Friday, July 31, 2009

उष्णस्पर्शः

गतसप्ताहे, मदागारपरिसरः उष्णासन्नः, यादृक् आक्षपटलिकैः न स्मर्यते। सामान्यसंवत्सरे ग्रीष्मर्तौ सप्ताहः यावत् उष्णतया पौराः उत्क्लिष्टाः, यस्मात् गृह-भोजनायलादिषु शीतकानि न स्युः। गतसप्ताहे परिसरवायुः स्थायी, सूर्यतापः अधिकः, वायुः आद्रीभूतः। अनेन सर्वेऽपि स्वेदक्लिन्नवस्त्राः, चलच्चित्रमन्दिरादि-शीतलस्थल-गताः, कारयानभ्रमकाः। परिवारविहीनाः सर्वे आदिनं कार्यालये मग्नाः। स्वदेहं न केवलं चिदग्निस्थम्, अपि तु तापजनकम्। यस्मात् अत्रत्य-मित्रमण्डलादिषु परस्परप्रेक्षणं सर्वैः निवारितम्। चलच्चित्र-मन्दिरम् अरिक्तासन्दम्। पुनः परेद्युः कोऽपि आदान-प्रदान-उत्सवः इव सर्वेऽपि शीतकस्थ-आपण-विपण्यादयः सम्मर्दग्रस्ताः -- केचन गृहभक्ष्यहस्ताः तत्र स्वैरं भक्षयन्ति अपि !

अहो बत ! मर्त्यनिर्बलता सम्यक् परीक्षिता। अन्यदा वयं घटकाराः इव भूतलराजानः इति भावनया विराज्यते। किन्तु वयं क्व, प्रकृतिः च क्व इति किञ्चिदेव तापाधिकतया बोधितम्। परीक्षा सामर्थ्यदर्शिनी।

Thursday, July 30, 2009

विश्ववाणी

विश्ववाणी इत्यनेन मूर्छितः। भारते बहुश्रमेण संभाषणसन्देशादयः पत्रिकाः प्रकाश्यन्ते। अस्मिन् अपि अमेरिकादेशे विश्वविद्यालयीयैः पत्रिका प्रकाशिता। किमेतत् सम्भवम्? न विश्वसिमि। न केवलं तत्, किन्तु लेखकसामर्थ्यवर्धनम्। बहुत्र कोशाश्रयः करणीयः मया। यथा सन्देशः प्रतिमासम् प्रतीक्ष्यते, तथैव इयं विश्ववाणी-पत्रिका। तस्य सङ्क्तेतं तु भवद्सकाशे वर्तते एव। तथाऽपि अत्र सूच्यते -- http://www.speaksanskrit.org/vishvavani.shtml

पञ्चतन्त्रम्

कथामाला इयं सुप्रसिद्धा, न केवलं संस्कृतक्षेत्रे, यतो हि गतेषु शतकेषु यात्रिकैः नीत्वा, विभिन्नदेशेषु नानाभाषाभिः प्रकाशिता। अद्यत्वे, यैः भारतमूलैः पितृभिः संस्कृतशिशवः इष्टाः (संस्कृतशिशुः नाम उन्नीतः परिपक्वः), तैः पञ्चतन्त्र-हितोपदेशादयः पाठ्यन्ते। बालकेभ्यः अवश्यम् रोचते मृगवचनादीनि।

यदा मया किञ्चित् पठितम्, अभिज्ञातं यत् सर्वैः अपि तन्त्रमिदं पठनीयम्। गद्यपद्यात्मकं, नानार्थैः सन्निहितम् च। शैली तु आस्वादनीया। बहुत्र, छात्राणां रघुवंशादि-महाकाव्ये एव रुचिः। किन्तु, मह्यं गद्यपद्यात्मक-कृतयः रोचन्ते। महाकाव्यानाम् उपमाः अद्वितीयाः। किन्तु, गद्येषु सुभाषितानि, नित्यव्यवहारपदानि च अधिकानि। व्यवहारे, बहुत्र अस्माभिः नूतनपदनिर्माणं क्रियते। गुरोः अभावात्, यद्यपि उचितपदानि शिष्टैः प्रयुज्यन्ते, अस्माभिः पदान्तरेण व्यवह्रियते। पुनः कालिदासादिभिः सदा योग्यपर्यायपदानि एव सन्निवेशे युक्तानि। किन्तु शङ्का जायते -- सामान्यपौराः कथं भाषन्ते स्म . . . एतेन एव पदेन -- इति। तत् तु गद्यपठनेन ज्ञायते।


वयं सर्वेऽपि बहिः भोजनालये खादामः। बहुत्र left-overs इत्यस्य स्वीकारः। doggy-bag इत्यस्य प्रयोगः वा। अतः कुक्कुर-पोटलिका इति श्रुतं कस्यापि मुखात्। पञ्चतन्त्रे 'भक्षित-शेषम्' इति पदं युक्तम्। तत्तु उचितपदम् एव इति भाति। पञ्चतन्त्रादीनां पठनेन बुद्धिः सुसंस्कृता, भाषाऽपि परिष्कृता भवति इति मे विश्वासः।

प्रशान्तिः

कतिपयेभ्यः मासेभ्यः पुटेऽस्मिन् प्रशान्तिः। एतादृशानि इतिवृत्ति-ब्लाग्-पत्राणि बहूनि यत्र आदौ बहु लिख्यते, किन्तु कालातीते आनाथ्यं गतानि। लज्जायै यत् अस्याम् अपि इतिवृत्त-मालायां सैव शोचनीया स्थितिः। कुतः तर्हि पुनः परिपालनम्? संस्कृतभारत्याः मासिक-पत्रिकायां, संभाषण-सन्देशे, इदमिदानीं बहूनां ब्लाग्-पत्राणां सङ्केतानि प्रकाशितानि। तेषु, अयमपि पठ्यमानः अन्यतमः। अहो ! पूर्वं पठितॄणाम् अभावेऽपि लिख्यते स्म। यदि केचन पिठारः स्युः, तर्हि अवश्यं किमपि प्रकाश्यते ननु? यद्यपि लेखकोऽहं कश्चन सामान्यच्छात्रः, यस्य ज्ञानं भाषासामर्थ्यं च अवरे, संस्कृतमात्रे मम किञ्चित् इति मत्त्वा समर्प्यते कार्यम् इदम्।