वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥१॥
पदच्छेदः -- वाक्-अर्थौ , इव , सम्पृक्तौ , वाक्-अर्थ-प्रतिपत्तये , जगतः, पितरौ , वन्दे , पार्वती-परमेश्वरौ ॥
अन्वयः -- (अहं) वागर्थ-प्रतिपत्तये वागर्थौ इव सम्पृक्तौ जगतः पितरौ पार्वती-परमेश्वरौ वन्दे ॥
वाच्यपरिवर्तनम् -- (मया) वागर्थ-प्रतिपत्तये वागर्थौ इव सम्पृक्तौ जगतः पितरौ पार्वती-परमेश्वरौ वन्द्येते ॥
भावार्थः -- अहं विशिष्ट-शब्दार्थयोः सम्यक्-ज्ञानार्थं शब्दार्थौ इव नित्य-सम्मिश्रौ संसारस्य मातापितरौ शिवा-शिवौ भक्त्या नमस्करोमि ॥
For the right comprehension of words and their senses, I salute Parvati and Parameshwara, the parents of the world, who are perpetually united like words and their meanings.
वागर्थ-प्रतिपत्तये - for the right comprehension of words and their senses ॥ वन्दे - I salute ॥ पार्वती-परमेश्वरौ - Parvati and Parameshwara ॥ जगतः पितरौ - the parents of the world ॥ सम्पृक्तौ - who are perpetually united ॥ वागर्थौ इव - like words and their meanngs ॥
व्याख्या -- अहं पार्वतीपरमेश्वरौ वन्दे । कथं भूतौ पार्वतीपरमेश्वरौ ? सम्पृक्तौ, सम्मिलितौ एकीभूतौ । कौ इव ? नित्यसम्बद्धौ वागर्थौ इव । कस्मै प्रयोजनाय ? वागर्थप्रतिपत्तये, विशिष्टयोः शब्दार्थयोः अवगमनाय । पार्वती च परमेश्वरः च, पार्वती-परमेश्वरौ । पार्वतीं पाति रक्षति इति पार्वतीपः, रमायाः लक्ष्म्याः ईश्वरः रमेश्वरः, पार्वतीपः च रमेश्वरः च पार्वतीप-रमेश्वरौ, हरिहरौ । पुनः कथं भूतौ ? जगतः पितरौ । माता च पिता च पितरौ । {मातापित्रॊः इति एकशेषः ।} वाक् च अर्थः च वागर्थौ तौ इव । {इवेन सह नित्यसमासः विभक्त्यलोपः च इति । इवेन सह ऐकपद्यं, विभक्तेः अलोपः च ।} वागर्थौ इव । वाचाम् अर्थः यत्र सः वागर्थः, काव्यम् । तस्य प्रतिपत्तिः निष्पत्तिः, सम्पूर्णता । तस्यै वागर्थ-प्रतिपत्तये काव्य-निष्पत्तये इति अर्थः । उभयोः किम् इति नमस्कारः ? --
शिवा शब्दमयी प्रोक्ता शम्भुश्चार्थमयः स्मृतः ।
अतः शब्दार्थनिष्पतिसिद्धये तौ नतौ मया ॥
कथं मातुः पूर्वं नतिः ? अभ्यर्चितत्वात् पितुः युज्यते, यः च अर्चितं द्वयोः इति स्ववचनात्, कवेः देवी-नाम्ना प्रसिद्धत्वात् तत्प्रसाद-प्राप्त-महत्त्वात् च शिवाभ्यर्चिता । अन्यच्च्-
पतितोऽपि पिता त्याज्यो माता नैव च नैव च !
गर्भाधारणपोषाभ्यां ताभ्यां माता गरीयसी ॥
I salute Parvati and Parameshwara, who are ever linked and united like a word and its intended meaning. For what reason? For the correct understanding of a word’s import. Or, in a secondary sense, parvatipa-rameshwarau may be understood as Shiva and Vishnu. They are the progenitors of the world. In order to complete this kavya successfully, I salute them.
3 comments:
गर्भधारणपोषाभ्यां तयोः माता गरीयसी इति समिचीनः पाठः स्यात्।
पार्वतीपः शिवः रमेश्वरः विष्णुः इति शैववैष्णवसंयोगः केवलं पाण्डित्यं एव प्रकटयति। एवं चेत् वागर्थाविव संपृक्तौ इति तस्य महाकवेः काव्यमाहात्म्यं आदावेव उद्घोषयन् शिवपार्वत्योः अर्धनारीश्वररूपं उद्दिशन् उपमासमासः वृथा अप्रासङ्गिकश्च भवेत्।
Post a Comment