पत्रस्य अष्टपठितारः स्युः। अहो संस्कृतस्य प्रभावः यत् कश्चनः अधिकः पठिताऽपि स्यात्!
आदौ लेखनाभासाय पुटम् इदम् आरब्धम्। ततः मङ्गलवचनानि, मित्रप्राप्तिः, लेखने काचित् वृद्धिः -- फलानि अनेकानि। अतः एव भाषावर्गे सदा निवेद्यते -- यदि पठितॄणां गणनां विना लिख्येत, प्रभावः तु भवति एव। दोषाः तु सहजाः। तत्र यदि पठितृभिः मार्गदर्शनं क्रियते, अनुगृहीतो भवामि।

Friday, July 31, 2009
उष्णस्पर्शः
गतसप्ताहे, मदागारपरिसरः उष्णासन्नः, यादृक् आक्षपटलिकैः न स्मर्यते। सामान्यसंवत्सरे ग्रीष्मर्तौ सप्ताहः यावत् उष्णतया पौराः उत्क्लिष्टाः, यस्मात् गृह-भोजनायलादिषु शीतकानि न स्युः। गतसप्ताहे परिसरवायुः स्थायी, सूर्यतापः अधिकः, वायुः आद्रीभूतः। अनेन सर्वेऽपि स्वेदक्लिन्नवस्त्राः, चलच्चित्रमन्दिरादि-शीतलस्थल-गताः, कारयानभ्रमकाः। परिवारविहीनाः सर्वे आदिनं कार्यालये मग्नाः। स्वदेहं न केवलं चिदग्निस्थम्, अपि तु तापजनकम्। यस्मात् अत्रत्य-मित्रमण्डलादिषु परस्परप्रेक्षणं सर्वैः निवारितम्। चलच्चित्र-मन्दिरम् अरिक्तासन्दम्। पुनः परेद्युः कोऽपि आदान-प्रदान-उत्सवः इव सर्वेऽपि शीतकस्थ-आपण-विपण्यादयः सम्मर्दग्रस्ताः -- केचन गृहभक्ष्यहस्ताः तत्र स्वैरं भक्षयन्ति अपि !अहो बत ! मर्त्यनिर्बलता सम्यक् परीक्षिता। अन्यदा वयं घटकाराः इव भूतलराजानः इति भावनया विराज्यते। किन्तु वयं क्व, प्रकृतिः च क्व इति किञ्चिदेव तापाधिकतया बोधितम्। परीक्षा सामर्थ्यदर्शिनी।
Thursday, July 30, 2009
विश्ववाणी
विश्ववाणी इत्यनेन मूर्छितः। भारते बहुश्रमेण संभाषणसन्देशादयः पत्रिकाः प्रकाश्यन्ते। अस्मिन् अपि अमेरिकादेशे विश्वविद्यालयीयैः पत्रिका प्रकाशिता। किमेतत् सम्भवम्? न विश्वसिमि। न केवलं तत्, किन्तु लेखकसामर्थ्यवर्धनम्। बहुत्र कोशाश्रयः करणीयः मया। यथा सन्देशः प्रतिमासम् प्रतीक्ष्यते, तथैव इयं विश्ववाणी-पत्रिका। तस्य सङ्क्तेतं तु भवद्सकाशे वर्तते एव। तथाऽपि अत्र सूच्यते -- http://www.speaksanskrit.org/vishvavani.shtml
पञ्चतन्त्रम्
कथामाला इयं सुप्रसिद्धा, न केवलं संस्कृतक्षेत्रे, यतो हि गतेषु शतकेषु यात्रिकैः नीत्वा, विभिन्नदेशेषु नानाभाषाभिः प्रकाशिता। अद्यत्वे, यैः भारतमूलैः पितृभिः संस्कृतशिशवः इष्टाः (संस्कृतशिशुः नाम उन्नीतः परिपक्वः), तैः पञ्चतन्त्र-हितोपदेशादयः पाठ्यन्ते। बालकेभ्यः अवश्यम् रोचते मृगवचनादीनि।यदा मया किञ्चित् पठितम्, अभिज्ञातं यत् सर्वैः अपि तन्त्रमिदं पठनीयम्। गद्यपद्यात्मकं, नानार्थैः सन्निहितम् च। शैली तु आस्वादनीया। बहुत्र, छात्राणां रघुवंशादि-महाकाव्ये एव रुचिः। किन्तु, मह्यं गद्यपद्यात्मक-कृतयः रोचन्ते। महाकाव्यानाम् उपमाः अद्वितीयाः। किन्तु, गद्येषु सुभाषितानि, नित्यव्यवहारपदानि च अधिकानि। व्यवहारे, बहुत्र अस्माभिः नूतनपदनिर्माणं क्रियते। गुरोः अभावात्, यद्यपि उचितपदानि शिष्टैः प्रयुज्यन्ते, अस्माभिः पदान्तरेण व्यवह्रियते। पुनः कालिदासादिभिः सदा योग्यपर्यायपदानि एव सन्निवेशे युक्तानि। किन्तु शङ्का जायते -- सामान्यपौराः कथं भाषन्ते स्म . . . एतेन एव पदेन -- इति। तत् तु गद्यपठनेन ज्ञायते।
वयं सर्वेऽपि बहिः भोजनालये खादामः। बहुत्र left-overs इत्यस्य स्वीकारः। doggy-bag इत्यस्य प्रयोगः वा। अतः कुक्कुर-पोटलिका इति श्रुतं कस्यापि मुखात्। पञ्चतन्त्रे 'भक्षित-शेषम्' इति पदं युक्तम्। तत्तु उचितपदम् एव इति भाति। पञ्चतन्त्रादीनां पठनेन बुद्धिः सुसंस्कृता, भाषाऽपि परिष्कृता भवति इति मे विश्वासः।
प्रशान्तिः
कतिपयेभ्यः मासेभ्यः पुटेऽस्मिन् प्रशान्तिः। एतादृशानि इतिवृत्ति-ब्लाग्-पत्राणि बहूनि यत्र आदौ बहु लिख्यते, किन्तु कालातीते आनाथ्यं गतानि। लज्जायै यत् अस्याम् अपि इतिवृत्त-मालायां सैव शोचनीया स्थितिः। कुतः तर्हि पुनः परिपालनम्? संस्कृतभारत्याः मासिक-पत्रिकायां, संभाषण-सन्देशे, इदमिदानीं बहूनां ब्लाग्-पत्राणां सङ्केतानि प्रकाशितानि। तेषु, अयमपि पठ्यमानः अन्यतमः। अहो ! पूर्वं पठितॄणाम् अभावेऽपि लिख्यते स्म। यदि केचन पिठारः स्युः, तर्हि अवश्यं किमपि प्रकाश्यते ननु? यद्यपि लेखकोऽहं कश्चन सामान्यच्छात्रः, यस्य ज्ञानं भाषासामर्थ्यं च अवरे, संस्कृतमात्रे मम किञ्चित् इति मत्त्वा समर्प्यते कार्यम् इदम्।
Wednesday, November 26, 2008
मुंबय्यां विस्फोटाः
अधुना वाचिकं यत् भारते, मुंबईनगरे स्फोटक-विस्फोटाः प्रचल्यमानाः सन्ति। युगपत् विभिन्नस्थलेषु कुहृदयैः कारितम्। आबालवृद्धाः स्वर्गम् प्रेषिताः। वार्तां प्राप्य, दुःखकथाः श्रुत्वा, चित्राणि दृष्ट्वा आर्द्रहृदयाः वयम्। किमर्थं एते अवराः मूढ-मतयः स्फोटक-हस्ताः आर्त-जनकाः सामान्य-पौर-हननाः नरक-गन्तारः एवम् आचरन्तीति आ-जीवन-कादम्बिनी कदापि न अवगम्यते। क्लैब्यमिदम्। देवः प्रार्थनीयः। किन्तु अभिमुखम् एव स्थातव्यं, न तु पलायनीयम्। सङ्घौ शक्तिः कलियुगे इति सूक्तिः। एतेषां मलकीटानां सङ्घानां परिणामः तु अनुभूयते। कदा वा वयं सर्वे धर्मरक्षणे समाजसेवायां संलग्नाः भवेम? कदा वा बद्धकटाः हस्ताहस्ति एकदृष्ट्या -- पर्याप्तम् -- इति क्रोशेण उत्तिष्ठेम?
Thursday, November 20, 2008
अष्टपद! क्व गतः?
चन्द्रगमनात् आकाशगमनात् वा देशस्य ख्याति-वृद्धिः भवेत्। कदापि अनपेक्षितं अपि भवेत्। यू-एस्-देशात् मासारम्भे यानं ISS-प्रति गतम्। तदा ज्ञान-वृद्ध्यर्थं अष्टपद-द्वयं अपि नीतम्। अष्टपदेन किं आकाशे जीवितुं शक्यते? किं तत्र जालं अपि निर्मातुं शक्यते इति द्वौ प्रश्नौ। किन्तु, यदा भूलोकः प्राप्तः, अभिज्ञातं यत् एकः षट्पदः अदृष्टं गतः। कदा, कुत्र, कथं इत्यादयः प्रश्नाः उदभवन्। तथापि, अवशिष्ट-अष्टपदेन किं जीव्यते? जालं किं मञ्जूषायां वर्तते? उत्तरे केनापि न उच्येते! द्वाभ्यां प्रश्नाभ्यां यानम् आकाशं गतं, पञ्च प्रश्नेभ्यः निवर्तितम्!
Subscribe to:
Posts (Atom)