Showing posts with label पञ्चतन्त्रम्. Show all posts
Showing posts with label पञ्चतन्त्रम्. Show all posts

Monday, October 25, 2010

सुभाषितार्थग्रहणम्

सर्वस्मिन् अपि क्षेत्रे, आचार्येण नीयमानस्य वटोः चिन्ता अकार्या। तदभावे "टीका गुरूणां गुरुः" इत्यादिन्यायद्वारा गुरुम् अन्विषति सत्यपि, यथाशक्ति अग्रे सरणीयम्। तत्र तु टीका अनुवादः वा महते लाभाय भवति। तथापि क्वचित् सन्देहो विद्यते। पञ्चतन्त्रे कथामुखे पुत्रबुद्धिप्रकाशाय अमरशक्तिः सचिवान् आदिशति। तत्र सुभाषितम् अयं विद्यते --

किं तया क्रियते धेन्वा या न सूते न दुग्धदा ।
कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान् ॥

या धेनुः माता न भवति, न वा दुग्धं वितरति, तस्याः न किञ्चित् अपि प्रयोजनम्। तथैव जननमात्रेण कस्याश्चित् व्यक्तेः न किञ्चित् अपि प्रयोजनम्। अतः सर्वेणपि विद्वता भवितव्यं, सर्वेणापि भक्तिमता भवितव्यम् इति भावः।

अत्र भक्तिः का इति प्रश्नः उदेति। क्वचित् अनुवादकेन न कोऽपि विशिष्टार्थः सूचितः। किन्तु, सामान्यार्थः अस्थाने इति भाति। केनचन टीकाकारेण विनयार्थः सूचितः। विद्वान् विनयवान् भवेत् इति भावार्थः।

किन्तु सः एव अर्थः अभिप्रेतः सुभाषितकारेण? सौन्दर्यलहर्यां द्वितीयश्लोके -- विधिं भजति -- इति। तत्र आनन्दलहरीटीका -- विधिं भजति करोति -- इति स्पष्टीकरोति। अत्रापि किं सः भावः स्वीकारयोग्यः? सर्वेणापि विद्या संपादनीया, पुनश्च सा प्रयोक्तव्या इति? अयमर्थः उचितः इति भाति। किन्तु सुभाषितकाराभावे सूक्ष्मेक्षिकापरीक्षा दुःशक्या। ऊहा इयम् उचितम् अनुचितं वा स्यात्। न्यूनातिन्यूनं सुभाषितपठनेन ईदृशी चर्चा प्रवर्तेत। सुखमयं च जीवनं यापितं भवति।

पञ्चतन्त्रपद्धतिः

पञ्चतन्त्रपठनावसरे केचन प्रश्नाः उद्भवन्ति --

(१) राज्ञा अमरशक्तिना त्रयः विवेकरहिताः पुत्राः बुद्धिप्रकाशनार्थं विष्णुशर्मणे ब्राह्मणाय समर्पिताः। तस्य च ब्राह्मणस्य सिंहनादः -- एतान् मासषट्केन नीतिशास्त्रज्ञान् करोमि -- इति। किन्तु २४० पुटैः लघ्वाकारवान् अयं ग्रन्थः। अस्माभिः प्रतिदिनं पुटद्वयमात्रं पठित्वा मासषट्केन संपूर्णं ग्रन्थं पठितुं शक्यते। आदिनं विष्णुशर्मणा विवेकरहितबुद्धिप्रकाशाय किं वा कृतम्?

(२) पञ्चतन्त्रकं नाम नीतिशास्त्रं बालावबोधनार्थं भूतले प्रवृत्तम्। बालाः शास्त्रविमुखाः स्युः, अल्पवयस्काः वा। ग्रन्थेऽस्मिन् मुख्यपात्राणि बहुधा वनजन्तवः। अल्पवयस्काः यदा पठन्ति, अनेन रुचिवर्धनेन अवधानं सुस्थिरं भवति। अतः बालाः नाम अल्पवयस्काः एव। किन्तु, सुभाषितानि नैकाने दृश्यन्ते ग्रन्थेऽस्मिन्। अवश्यम् शास्त्रविमुखानां विवेकरहितानाम् अल्पवयस्कानां सुभाषिताध्ययने रुचिः न स्यात्। अतः बालाः नाम अल्पवयस्काः नैव। कथं वा समाधानप्राप्तिः?

भवन्तः पठितारः कृपया स्वाभिप्रायं प्रकटीकुर्वन्तु।