Tuesday, May 06, 2008

आकाशवाणी / AIR

प्रायेण सर्वेऽपि पठितारः "आकाशवाणी/AIR" संस्थां जानीयुः। अन्तर्जाले अस्याः संस्थायाः इतिहासे किञ्चित्मात्रं गवेषणं कृतम्। इङ्ग्लण्ड-शासन-समये AIR इति नाम्ना संस्थया व्यवह्रियते स्म। स्वातन्त्रताऽनन्तरं आकाशवाणी इति पदं प्रयोक्तुं प्रयतते स्म सा संस्था। किन्तु, तदा तमिलु-जनैः विरोधः कृतः -- इदं पदं हिन्दी-पदं, यस्य आक्षेपः अस्मदोपरि न सोढव्यः-- इति। वस्तुतया इदं पदं कन्नडा-भाषायाः स्वीकृतम्। बहोः कालात् तत्र प्रयुक्तम्। किन्तु उन्मत्त-तमुलु-जनानां दृष्ट्या -- यदि किमपि पदं हिन्दी-भाषिभिः अङ्गीक्रियते, तर्हि तत् पदं हिन्दी-पदम् एव -- इति निर्णीतम्। अतः, तमिलु-राज्ये एव AIR इति पदं अद्यावधि "आकाशवाणी" इति पदस्य स्थाने तिष्ठति।

न अवगतं तैः यत् नैकानां मातृभाषीणां इदं पदं सरल-अवगमनार्हं . . . तदस्ति अस्य वैशिष्ट्यम्। वस्तुतया पदं इदं संस्कृतम् -- तत्र न कोपि आश्चर्यम्। यतः सा पवित्रभाषा सरलबोध्या, सरलावगम्या च।

3 comments:

ramesh said...

महोदय,
१) "आकाशवाणीति" नाम गोपालस्वामीति ख्यात: कश्चित कन्नडभाषीय: रूपितवान।
२) " किन्तु उन्मत्त-तमुलु-जनानां दृष्ट्या"
एतद्वाक्यं भाषाद्वेषं जनयति। सर्वे तमिळुजना: न उन्मत्ता: तेष्वपि बहव: बुधा: सन्ति। भवद्भि: एतादृशाभिप्राय: न प्रकटनीय:।
यद्यपि बहि: AIR इति फलक: स्यात तथापि वार्तापठनसमये "वानुलिनिलयम" इत्येव वदन्ति। न आकाशवाणी इति।

अनामकः said...

भवतः प्रतिस्पन्दनां मनसि निधाय अग्रे लिख्यते। तथाऽपि केचन अंशाः --

उन्मत्त-तमिलु-जनाः इति पदं नाम्ना किम् अपेक्षितम् आसीत्? तमिलु-भाषा मातृभाषा येषां, ते तमिलु-जनाः। तेषु केचन उन्मत्ताः, ते उन्मत्त-तमिलु-जनाः।

अपि च लेखकः स्वयं तमिलु-मातृ-भाषीयः एव।

Ravi Devaraj said...

उन्मत्त-संस्कृतम्-जनाः