Monday, November 26, 2007

धन्यवादाय

अमेरिका-देशे, पूर्वस्मिन् सप्ताहे गुरुवासरे देशीय-विरामः। बहुषु स्थलेषु शुक्रवासरः अपि विरामदिनम्, अतः पञ्चदिनात्मिका विराममाला बहुभिः लब्धा। देसेम्बर-मासे सर्वेऽपि प्रायेण सप्ताहद्वयात्मकविरामं स्वीकुर्वन्ति। कार्यालये यदा योजना क्रियते, ह्रस्व-मासः इति सर्वेऽपि चिन्तयन्ति। किन्तु, तस्य मासस्य पूर्वभागेऽपि बहु कार्यं न क्रियते, इति कर्मकराः घोषन्ति। किमर्थम्? एकपक्षे धन्यवाद-विरामः, अपर-पक्षे क्रीस्तविरामः, मध्ये केवलं द्वौ सप्ताहौ। अतः कार्यं कर्तुं मनः न अङ्गीकरोति॥

1 comment:

Anonymous said...

नमस्कार:।

साधु। एतद इतिवृत्तम अतीवरोचकम।

भवदीय:
भालचंद्रशर्मा