
गते सप्ताहान्ते कावेरीनामकशिबिरम् आवासीयं प्रावर्तत देशस्य अस्य पश्चिमे तटे, golden-gate-सेतोः पार्श्वे, पर्वतशिखरे। रमणीयं स्थलं, सुखमयं संस्कृतव्याप्तदिगन्तरं, रुचिकरं महार्हं भोजनम् इत्यादि सर्वमपि आह्लादजनकम्। कुटुम्बशिबिरेऽस्मिन् न केवलं ज्येष्ठाः, प्रत्युत बालाः युवकाः युवत्यः प्रौढाश्च भागम् अवहन्। दिनद्वयेऽपि उपषष्टि संस्कृतप्रेमिनः कालं नीतवन्तः। संस्कृतेन पठनं, संस्कृतेन योगाचरणं, तेनैव भाषया क्रीडा इत्यादि। अग्रिमे संवत्सरे अस्माभिः साकं भवन्तः सर्वेऽपि पठितारः भागं वहेयुः इति सर्वेषाम् अस्माकं भागिनां प्रार्थना !
1 comment:
नमस्ते,
उत्तमा वार्ता । किञ्चित् परिष्करणम् - कवेरीशिबिरे ६६ जनाः भागम् ऊढवन्तः ।
Post a Comment