Monday, April 09, 2007

व्याकरण-ग्रन्थाः

संस्कृतक्षेत्रे अनेके व्याकरण-ग्रन्थाः, किन्तु सर्वेषां मूल्यं पाणिनेः अष्टाध्यायी । पाणिनेः पूर्वम् अन्ये व्याकरण-ग्रन्थाः अवश्यम् आसन्, किन्तु ते अद्यत्वे अलभ्याः । काल-प्रवाहेण अन्ये नूतन-ग्रन्थाः अपि रचिताः -- सिद्धान्तकौमुदी इद्यादयः ।

कौमुद्यां अष्टाध्याय्याः एव सूत्राणि, किन्तु क्रमः भिन्नः । केचन पण्डिताः वदन्ति अष्टाध्याय्याः क्रमः एव उचितः, यतः तेन विना रटनं, विना काठिन्यं प्रति-सूत्रम् अवगन्तुं शक्यते इति । कथं एतत् ?

अधः लिखितानि सूत्राणि मया रचितानि ।

  1. दूरदर्शनं सप्ताहान्ते ।
  2. न सन्ध्यायाम् ।

अत्र, द्वीतीयं सूत्रम् एव दृष्ट्वा अर्थः अज्ञातः । किन्तु , क्रमेण पठामः चेत्, अर्थः सरलः । यतः, द्वीतीयं सूत्रं भवति -- सप्ताहान्ते सन्ध्यायां दूरदर्शनं न भवतु । एवम् एव अष्टाध्याय्याम् । पूर्व-सूत्रेभ्यः शब्दाः प्रवहन्ति । तस्य नाम अनुवृत्तिः । प्रत्येकं नग्नं सूत्रं न अवगन्तुं शक्यते । परन्तु , अनुवृत्तिना सह अर्थः सरलः इति पण्डिताः उपदिषन्ते ।

3 comments:

Himanshu Pota said...

भवान् सम्यक् लिखति| प्रचीनभारतस्य शिक्षणस्य अनुक्रमः (method) भिन्नः आसीत्| तत्र ज्ञानं सूत्रेण बध्यन्ते (bind) यदा कोऽपि सूत्रं ग्रहितुं शक्यते तदा सः ज्ञानं लभ्यते| शिक्षणस्य हेतुः सूत्रज्ञानमेव आसीत्|

हिमांशुः

अनामकः said...

अद्यत्वे पाणिनेः सूत्राणां परिचयं कारयितुं पुस्तकानि प्रकाशितानि -- अरविन्दाश्रमस्य 'व्यावहारिकं पाणिनीयम्', तथा ब्रह्मदत्तजिज्ञासु पण्डितस्य पुस्तकानि च ।

aparaark said...

nosamyag likhitam!!!!!!!!!!!!!!!