Wednesday, October 13, 2010

आरूढः

पदमिदं श्रुतप्रायम् एवम्। हंसारूढा, गजारूढः, रथारूढः, वृक्षारूढः इत्येवं समासे च। ध्यानश्लोकादिषु अपि प्रचुरः प्रयोगोऽयं यथा -- गृहाणार्घ्यं मया दत्तं गजारूढ नमोऽस्तु ते॥ भारतीयाः वयम् इति श्रुत्वा, क्वचित् विदेशीयानि मित्राणि पृच्छेयुः एव -- गजारूढेन भवता पाठशाला गम्यते स्म नु? -- इति। तदा -- आम्, परन्तु आरोहणं क्लेशाय -- इति प्रत्युच्चार्य, तदनु चलच्चित्रम् इदं दर्शनीयम् ।

No comments: