तस्मिन् दिने अमावस्या तिथिः आसीत्। तदानीम् एव राहुः सूर्यं ग्रस्तुं शक्नोति स्म। किन्तु, सः सूर्यबिम्बम् अदृश्यं ज्ञात्वा इन्द्रलोकं ययौ। इन्द्रं सम्बोधितवान् च--हे देवराज्! भवान् जानाति एव अहं यदा-कदा पूर्णिमायाम् अमावास्यां च एव आहारं करोमि। अद्य मम आहारकाले कः सूर्यं स्वमुखे निगीर्णवान्? मर्यादायाः उल्लङ्घनं केन कृतम्?
देवराजः इन्द्रः ऐरावतमारुह्य स्वर्गात् बहिः आगच्छत्। केन च् एतादृशी धृष्टता कृता? शिशुः कपिः तु राहुम् अपि परिपक्वं जम्बूफलं मत्वा खादितुम् ऐच्छत्। किन्तु सः त्राहि माम्, त्राहि माम् इति कथयित्वा क्रन्दितुम् आरभत। तदानीं कपिः ज्ञातवान् यत् अयं कश्चित् प्राणी विद्यते। राहुः च पलायित्वा ऐरावतस्य पृष्ठभागे अन्तर्दधौ। शिशुः कपिः यद्यपि सूर्यं मुखे रक्षितवान् आसीत् किन्तु सः फलमिव स्वादिष्टः न अनुभूतः। तस्य रश्मिभिः कपिः ज्ञातवान् यत् अयम् अपि कश्चित् प्राणि विद्यते। अतः तमपि मुखात् बहिः निःसारितवान्।