Monday, April 07, 2008

नूतनवर्षशुभाषयाः

सूर्य-संवेदना-पुष्पैः दीप्तिः कारुण्यगंधने
लब्ध्वा शं नववर्षेस्मिन् कुर्यात् सर्वत्र मङ्गलम्

अन्वयः -- सूर्येण दीप्तिः, संवेदनया कारुण्यं, पुष्पेण गन्धनम्। [एवं] शं लब्ध्वा, नववर्षेस्मिन् सर्वत्र मङ्गलं कुर्यात्।

सूर्यः प्रकाशं ददाति। पुष्पं सुगन्धं ददाति। विचारं कारुण्यं ददाति। सूर्येण विचारेन पुष्पेण च प्रकाशं कारुण्यं सुगन्धं च (शं नाम) लब्ध्वा, सर्वत्र मङ्गलं कुर्यात्। वयं सर्वेऽपि सूर्याः भवामः, वर्तमानम् अन्धकारं निवारयामः। वयं सर्वे पुष्पाणि भवामः, सर्वत्र सुगन्धं प्रसारयामः। वयं सर्वे संविदः भवामः, करुणवेदिनः भवामः। तथा स्व-परिष्कारेण शं लब्ध्वा, एकैकमपि सर्वत्र मङ्गलं कुर्यात्।

Friday, April 04, 2008

स्मरण-शक्तिः (हास्यम्)

बण्टी -- यदि स्मरण-शक्तिः क्षीणा जायते, सर्वं नश्यति।
बब्ली -- सत्यं भोः! अहं पत्न्याः जन्मदिनं व्यस्मरम्। सा कार्‌यानेन गृहं अतिक्रामितवती। सर्वं नष्टं जातम्!

जगतः होरा

अस्मिन् जगति वयं सर्वेऽपि भागिनः। अधिकाधिकं स्वकार्यमेव पालयन्तः वयं तीव्रवेगेन जायमानानि परिवर्तनानि न गणयामः। मानवावधानं पुनः जगति एकाग्रीकर्तुं, घण्टात्मक-कार्यक्रमः आयोजितः। निर्दिष्टे समये, सर्वैः यथाशक्ति दीपनिर्वापनं करणीयमिति। सामान्यरात्रेः अपेक्षया भेदः तु अवर्तत एव। सिद्नी-नगरे पूर्व-चित्रं वामतः, होरावधिचित्रं दक्षिणतः। अधिकतया कृष्णीकरणं अन्तर्जाले प्रावर्तत, यथा गूगल्-नाम संस्थया सम्मति-प्रकटनार्थं वर्णंमात्रलेपनं कृतम् . . .



Thursday, April 03, 2008

उपधान-युद्धम्



अमेरिका-वासिभ्यः एतादृशानि चित्राणि समानानि। यतः हिमपातः तु भवत्येव। किन्तु, अस्मिन् चित्रे न कोऽपि हिमपातः। किं तर्हि? गत-मासे, विश्व-उपधान-युद्धम् आयोजितम्। भागिनः निर्दिष्टेषु स्थलेषु उपधानानि आनीय, युद्धार्थं संम्मिलिताः। मध्येयुद्धं कणाः सर्वत्र प्रसारिताः। हिमपातः इव सुन्दरं दृश्यम्।

कोषस्य महत्त्वम्

ब्रह्मानन्द-त्रिपाठिनः व्याख्या -- विदुषां शब्दविद्या (सम्पूर्ण-वाङ्मयं) राज्ञां च प्रजा यदि संसारेऽस्मिन् केनापि एकेन उपायेन वशतां याति तत् कोषसङ्ग्रहम् एव। अत एव इयम् अभियुक्तोक्तिः सुप्रसिद्धा --

विदुषां भूभुजां वाऽपि शब्दविद्या तथा प्रजा।
संसारे वशतामेति न विना कोषसङ्ग्रहम्॥

अमरकोषः -- उपोद्घातः

ब्रह्मानन्द-त्रिपाठिनः व्याख्या

समाहृत्यान्यतन्त्राणि सङ्क्षिप्तैः प्रतिसंस्कृतैः।
सम्पूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम्॥

पद्येऽस्मिन् अभिधेयप्रयोजनं प्रदर्शयति -- समाहृत्येति। अन्यतन्त्राणि अन्येषां व्याडिप्रभृतीनां तन्त्राणि नामलिङ्गानुशासनानि, नामानि च लीङ्गानि च तानि, अनुशिष्यन्ते बोध्यन्ते अनेन तानि, समाहृत्य एकीकृत्य सङ्गृह्येत्यर्थः, सङ्क्षिप्तैः परिमितशब्दैः, प्रतिसंस्कृतैः यथायथं विनियोजितैः, वर्गैः प्रकरणैः, समन्वितम्, अत एव सम्पूर्णम् अखिलं, मया अमरसिंहेन, उच्यते कथ्यते सर्वेषाम् उपकारायेति, शेषः॥२॥