- संस्कृतं पठित्वा अवगमनं, अनुवादं पठित्वा अवगमनं, तयोः महदन्तरम्। अनुवादेन रसबोधनं कठिनम्।
- यत्र मूलावगमनं कठिनम् , तत्र अनुवादं पठित्वा संस्कृतस्य पुनःपठनं--तस्य महान् लाभः। यतः सूक्ष्म-भावः तु कृत्रिमे कदाऽपि न भवत्येव।
- छन्दसि लिखितं, तस्य अनुवादं कः लेखितुं समर्थः?
Wednesday, August 01, 2007
स्तरः कः
किमपि कार्यं सततं कुर्वतः स्फलता तु भवत्येव। किन्तु तदन्तरे अफलतां मनसि निधाय, ध्यानं कुर्वतः आशाभङ्गः एव भवति। तर्हि सज्जनवता कर्मयोगिना भवितव्यम्। किन्तु, अहं शान्ति-मूर्तिः नास्मि। यद्यपि संस्कृतपठनं दैवकार्यम् , परस्य साधनं कदा भवेत् इति चिन्तनम्। ततः यदा ग्रन्थालयं गतः, पुराणौ स्वीकृतौ। किमपि अवगन्तुं शक्यते वा इति प्रश्नः। आश्चर्यचकितोऽहम्। भावः तु किञ्चित् अवगन्तुं शक्यते। यत्र सन्देहाः वर्तन्ते, अधो लिखितं आङ्ग्लानुवादं पठित्वा, अवगन्तुं शक्यते। मम सुखस्य पारः एव अज्ञातः तत्क्षणे। ज्ञातम् यत् --
2 comments:
सत्यमुक्तं भवता । अनुवादे पठिते रसानुभवः न भवति यतः बहूनां उपमानानां अन्यानाम् अलङ्काराणाम् अनुवादः कर्तुं न शक्यते ।
सियाटल्-नगरग्रन्थालयेषु संस्कृतभाषापुस्तकानि लभ्यन्ते किम् ? उत्तमम् ! अन्तर्जाले अपि स्युः बहूनि काव्यानि अन्यानि पुस्तकानि च । अन्वेषयामि |
आम्, अत्र संस्कृतभाषापुस्तकानि बहूनि लभ्यन्ते, यतः पूर्वं विश्वविद्यालये संस्कृतविभागः बलवान् आसीत्। बहूनि पुस्तकानि केनापि न पठितानि। अन्तर्जाले अपि "digital library of india" वर्तते। तत्रत्य-पुस्तकराशिं दृष्ट्वा आश्चर्यचकितः भवेत्।
Post a Comment