Showing posts with label रामायणम्. Show all posts
Showing posts with label रामायणम्. Show all posts

Thursday, January 20, 2011

अमात्यगुणाः

रामायणे अयोध्यावर्णने मन्त्रिणः सुवर्णिताः । तेषु विशेषणेषु अन्यतमानि सर्वजनजीवितयोग्यानि --

  • विद्याविनीताः -- विद्याविनयोभयसंपन्नाः
  • यथावचनकारिणः -- यथावचनं कुर्वन्ति, सत्यप्रतिज्ञाः
  • स्मितपूर्वाभिभाषिणः -- निर्मत्सरत्वम्
  • सततं प्रियवादिनः

एवं च राजगुणं संहरति --

  • प्रजानां पालनं कुर्वन्नधर्मं परिवर्जयन्

Saturday, January 15, 2011

अयोध्या

ख्यातदशरशासिता पुरी इयम् । सा च सत्यनामा इति वाल्मीकिना विवृतम् । सत्यनामा यथार्थनामा अन्वर्थनामा । अत्र टीकाकारैरुच्यते --

  1. न कैश्चित् योधितुं शक्या इति अयोध्या
  2. अयोभिः विष्णुब्रह्मशिवैः ध्यायते नित्यं स्मर्यते या सा अयोध्या

द्वितीयार्थप्रकाशः कुत इति प्रश्नः । यदि भवद्भिः प्रेक्षावद्भिः ज्ञायते, कृपया सूचनीयाः अत्र वयम् ।

Friday, January 14, 2011

कथोपायः

आबालवृद्धं सर्वमपि विविधाभिः कथाभिः कालं नयति । अतः तत्रैव ऋषिभिः इहलोकतथ्यानि परलोकतथ्यानि च सूत्रितानि ।  अयं च कथोपायः इति कथ्यते । महर्षिवाल्मीकिना रामायणं, तथैव चतुर्मुखब्रह्मणः पुनर्चोदनात् योगवासिष्ठं च ग्रथिते । तत्रैव उत्तरग्रन्थे उच्यते -- “कथोपायान् विचार्यादौ मोक्षोपायान् इमान् अथ । यो विचारयति प्राज्ञो न स भूयोऽभिजायते” -- इति । टीकाकारः उपबृंहति -- कथा एव धर्मतत्त्वज्ञानानुष्ठानेश्वरप्रपत्तिषु ज्ञानाधिकारप्रापकेषु उपायो यस्मिन् ग्रन्थे स पूर्वरामायणग्रन्थः कथोपायः -- इति ।

महर्षिवचनं श्रुत्वा, संशयानाः वयं -- कुतः कथोपायपठनावश्यकता यत्र स्वयं मोक्षोपायो प्रदीप्यते -- इति । शङ्कामिमां निवारयितुं स्वयमुच्यते -- “शिष्यायास्मै विनीताय भरद्वाजाय धीमते । एकाग्रो दत्तवांस्तस्मै मणिमब्धिरिवार्थिने” -- इति । यथा समुद्रः काङ्क्षिणे मणिं वज्रादिकम् अर्पयति, तथैव श्रीवाल्मीकिः स्वशिष्याय रामायणमणिं दत्तवान् इत्यर्थः । नेदं सामान्यं धनं प्रत्युत महर्षिधनम् । अपि तु न स शिष्यवृन्दभावेन अर्पितवान्, प्रत्युत एकाग्रो भूत्वा । इदमेव एकाग्रत्वं गुरुशिष्यसंप्रदायमहत्त्वम् ।

अलं पल्लवितेन । रामायणपठितॄणां पुण्यम् एव । कथं वा पूर्वजन्मसंपादितपुण्यपुञ्जरहिताः वयं महर्षिप्रणीतग्रन्थम् इमं पठेम ? कथञ्चित् महर्षिकृपाभ्रान्त्या प्राप्तावसराः वयम् । एहि, सफलीकुर्मः ।

Friday, October 01, 2010

रामायणम् - १.००२ -- आदिकाव्यम्

आरभ्यते ध्वनिमाला। प्रथमसत्त्रे रामायणस्य प्रचोदनं ध्वनितम्।
अवतारणाय --  mp3 पत्रम्। ००:१९:४२ होराः। ४,५१ MB ॥

Monday, November 10, 2008

मन्त्रश्लोकः

भारतगमने, सदा देवालय-अटनं क्रियते। तथा एकदा प्रसिद्धं हनुमतः क्षेत्रं गतः। भक्ताः स्वाकाङ्क्षां पत्रे सम्यक् लिखित्वा, नालिकेरसहितं रज्जुना बद्ध्वा आकाङ्क्षा-वरार्थं प्रार्थयन्ते। तदा रामायणस्य कस्यचन मन्त्रश्लोकस्य उच्चारणं करणीयम् इति प्रक्रिया। तत्तु भित्तौ आङ्ग्ललिप्या मुद्रितम्। न तु लिप्यान्तरेण! दीर्घता कुत्र, महाप्राणता कुत्र इति कथं वा ज्ञातव्यम्? अर्चके पृष्टे सति, न कोऽपि लाभः। इदानीं लेश-मात्रेण संस्कृत-ज्ञानेन स्पष्टं भवति। अपि च, अनन्तरं देवनागरीलिप्या मुद्रिते ग्रन्थेऽपि श्लोकः लब्धः।

त्वम् अस्मिन् कार्य-निर्योगे प्रमाणं हरि-सत्तम!।
हनुमन्! यत्नं आस्थाय दुःख-क्षय-करो भव॥

एवं सीता, हनुमते स्व-चूडामणिं दत्त्वा, उपदिशति। अतः सकल-कार्य-सिद्ध्यर्थं भक्ताः मन्त्रत्वेन जपन्ति।