मूलम् -- आदिपर्वणि प्रथमोऽध्यायः (५५-८३)
व्यासः महाभारतं कृत्वा अचिन्तयत् -- "कथं शिष्यान् अध्यापयानि" इति । तदा लोकगुरुः ब्रह्मा स्वयं तत्र आजगाम । तं दृष्ट्वा विस्मितः व्यासः आसनं कल्पयामास । अनुज्ञातः सन् आसनाभ्याशे निषसाद, उवाच च -- "भगवन् ! मया परमपूजितं काव्यं इदं कृतं, परं न कश्चित् लेखकः विद्यते" इति । तदा ब्रह्मा उवाच -- "काव्यस्य लेखनार्थं गणेशः स्मर्यताम्" इति ।
ततः व्यासः हेरम्बं सस्मार । स्मृतमात्रः गणेशः तत्र आजगाम यत्र वेदव्यासः स्थितः । पूजितः तथा उपविष्टः सन्, गणेशः व्यासेन उक्तः -- "गणनायक ! भारतस्य लेखको भव" इति । एतत् श्रुत्वा, विघेशः प्राह -- "यदि लिखतः मे लेखनी क्षणं न अवतिष्ठेत, तदा अहं लेखकः स्याम्" इति । व्यासोऽपि तं देवम् उवाच -- "अबुद्ध्वा मा क्वचित् लिख" इति । "ॐ" इति उक्त्वा गणेशः लेखकः बभूव ।
अतः मुनिः तदा तदा गूढं ग्रन्थग्रन्थिं चक्रे । गणेशः सर्वज्ञोऽपि तदा क्षणं विचारयन् आस्ते । तावत् व्यासोऽपि अन्यान् बहून् श्लोकान् चकार ।
2 comments:
It is also said:
अष्टश्लोकसहस्राणि अष्टश्लोकशतानि च।
व्यासो वेत्ति शुको वेत्ति सञ्जयो वेत्ति वा न वा॥
8800 Shlokas were (deliberately made) so complicated, that only Vyasa and Shuka knew the meaning. Even Sanjaya (speaks to his greatness!) [one is not sure] if he knows [the meaning] or not!
सुन्दरम् |
Post a Comment