Monday, July 23, 2007

पुष्पोत्सवः

सप्ताहान्ते, आवाभ्यां लवण्डर् नाम्ना पुष्पोत्सवः गतः । पूर्वं तत्रत्या सर्वेषां जीवन-वृत्तिः क्षीर-दोहने आसीत् । किन्तु सः व्यवहारः नष्टः । यतः भूमिः कृषक्षेत्रयोग्या, पुष्पाणि वपणीयानि इति निश्चितम् । सुव्यवस्था कृता चेत् सर्वेभ्यः अतिथयः आगच्छन्ति इति सङ्कल्प्य एकादशवर्षीयः उत्सवः अयम् । रमणीय-क्षेत्रे, शान्त-वातावरणे मधुरस्य दृश्यस्य पानं कृतम् । सुगन्धः नयनाभ्याम् आघ्रातुं शक्यते इव । यद्यपि बहूनि नगरानि वर्तन्ते तत्र, प्रकृतिः अस्पृष्टा इव भाति । उन्नताः शाल-वृक्षाः नयनगोचरात् अतिक्रामकाः । हरितवर्णावृतं सर्वम् । मृगाः निश्चिन्तया चरन्ति । अपूर्वं दृश्यम् इदम् । तन्मध्ये गानं, नृत्यं, आहारः च । सप्ताहान्ते यावत् देवाः इव सर्वे रमन्ते ।

3 comments:

Anonymous said...

छायाचित्रं बहु सम्यक् अस्ति। एषः उत्सवः कुत्र अभवत्?

अनामकः said...

अमेरिका देशस्य पश्चिम-प्रान्ते sequim नाम्ना नगरे ।

Anonymous said...

उत्तमम्!