Sunday, July 08, 2007

न कोऽपि हिन्दुः भवेत्

मलेस्या-देशे, हिन्दू दम्पती। विवाहस्य समनन्तरम् मत-परिवर्तनं कृत्वा ईस्लाम-मतम् अवलम्बितं ताभ्याम्। तयोः एकः शिशुः जातः। किन्तु, तस्याः शिशोः पालनं सर्वथा हिन्दुना मातामह्या कृतम्। आजीवनं अस्याः महिलायाः हिन्दु-व्यवहारः, यथा मातामह्याः। मलेस्या-देशे, केनापि ईस्लाम-मतीयेन, कदाऽपि मत-परिवर्तनं न कर्तुं शक्यते। सर्वकारः दण्डनं कर्तुं सिद्धः, हननम् अपि कर्तुं सिद्धः, किन्तु ईस्लामात् मत-परिवर्तनं कदापि न अङ्गीक्रियते। यतः एषा मातामह्या हिन्दुना पोषिता रेवती नाम्ना महिला ईस्लाम-पितृभ्यां जाता, सा हिन्दु-मतम् इदानीं अवलम्बितुं न शक्यते इति सर्वकारेण उद्घोषितम्--यद्यपि वस्तुतया पितरौ हिन्दू एव, अपि तु सा स्वयं हिन्दुः इति आजीवनम् विश्वसिति रेवती! तस्याः मनःशोधनाय (!) षट्सु मासेषु कारा-गृहे तां बन्धयित्वा, तस्याः ईस्लाम-व्यवहारः बलात्कारेण कृतः। मांसाहारः अपि। एषा अस्ति स्थितिः विश्वे। किन्तु एषु ईस्लाम-देशेषु एवं भवति चेत्, को वा क्रन्दति?

1 comment:

दिवाकर मणि said...

सत्यं भणति भवान् !! एकमात्र हिन्दुबहुल भारतदेशे हिन्दवः असमर्थास्सन्ति भो ! अत्रैव हिन्दुजनानां मतपरिवर्तनं भवति, कश्मीरी पण्डिताः अस्मिन्नेव देशे शरणार्थीरूपे निवसन्ति तर्हि मलेशियादेशे किञ्चिद्भवति तत्तु चिन्तनस्य को लाभ:?