Thursday, January 31, 2008
युद्धविवरणम्
बहुषु स्थलेशु युद्धं प्रचलत् अस्ति। मानवानाम् इतिहासे कदाऽपि शान्तिकालः आसीत् वा इति प्रश्नः पृच्छ्यते। वर्तमानं युद्धं तु स्वलाभस्थे व्यर्थ-कार्ये न तु धर्मसमाजरक्षणपोषणयोः। समाजहितयुद्धं भिन्नम्, किन्तु तादृशयुद्धानि विरलानि। श्रीलङ्कादेशे न केवलं युद्धं प्रचलति, किन्तु बलेन बालकाः अपि हटाः कृताः। तत्र, कस्याश्चन महिलायाः क्रन्दनम् -- प्रातः मृदु कोकिलगीतं श्रूयतां, न तु गोल-प्रस्फोटादीनां शब्दः॥
Friday, January 25, 2008
योद्धा
विश्वयुद्धे अनेके योद्धारः यशस्विनः। कदाऽपि दशकानन्तरं कस्यापि योद्धुः वीरकथा श्रूयते, अनन्तरं तेन योद्ध्रे पुरस्कारः दीयते। युद्धसमये कश्चन अनाथः तत्रत्यैः जनैः स्वीकृतः। किञ्च, अयं पुरुषः बालकः वा न, सः तु भल्लूकः। असामान्या कथा . . . कथञ्चित्, अस्य भल्लूकस्य, योद्धॄणां च मित्रता उत्पन्ना। कालक्रमेण हिंस्रः सः वशीकृतः।

यदा युद्धस्थलपरिवर्तनं जातं, ते योद्धारः अपगन्तव्याः, किन्तु एतं भल्लूकं अपि नेतुं उद्युक्ताः। किन्तु, केवलं दायित्ववद्भ्यः आहारादिषु व्यवस्था शक्या इत्यतः अनेनापि भारवाहनकार्यं आरब्धम्। अनन्तरं अनेन भल्लूकेन ध्वजे स्थलं रक्षितम्। इदानीं अस्मै ध्वजस्थाय भल्लूकाय पुरस्कारं दातुं केचन प्रयतमानाः सन्ति।

Wednesday, January 23, 2008
बालपण्डितः
अन्तर्जाले, कस्यचन शिशोः चित्राणि दृष्टानि। सुन्दरानि इत्यतः अत्रापि चित्रे प्रकाश्येते। रूशन् नामकः अयम्। बालकाः किं मन्यन्ते इति कोऽपि न जाने . . . मुखं तु बालकानां हृद्भावनायाः बिम्बं न भवति खलु? अतः वयं एव चिन्तयामः अयं किं करोति इति।
अहं चिन्तयामि यत् एषः भावी पण्डितः। प्रथमचित्रे मूलगीताग्रन्थं संस्कृतेन स्वयं पठित्वा, तीव्र-चिन्तनं करोति। सर्वं अपि आशङ्कां अपनय्य, अनन्तरं प्रवचति सामान्यबालकेभ्यः अयं रूशन्॥

अहं चिन्तयामि यत् एषः भावी पण्डितः। प्रथमचित्रे मूलगीताग्रन्थं संस्कृतेन स्वयं पठित्वा, तीव्र-चिन्तनं करोति। सर्वं अपि आशङ्कां अपनय्य, अनन्तरं प्रवचति सामान्यबालकेभ्यः अयं रूशन्॥

Friday, January 18, 2008
अक्षराः, तेषां वर्णाः च
सर्वेऽपि जनाः न समानाः। केचन विद्वांसः, केचन क्रीडानिपुणाः। केषाञ्चन मनसि नानाविधरोगाः। एकः रोगः एवमस्ति -- अस्मिन् लेखे बहवः अक्षराः वर्तन्ते। सर्वेऽपि कृष्ण-वर्णाक्षराः प्रायेण। अथवा लिप्याः वर्णं परिवर्त्य सर्वेऽपि अक्षराः रक्ताः स्युः। किन्तु, केचन जनाः सन्ति येषाम् अनुभवः एवं नास्ति। कथं तर्हि? सर्वस्य अक्षरस्य वर्णः पृथक् अस्ति। अतः शब्दः इत्येवं दृश्येत। यत्र यत्र श-कारः अस्ति, तत्र तत्र तस्य समानवर्णः। आङ्ग्लभाषिनी एका महिला बाल्ये एवम् अनुभूता -- कदाचित् P एवं R अनयोः रेखमात्रभेदः। अतः R इति लेखितुं प्रथमं P इति लेखनीयं, अनन्तरं रेखा योजनीया। किन्तु आश्चर्यम् !! रेख्यायां योजनायां सति, P पीतवर्णाक्षरः R कषायवर्णाक्षरः अभूत् !!
Subscribe to:
Posts (Atom)