Wednesday, November 26, 2008

मुंबय्यां विस्फोटाः

अधुना वाचिकं यत् भारते, मुंबईनगरे स्फोटक-विस्फोटाः प्रचल्यमानाः सन्ति। युगपत् विभिन्नस्थलेषु कुहृदयैः कारितम्। आबालवृद्धाः स्वर्गम् प्रेषिताः। वार्तां प्राप्य, दुःखकथाः श्रुत्वा, चित्राणि दृष्ट्वा आर्द्रहृदयाः वयम्। किमर्थं एते अवराः मूढ-मतयः स्फोटक-हस्ताः आर्त-जनकाः सामान्य-पौर-हननाः नरक-गन्तारः एवम् आचरन्तीति आ-जीवन-कादम्बिनी कदापि न अवगम्यते। क्लैब्यमिदम्। देवः प्रार्थनीयः। किन्तु अभिमुखम् एव स्थातव्यं, न तु पलायनीयम्। सङ्घौ शक्तिः कलियुगे इति सूक्तिः। एतेषां मलकीटानां सङ्घानां परिणामः तु अनुभूयते। कदा वा वयं सर्वे धर्मरक्षणे समाजसेवायां संलग्नाः भवेम? कदा वा बद्धकटाः हस्ताहस्ति एकदृष्ट्या -- पर्याप्तम् -- इति क्रोशेण उत्तिष्ठेम?

Thursday, November 20, 2008

अष्टपद! क्व गतः?

चन्द्रगमनात् आकाशगमनात् वा देशस्य ख्याति-वृद्धिः भवेत्। कदापि अनपेक्षितं अपि भवेत्। यू-एस्-देशात् मासारम्भे यानं ISS-प्रति गतम्। तदा ज्ञान-वृद्ध्यर्थं अष्टपद-द्वयं अपि नीतम्। अष्टपदेन किं आकाशे जीवितुं शक्यते? किं तत्र जालं अपि निर्मातुं शक्यते इति द्वौ प्रश्नौ। किन्तु, यदा भूलोकं प्राप्तं, तदा अभिज्ञातं यत् एकः षट्पदः अदृष्टं गतः। कदा, कुत्र, कथं इत्यादयः प्रश्नाः उदभवन्। तथापि, अवशिष्ट-अष्टपदेन किं जीव्यते? जालं किं मञ्जूषायां वर्तते? उत्तरे केनापि न उच्येते! द्वाभ्यां प्रश्नाभ्यां यानम् आकाशं गतं, पञ्च प्रश्नेभ्यः निवर्तितम्!

अहो! समासः बाधते

नामरामायणं लोके विश्रुतम्। शुद्धब्रह्मपरात्पर राम! इति आरभ्यते। रामसम्बोधनपदानि सर्वाणि, तेभ्यः रामायणस्य पुनर्कथनं च। सर्वाणि अपि सम्बोधनपदानि समस्तपदानि च। अतः केनचित् भागेन समासः अभ्यस्तः। तत किञ्चित् नाम -- विश्वामित्रप्रियधन राम -- इति। यत्र अनुवादः कृतः, तत्र -- रामस्य प्रियतमं धनं -- इति भावः। किन्तु व्याकरण-दृष्ट्या कथं एवं साधयेत् इति शङ्का जाता। यतः, धनं नपुंसकलिङ्गपदम्। रामः तु पुरुषः। तदा, केनचित् मित्रेण पञ्चषाः नानार्थाः कल्पिताः। मित्रेण तदा बोधितं -- इतः एव समास-सौन्दर्यम्, इतः एव समास-बाधा च -- इति। अहो तथ्यमिदम्।

Monday, November 17, 2008

परमहंसः

श्रेष्ठतराः सन्न्यासिनः परमहंसाः इति कथ्यते। हंस-लक्षणं विवेचनम्। तत् यथा अस्मिन् श्लोके निर्दिष्टम् --

हंसस्य चोर्ध्व-गमने गतिर्भवति निश्चला।
तत्त्वाऽतत्त्व-विवेकोऽस्ति जल-दुग्ध-विभागवत्॥
अज्ञान-ज्ञानयोस्तत्त्वं विेवेचयति हंसकः। (शिवपुराणे १५।१०)

आह्वान-पत्रिकायां मङ्गल-श्लोकः

शुभावसरेषु अवश्यं संस्कृतेनापि आह्वान-पत्रिकाः प्रेषणीयाः। शीर्षकं मङ्गल-पूर्वकं भवतु इति परम्परा। संस्कृतं देवभाषा, अतः संस्कृतेन लिखिता पत्रिका मङ्गल-पत्रिका एव ... न केवलं शीर्षके! तथाऽपि श्लोकयुगलं सरलसंस्कृतेन --

मङ्गल-ध्वनि-गानश्च बभूव बहु सर्वतः।
वाद्य-ध्वनिरभूद् रम्यो सर्वानन्द-प्रवर्धनः॥

Friday, November 14, 2008

गायत्र्याः अर्थः -- मन्त्रदीपिकायाम्

(पाठद्वयस्य मिश्रणं कृतम्। अन्तिम-वाक्यार्थ-भेदत्वात् द्वेऽपि दीयेते)

तत् ब्रह्म परमं नित्यं ध्येयं यत् सूर्यमण्डले।
सवितुः सकलोत्पत्ति-स्थिति-संहार-कारिणः॥

वरेण्यं आश्रयणीयं यदाधारं इदं जगत्।
भर्गस्य साक्षात्कारेण विद्या तत्-कार्य-दाहकम्॥

देवस्य ज्ञान-रूपस्य स्वानन्दात् क्रीडतोऽपि वा।
धीमह्यहं स एवेति तेनैवाभेद-सिद्धये॥

धियोऽन्तःकरणे वृत्तीः प्रत्यक् प्रवण-चारिणीः।
य इत्यरूपं अव्यक्तं सत्य-ज्ञानादि-लक्षणम्।

नोऽस्माकं बहुधाध्यस्तभेदेनानेक-देहिनाम्।
प्रचोदयात् प्रेरयितुः सत्य-ज्ञानादि-लक्षणम् ॥
प्रचोदयात् प्रेरयितुं प्रार्थनीयं विधीयते॥

गायत्र्याः अर्थः -- लघु

विश्वामित्रेण --
देवस्य सवितुस्तस्य धियो यो नः प्रचोदयात्।
भर्गो वरेण्यं तद्ब्रह्म धीमहीत्यर्थ उच्यते॥

अगस्त्येन --
यो देवः सविताऽस्माकं धियो धर्मादिगोचरः।
प्रेरयेत् तस्य यद्भर्गः तद्वरेण्यं उपास्महे॥

मन्त्रदीपिकायाम् --
देवस्य सवितुस्तेजो वरेण्यं भर्गसंज्ञितम्।
ध्यायेमहीति शब्दोक्तौ धीमहीत्यर्थ उच्यते॥

गायत्र्याः अर्थः -- वैद्यनाथदीक्षितेन

सवितुः सर्वजगतः प्रसवितुः जगत्कारणस्य देवस्य द्योतनस्वभावस्य स्वयं प्रकाशचिदेकरसस्य वरेण्यं वरणीयं सर्वैः प्रार्थनीयं सुखैकतानरूपं सर्वैः सुखस्यैव प्रार्थनीयत्वात्। भर्गः भ्रस्जदाहे प्रकृतिप्राकृतलक्षणसंसारस्य दाहकं यः धियः धी-वृत्तीः प्रचोदयात् सदा प्रेरयति। तस्य बुध्यादि-प्रेरकस्य सवितुः देवस्य वरेण्यं परमानन्दैकरसं भर्गः सकारान्तः संसारदाहकं निर्गुणं धीमहि ध्यायामः इति।

गायत्र्याः अर्थः -- निरुक्तभाष्ये

यद्ब्रह्म नित्यं हृदि सन्निविष्टं
मां प्रेरयेत् तिष्ठति नः सुबुद्धिः।
भर्गस्तदाख्यं भजनीयं एतत्
ध्यायामि नित्यं रविमण्डलस्थम्॥

देवस्य सवितुर्मध्ये यो भर्गो नो धियः स्वयम्।
प्रचोदयात् तत्वरेण्यं धीमहीत्यन्वयक्रमः॥

द्युस्थानात् द्योतनाद्वाऽपि भानुर्देव उदाहृतः।
जगत्प्रसव-हेतुत्वात् स एव सविता भवेत्॥

तत्सम्बन्धी च यो भर्गः पापानां भञ्जकत्वतः।
अस्माकं कार्यविषये बुद्धीः प्रेरयतीह यः॥
तद्ब्रह्म प्रार्थनीयं स्याद्वरणीयं उपास्महे।

ध्येयः सदा सवितृ-मण्डल-मध्यवर्ती
नारायणः सरसिजासन-सन्निविष्टः।
केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्मय-वपुर्धृत-शङ्खचक्रः॥

Tuesday, November 11, 2008

बलवन्तं प्रार्थयामहे

ईश्वरः किमर्थं प्रार्थ्यते इति पृष्टे सति, केषाञ्चन मतं यत् सः बलतरः इति। निर्धनिकः धनलाभाय धनवन्तं एव प्रार्थयते, न तु अपरं निरुपायम् इति न्यायेन। यतः, अपरः निर्बलः कथम् अस्मान् रक्षेत्।