Thursday, July 30, 2009

पञ्चतन्त्रम्

कथामाला इयं सुप्रसिद्धा, न केवलं संस्कृतक्षेत्रे, यतो हि गतेषु शतकेषु यात्रिकैः नीत्वा, विभिन्नदेशेषु नानाभाषाभिः प्रकाशिता। अद्यत्वे, यैः भारतमूलैः पितृभिः संस्कृतशिशवः इष्टाः (संस्कृतशिशुः नाम उन्नीतः परिपक्वः), तैः पञ्चतन्त्र-हितोपदेशादयः पाठ्यन्ते। बालकेभ्यः अवश्यम् रोचते मृगवचनादीनि।

यदा मया किञ्चित् पठितम्, अभिज्ञातं यत् सर्वैः अपि तन्त्रमिदं पठनीयम्। गद्यपद्यात्मकं, नानार्थैः सन्निहितम् च। शैली तु आस्वादनीया। बहुत्र, छात्राणां रघुवंशादि-महाकाव्ये एव रुचिः। किन्तु, मह्यं गद्यपद्यात्मक-कृतयः रोचन्ते। महाकाव्यानाम् उपमाः अद्वितीयाः। किन्तु, गद्येषु सुभाषितानि, नित्यव्यवहारपदानि च अधिकानि। व्यवहारे, बहुत्र अस्माभिः नूतनपदनिर्माणं क्रियते। गुरोः अभावात्, यद्यपि उचितपदानि शिष्टैः प्रयुज्यन्ते, अस्माभिः पदान्तरेण व्यवह्रियते। पुनः कालिदासादिभिः सदा योग्यपर्यायपदानि एव सन्निवेशे युक्तानि। किन्तु शङ्का जायते -- सामान्यपौराः कथं भाषन्ते स्म . . . एतेन एव पदेन -- इति। तत् तु गद्यपठनेन ज्ञायते।


वयं सर्वेऽपि बहिः भोजनालये खादामः। बहुत्र left-overs इत्यस्य स्वीकारः। doggy-bag इत्यस्य प्रयोगः वा। अतः कुक्कुर-पोटलिका इति श्रुतं कस्यापि मुखात्। पञ्चतन्त्रे 'भक्षित-शेषम्' इति पदं युक्तम्। तत्तु उचितपदम् एव इति भाति। पञ्चतन्त्रादीनां पठनेन बुद्धिः सुसंस्कृता, भाषाऽपि परिष्कृता भवति इति मे विश्वासः।

No comments: