Wednesday, September 29, 2010

अयोध्यायां कलहः

आसेतुहिमालयमपि सोत्कण्ठम् उच्चन्यायालयघोषणां सावधानं श्रोतुं स्तम्भायते। पञ्चषदिनेभ्यः प्राक्, आसन्ने काले, अधिवक्तृभिः पुनः कालक्षेपः कृतः। सर्वेऽपि योद्धारः अनन्यगतिकतया भीताः शान्ताः इव। किं वा कुर्याम? अस्मिन् वा अवसरे अस्माकं मानः रक्षितः भवति? अस्माकं संस्कृतिः रक्षिता भवति? मतान्तराधिकारिनः अधिकृत्य यः मृदुस्पर्शः आचर्यते, या पूजाभावना विधीयते, किं तस्य अंशमात्रं वा भारतीयधर्मं मनसि निधाय अपि विडम्बयेत? किम् अनादरः अपमानश्च एकवारं वा त्यज्येते? किं विश्वासपात्रता प्रदर्श्यते यस्मात् जनाश्वासः श्रूयेत? अथवा पुनः हताशाः वयं भवेम? धर्मो रक्षति रक्षितः इति ननु वचनम्। प्रत्युत यदि धर्मः पुनः त्यक्तः भवति, अस्माकं का स्थितिः?

No comments: