Thursday, April 12, 2007

उत्पन्नपश्चात्

उत्पन्नपश्चात् तापस्य बुद्धिः भवति यादृशी ।
तादृशी यदि पूर्वं स्यात् कस्य न स्यान्महोदयः ॥

यादृशी बुद्धिः तापस्य उत्पन्न-पश्चात् भवति , यदि तादृशी पूर्वं स्यात् , महोदयः कस्य न स्यात् ?

यादृशी - यथा । बुद्धिः । तापस्य - दुःखस्य । उत्पन्नपश्चात् - सृष्टिपश्चात् । भवति । यदि । तादृशी - तथा । पूर्वम् - दुखस्य पूर्वम् । स्यात् - अभवत् । महोदयः - मुक्तिः, ऐश्वर्यम् । कस्य । न । स्यात् - भवति ।

सर्वेषां क्लेशः कदाऽपि भवति । तदनन्तरं चिन्ता-मग्नः भवामः । यया क्रियया क्लेशः जातः, सा क्रिया पुनः अकरणीया इति सङ्कल्पं कुर्मः । किन्तु , क्रियायाः पूर्वं एव तथा चिन्तयामः चेत् , कोपि क्लेशः न भवति । एवं मुक्तिः ऐश्वर्यं च सदा अस्माकं भवति खलु ?

No comments: