Thursday, August 10, 2006

सूर्यास्तः

मम नगरस्य समीपे एकं लघुं द्वीपम् अस्ति. अन्यनागरिकाः अत्र आगच्छन्तः सर्वदा तत्र गन्तुं प्रयतन्ते. तत् द्वीपं तु अतिरमणीयं नास्ति....ततः जनाः किमर्थं अत्र आगच्छन्तः तत्र गच्छन्ति? यतः, नौकया द्वीपात् प्रत्यागमन-समये सूर्यास्तमनं अतिरमणीय़ं दृश्यते. केषु दिनेषु, तटाकः दर्पणः इव प्रतिभासन्, सूर्यः अतिरश्मिमान् भवति. सूर्यः आकाशात् किरणान् क्षिपति. अन्यः बलवान् सूर्यः अपि तटाक-मध्यात् किरणान् आकाशं प्रतिक्षिपति ! परन्तु, एतत् रमणीय़ं दर्शनं सर्वदा सर्वेभ्यः न लभन्ते. ततः अन्यनागरिकाः अत्र बहुशः आगत्य एतत् दर्शनं एकवारं लब्धुं प्रयतन्ते.

No comments: