Wednesday, April 25, 2007

कार्यव्यस्तः

सङ्गणक-तन्त्रज्ञानां सामान्य-वचनम् । कदाऽपि कार्यं स्वल्पं भवति । किन्तु प्रायेन सर्वदा अधिकं भवेत् । एतस्मिन् मासे मम कार्यभारः द्विगुणितः । तर्हि कार्यं विना अन्यत् कर्तुं समयः अलभ्यः । कार्यालये स्थित्वा विराम-काले इतिवृत्तपुटलेखान् इत्यादीन् करोमि । अद्य, ब्रह्ममुहूर्ते कार्यालयम् आगत्य महान् शब्दः । ममैव भवने, पार्श्वस्थितस्य प्रकोष्ठस्य परिवर्तन-निर्माणं प्रचलति । सतत-मुद्गर-शब्दः !

No comments: