Sunday, July 29, 2007

लास-वेगस्

दिनत्रयानन्तरं उद्योगे विरामदिनं भवति इति ज्ञात्वा, झटिति लास-वेगसं गमिष्यावः इति निश्चितम्। त्वरया विमान-चितिकां क्रीत्वा, वास-व्यवस्था अपि सिद्धीकृता। आवयोः द्वयोः अपि प्रथमगमनं तत्र प्रति। एवं, किम् अपेक्षणीयम् इति अज्ञातम्। विश्वे प्रसिद्धम् अक्षप्रियस्थलं तु एतत् एव। तस्य ख्यातिः तु सर्वत्र प्रसृता। अस्य स्थलस्य उद्देश्य-वाक्यं अस्ति--लासवेगसि प्रवृत्तम्, अत्रैव स्थीयते--इति। एवं न केवलं अक्षक्रीडा, गोचर-ग्राहकाः, इन्द्रिय-उत्तेजकाः प्रदर्शिन्यः सर्वत्र वर्तन्ते।

उदाहरणम् यथा--इन्द्रजालिनः तु सर्वत्र सन्ति। सामान्यतया ते किञ्चन वस्तु प्रदर्श्य, तस्य अन्तर्धानं कारयन्ति। तदेव लासवेगसि अपि। किन्तु सामान्यवस्तूनां अन्तर्धानं न कारयन्ति। बृहतः उन्नतस्य स्थूलस्य वस्तुनः एव अन्तर्धानं कारयन्ति . . . यतः एवं वस्तु ते इन्द्रजालिनः कुत्र वा गोपयन्ति?

लासवेगसि, एकः प्रधान-मार्गः, यस्य द्वयोः अपि पक्षयोः विविधानि अक्षस्थलानि। जनान् आक्रष्टुं एवं व्यवस्था कृता। प्रतिभवनं किमपि विषयम् उद्दिश्य, सम्बद्ध-वस्तूनि, चित्राणि सर्वाणि स्थापयन्ति। कथम् एतत्?

पुरा ईज्यिप्त-देशे राज्ञां त्रिकोणाकार-भवनानि प्रचुराणि आसन्। अतः अत्र लासवेगसि अपि एकं भवनं तथा एव निर्मितम्। अन्ते भित्तौ अपि सम्भद्ध चित्राणि एव, यथा कोऽपि चिन्तयेत्--अहं तु ईज्यिप्त-देशं गतः--इति। एवं न्यूयार्क्, प्यारिस्, ग्रीस्, अन्यानि स्थलानि उद्दिश्य भवनानि निर्मितानि। कल्पन-शक्तिः अस्ति चेत्, किमपि कर्तुं शक्यते मानवैः। किन्तु, अत्र लासवेगसि, तामस-स्वभावान् एव भोजयति सर्वम्। तथापि विश्वस्य गम्येषु स्थलेषु अन्यतमं तु लासवेगस् एव!

विश्ववाणी

युवकानां कल्पनशक्तिः, स्वप्नशक्तिः, उत्सुक्ता च श्रेष्ठतरा। कतिपय-वर्षेभ्यः पुर्वं अमेरिका-देशे सम्भाषण-संस्कृत-कार्यम् आरब्धम्। तस्य परिणामः कः? बहूनां व्यवहार-संस्कृत-ज्ञानम्। अपि च, एका युवती सौम्या नाम्ना कार्यकर्त्री अस्मिन् वर्षे संस्कृताय सम्पूर्ण-समयार्पणम् कुर्वती अस्ति। एवं बहूनां भारतीय-युवकानां, या रुचिः अन्तर्हितम् आसित्, अद्यत्वे तस्याः प्रकटनम्। बहूनि प्रयत्नानि प्रचलन्ति। तेषु अन्यतमम्--विद्यालयीयानां छात्राणां नूतना पत्रिका, विश्ववाणी नाम्ना, संस्कृत-माध्यमेन! तस्याः पत्रिकायाः सम्पादिका का? सा एव सौम्या जोयिसा!

Monday, July 23, 2007

पुष्पोत्सवः

सप्ताहान्ते, आवाभ्यां लवण्डर् नाम्ना पुष्पोत्सवः गतः । पूर्वं तत्रत्या सर्वेषां जीवन-वृत्तिः क्षीर-दोहने आसीत् । किन्तु सः व्यवहारः नष्टः । यतः भूमिः कृषक्षेत्रयोग्या, पुष्पाणि वपणीयानि इति निश्चितम् । सुव्यवस्था कृता चेत् सर्वेभ्यः अतिथयः आगच्छन्ति इति सङ्कल्प्य एकादशवर्षीयः उत्सवः अयम् । रमणीय-क्षेत्रे, शान्त-वातावरणे मधुरस्य दृश्यस्य पानं कृतम् । सुगन्धः नयनाभ्याम् आघ्रातुं शक्यते इव । यद्यपि बहूनि नगरानि वर्तन्ते तत्र, प्रकृतिः अस्पृष्टा इव भाति । उन्नताः शाल-वृक्षाः नयनगोचरात् अतिक्रामकाः । हरितवर्णावृतं सर्वम् । मृगाः निश्चिन्तया चरन्ति । अपूर्वं दृश्यम् इदम् । तन्मध्ये गानं, नृत्यं, आहारः च । सप्ताहान्ते यावत् देवाः इव सर्वे रमन्ते ।

Friday, July 20, 2007

स्थूलत्वम् इष्टम्

विश्वे विभिन्नाः सम्प्रदायाः। सर्वेपि अपरिचितस्य सम्प्रदायस्य दृष्ट्याम् आश्चर्यम् अनुभूयते। विश्व-पश्चिमे जनस्वास्थ्य-वर्धनाय बहु प्रयन्तं प्रचलति। सामान्य-दृष्ट्या, यस्याः कृशता, सा एव सुन्दरी, सुमध्यमा। पत्नी-रूपेण सा एव अपेक्षिता। ततः सर्वेऽपि न्यूनातिन्यूनं खादन्तः व्यावामशालां गन्तुं इच्छन्ति--यद्यपि व्यायाम-गमनम् अप्रचुरः। किन्तु, आफ्रिकायां न तथा। अत्र क्षीण-कृशता तु दारिद्र्यं सूचयति। अतः स्थूलत्वं अभिलषितम्। कश्चन जनपदाधिकारिणः विवाहः निश्चितः। किन्तु, तेन सूचितम् -- विवाहात् पूर्वम् कन्यायाः भारः द्विगुणितव्यः इति! एवम् एव कृतम् अपि!

Monday, July 16, 2007

बालैः एव कर्तुं शक्यते

सर्वत्र, केचन जनाः बहु वेगेन यानं चालयन्ति। तस्य परिणामः तु दुर्घटनाः, याभिः निर्दोषिनः क्षताः हताः वा भवेयुः। अतः बहुषु स्थलेषु आरक्षकाः यानत्वरायाः मानं कुर्वन्ति। कुत्रचित्, कश्चन आरक्षकः बहु उत्साहेन इदं कार्यं अकरोत्। सः आरक्षकयाने एव सदा तिष्ठति। आरक्षकयाने स्थिते यन्त्रं अतिक्रमणयानस्य चित्रं गृहीत्वा, अनन्तरं दोषिभ्यः स्वयमेव दण्डपत्रं प्रेषयति। कैश्चन बालैः बहु वारं दण्डपत्रं प्राप्तम्।

तेषु कैश्चन धीरैः बालकैः एवं कृतम् -- एकः बालकः आरक्षकं प्रति गत्वा, आरक्षकस्य अवधानं गृहीत्वा अपनीतवान्। तदा अन्ये बालकाः यानस्य व्यक्ति-फलकम् (license plate) अहरन्। तत् स्वयाने स्थापयित्वा त्वरया यानं अचालयत्। कालान्तरेण पत्रालयात् आरक्षकेन दण्ड-पत्रं प्राप्तम् !

Sunday, July 15, 2007

आकाङ्क्षा

पद्ये गद्ये वा, सुलभेन अन्वयज्ञानाय प्रश्नरूपेण तत्तत्पद-संयोजनोपायस्य "आकाङ्क्षा" इति संज्ञा। एकैकस्मिन् अपि वाक्ये क्रमेण प्रश्नाः प्रष्टव्याः--

एकैकस्मिन् अपि वाक्ये "पूर्णक्रियापदम्" पूर्वं ज्ञातव्यम् ।
कर्तुः आकाङ्क्षा -- कः? (का /किम्) इति प्रश्नः प्रष्टव्यः।
कर्मणः आकाङ्क्षा -- कम्? (कौ/कान्/काम्/किम्) इति प्रश्नः प्रष्टव्यः।
कर्तृविशेषणस्य आकाङ्क्षा -- कथंभूतः, कीदृशः इति प्रश्नः प्रष्टव्यः।
कर्मविशेषणस्य आकाङ्क्षा -- कथंभूतम्, कीदृशम् इति प्रश्नः प्रष्टव्यः।
क्रियाविशेषणस्य आकाङ्क्षा -- कदा, कुत्र, कथम्, कुतः, किमर्थम् इत्यादयः प्रश्नाः प्रष्टव्याः। यथा --

वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥

पूर्णक्रियापदम् -- वन्दे।
कर्तुः आकाङ्क्षा -- कः वन्दे? [अहं] वन्दे।
कर्मणः आकाङ्क्षा -- कौ वन्दे? पार्वतीपरमेश्वरौ वन्दे।
कर्तृविशेषणस्य आकाङ्क्षा -- कथं भूतः अहम्?
कर्मविशेषणस्य आकाङ्क्षा --कथं भूतौ पार्वतीपरमेश्वरौ?
वागर्थौ इव सम्पृक्तौ, जगतः पितरौ।
क्रियाविशेषणस्य आकाङ्क्षा -- किमर्थं वन्दे? वागर्थप्रतिपत्तये वन्दे।

अन्वयः -- [अहं] वागर्थौ इव सम्पृक्तौ, जगतः पितरौ, पार्वतीपरमेश्वरौ, वागर्थप्रतिपत्तये वन्दे॥

Saturday, July 14, 2007

हरिपुत्रः

१९९७-तमे वर्षे "हारी पाटर्" नाम्ना पुस्तकमाला आरब्धा । अत्र मित्रमण्डले, हरिपुत्रः इति नाम-परिवर्तनम् । एकस्य एकादश-वर्षीयस्य बालकस्य जीवनकथा इयम् । बहूनां बालकानां उत्सुकता अस्मिन् पुस्तकगुच्छे । बहुत्र, पठने अनुत्सुकितैः बालकैः अपि इदम् एव पुस्तकं पठितम् । अतः शिक्षकाः अपि इमां पुस्तकमालाम् आश्लाघयन्ति । पुस्तकमालायाः अन्तिम-मणिः अग्रिम सप्ताहान्ते आविश्वम् उपलभ्यते । क्रमेन प्रतिपुस्तकं, तस्य चलच्चित्रनिर्माणम् । चतुर्थपुस्तकस्य चलच्चित्रस्य प्रथमदर्शनाय रात्रौ अगच्छम् । प्रायेण सर्वे बालकाः युवकाः वा । यद्यपि अर्धरात्रौ, तथापि तेषां सम्पूर्ण-उत्सुकता । मातापितरः अदृष्टाः, ते प्रायः सुखनिद्रा-मग्नाः ! चित्रस्य आरम्भात् पूर्वम् एकेन बालकेन क्रोशितम् -- अद्य मम मित्रस्य अस्याः जन्मदिनम् । झटिति, "जन्मदिनम् इदम्" गीतम् सर्वैः उच्चैः गीतम् । यदा बालाः पुनः चलच्चित्रम् (अन्यत् वा) प्रतीक्षामाणाः भवेयुः, पुनः एवं प्रथमदर्शनार्थं गन्तुम् इच्छामि । वार्तावरणं सम्पूर्णतया भिन्नं भवति ।

Tuesday, July 10, 2007

शतायुः कथं भवेत्?

कोऽपि शताभिषिक्तः वृद्धः, युवकेन पृष्टः--भवान् चिरञ्जीवी एव। किं रहस्यम्?--इति।
वृद्धः -- प्रतिदिनं बहिः व्यायाम-चलनार्थं गच्छामि।
युवकः -- प्रतिदिनम्? क्लिष्टकरं कलु?
वृद्धः -- पञ्चसप्ततिवर्षेभ्यः पूर्वं मम विवाहः जातः। अग्रिम-रात्रौ एव निश्चितम्। आवयोः प्रतियुद्धं, तस्य समनन्तरं दोषी गृहस्य बहिः गच्छेत्। . . .

Sunday, July 08, 2007

न कोऽपि हिन्दुः भवेत्

मलेस्या-देशे, हिन्दू दम्पती। विवाहस्य समनन्तरम् मत-परिवर्तनं कृत्वा ईस्लाम-मतम् अवलम्बितं ताभ्याम्। तयोः एकः शिशुः जातः। किन्तु, तस्याः शिशोः पालनं सर्वथा हिन्दुना मातामह्या कृतम्। आजीवनं अस्याः महिलायाः हिन्दु-व्यवहारः, यथा मातामह्याः। मलेस्या-देशे, केनापि ईस्लाम-मतीयेन, कदाऽपि मत-परिवर्तनं न कर्तुं शक्यते। सर्वकारः दण्डनं कर्तुं सिद्धः, हननम् अपि कर्तुं सिद्धः, किन्तु ईस्लामात् मत-परिवर्तनं कदापि न अङ्गीक्रियते। यतः एषा मातामह्या हिन्दुना पोषिता रेवती नाम्ना महिला ईस्लाम-पितृभ्यां जाता, सा हिन्दु-मतम् इदानीं अवलम्बितुं न शक्यते इति सर्वकारेण उद्घोषितम्--यद्यपि वस्तुतया पितरौ हिन्दू एव, अपि तु सा स्वयं हिन्दुः इति आजीवनम् विश्वसिति रेवती! तस्याः मनःशोधनाय (!) षट्सु मासेषु कारा-गृहे तां बन्धयित्वा, तस्याः ईस्लाम-व्यवहारः बलात्कारेण कृतः। मांसाहारः अपि। एषा अस्ति स्थितिः विश्वे। किन्तु एषु ईस्लाम-देशेषु एवं भवति चेत्, को वा क्रन्दति?

अवश्यमेव तृप्तिः

अमेरिका देशे, एकः न्यायाधीशः स्वीयम् ऊरुकं प्रक्षालनार्थं रजकाय अददत्। रजकः सपत्नीकः कोरीया-देशात् सप्त-वर्षेभ्यः पूर्वम् आगत्य, रजक-कार्यं कुर्वन् सुखेन जीवनम् यापयति स्म। किन्तु , न्यायाधीशस्य ऊरुकस्य प्रत्यर्पणे इयं घटना। इदं ऊरुकं अपरस्य, न तु मम इति न्यायाधीशः उच्चैः क्रन्दति--यद्यपि सः प्रमाणं दर्शयितुम् अशक्तः। यतः आपण-भित्तौ "अवश्यमेव तृप्तिः" इति फलकं अवर्तत, सः न्यायाधीशः रजकं न्यायालयं नीत्वा, तत्र विरोधम् अकरोत्। यतः मया तृप्तिः अप्राप्ता, भवता रजकेन दण्डनम्--१,०००,००० डालराणि--दातव्यम् इति सः उदघोषयत्! विलक्षणम् अस्य न्यायाधीशस्य व्यवहारः!

Thursday, July 05, 2007

अद्वैत-तत्त्वम्

मित्रेण इयं वार्ता सूचिता --

केरलीय-विश्वविद्यालयस्य अध्यापकेन क.महेश्वरन्.नायर् महोदयेन सरल-संस्कृतेन अद्वैत-तत्त्व-नाम्ना उपन्यासः कृतः। अस्य भाषणस्य ध्वनिमुद्रिका अत्र लभ्यते। संस्कृतमित्रमण्डल-श्रोतृषु आनन्द-तरङ्गान् अजनयत्, इयं संस्कृताध्यापकस्य संस्कृत-व्याख्या।

Monday, July 02, 2007

जीवन-लक्ष्यम्

प्रति-प्राणी, बहूनि कार्याणि करोति। अक्रियायाम् अज्ञानिना केनाऽपि क्षणं यावदपि स्थातुं न शक्यते। इदं तु जीवनस्वभावम्। तर्हि यावान् समयः वर्तते, तेन किं करणीयम् इति प्रश्नः भाति। आधुनिकं व्यवहार-चिन्तनम् अधः चित्रे स्पष्टतया वर्णितम्। सुखनिद्रा बहूनाम् अभिलाषः। जीवन-लक्ष्यम् एव नास्ति। अन्तिम-श्वास-स्थानं कुत्र भवेत् इति विषये चिन्तनम् अकृतम्। किन्तु कैः मार्गैः न जीवितुम् इच्छामः, तस्य दीर्घा आवलिः रचिता। इदं हास्यं कलु?

Sunday, July 01, 2007

आई-दूरवाणी

शुक्रवासर-भोजानाय बहिर्गतः। महान् सङ्कीर्णः। महान् कोलाहलः। उत्सुकितानां जनानां महती पङ्क्तिः। आश्चर्यमयं दृष्यं कुतः इति अचिन्तयम्। तदा स्मृतम् यत् "एपल्" आपणस्य उपकण्ठे तिष्ठन्ति इमे जनाः। अधुनात् नूतन-वस्तु--आई-पाड् नाम्ना दूरवाणी--सर्वैः क्रेतुं शक्यते। प्रायः इयं वार्ता श्रुतपूर्वा एव, यतः अस्य वस्तुनः मनोरथत्वं जननाय बहु प्रयत्नं कृतम्। बहुत्र अस्य प्रयत्नस्य सफलता दृष्टा च। किन्तु, एवं परिणामः कुतः इति सम्यक्तया अवगन्तुं न शक्यते मया। मूल्यम् अधिकम्। अपि तु, इदम् वस्तु अपूर्वः नास्ति। बहवः आधुनिक-दूरवाण्यः अपि समान-कार्यं कुर्वन्ति ... आकाशवाण्या श्रुतं यत् एकः युवकः स्वस्य कारयानस्य विक्रयणं कृत्वा आई-पाड् क्रेतुम् इच्छति इति। अयो मूढता!

हनुमता सूर्यः निगीर्णः (३)

भागाः -- प्रथमः, द्वितीयः, तृतीयः

पुनः ऐरावतमपि श्वेतं फलं मत्वा खादितुं तद्दिशि वर्द्धितवान्, किन्तु तत्कालम् एव इन्द्रः तत्-हनौ वज्रेण प्रहृतवान्। तदानीं कपिः मूर्च्छितः अभवत्। मूर्च्छितः भूत्वा कपिः सूर्यमण्डलं परिक्रमन् आसीत्। राहुणा सूर्यः ग्रस्तः। देवराजः अपि स्वपुरं प्राविशत्। किन्तु कपेः पिता पवनदेवः तस्य शरीरम् अरक्षत्। मन्दराचलस्य गुहायां पुत्रं स्वाङ्के निधाय उपाविशत्। तदानीं पवनदेवः स्वगतिं समेत्य स्थिरः अभवत्। सः पवनदेवः तदानीं पुत्रस्य अवस्थां विलोक्य परमव्यथितः आसीत्। क्रोधेन सः स्वर्गलोकम् असुरलोकं च स्वगत्या रहितं कृतवान्। तयोः लोकयोः हाहाकारः व्याप्तः अभवत्। ब्रह्मादिदेवताः तां गुहाम् आगत्य पवनदेवं प्रार्थितवन्तः। ब्रह्मा च स्वकमण्डलोः जलेन कपिम् अभिसिञ्चितवान्। तदानीं शिशुः कपिः नेत्रे उन्मील्य ब्रह्माणं प्रणमाम।


ब्रह्मा तस्मिन् काले कपेः हनुं स्वकरेण स्पृष्ट्वा तन्नामकरणं हनुमान् इति कृतवान्। अथ च श्रीराघवेन्द्रचरणयोः अविचलभक्तेः वरदानम् अपि प्रायच्छत्। पवनदेवः अपि प्रसन्नः भूत्वा सर्वत्र सञ्चरितः अभवत्। इन्द्रः अपि कपये वरदानम् अयच्छत् यत् मम वज्रं शस्त्रास्त्राणि च तव काञ्चित् बाधां प्रापयितुं न शक्ष्यन्ति। इत्थं समुपस्थिताः सर्वे देवाः स्व-स्वशक्तिं कपये समर्पितवन्तः।