Saturday, May 05, 2007

रिक्तम्

ह्यः यदा अहं गृहं गतः, पत्न्या निवेदितम् -- आपणः गन्तव्यः -- इति । प्रायः किमपि वस्तु क्रेतुम् इच्छति इति चिन्तयन् , अस्तु इति उक्त्वा , स्वकार्यं पालयन् आसम् । अनन्तरं यदा अहं हैमयन्त्रम् उद्घाटितवान् , आश्चर्यचकितोऽहं अहो इति उच्चारितवान् । हैमयन्त्रं रिक्तम् आसीत् । दधि, क्षीरं, शाकं, फलं . . . एकम् अपि नासीत् । पत्न्या उक्तम् -- यतः भवान् कार्यव्यस्तः, इतः पूर्वं एषः विषयः अनुक्तः, किन्तु इदानीं गमनं विना किं वा करवाव इति । किन्तु , प्रतिदिनं सा सम्यक् भोजनं पचति अपि ! बहूनि शाकानि सन्ति चेत् अपि मम पचनं तु सामान्यम् । प्रत्युत, यद्यपि स्वल्पम् एव आसीत्, तेन पत्नी रुचिकरं भोजनं पक्ववती । यद्यपि सा स्वपचनकौशलं न अभिजानाति, मम जिह्वा मां सम्यक् निवेदयति ।

2 comments:

m r rao said...

अहं संस्कृतस्य तीव्रानुरागी। भारते अन्यत्र च यथापूर्वं सर्वे संस्कृतं वदन्तु इति मम गाढाशा। तदर्थं आधुनिके दैनिकजीवने उपयुज्यमानानां वस्तूनां उपकरणानां च संस्कृतनामानि कल्पितव्यानि। हैमयन्त्रस्थाने शीतकं (शीतं करोतीति शीतकं) युक्तं भवेत्‌ इति मम अभिप्रायः। एवमेव अन्यवस्तूनां नामानि वाचकाः जालेलग्नाश्च (web logger/blogger इति अलुक्समासः) कल्पयन्तु यानि पृथक्‌ जालस्थाने (web site) प्रकाशितानि भवन्तु। नवीनामरसिंहाः कोषं रचयन्तु!

अनामकः said...

नमस्ते महोदय,

एवं,comment लिखित्वा, कृपया मम साहाय्यं सदा करोतु । मम ज्ञानम् अत्यल्पम् । उपयोग्याः शब्दाः अज्ञाताः भवन्ति मया ।