Tuesday, September 14, 2010

छान्दसः सौन्दर्यम्

आदौ, यदा व्यावहारिकसंस्कृतस्य उपस्थापनं क्रियते, बहूनि सरलवाक्यानि वदामः -- मम पुस्तकं ददातु -- यथा। कर्ता, कर्म, क्रिया यथाक्रमं योजयित्वा, वाक्यरचना। गच्छता कालेन, सः एव प्रयोगः अभ्यस्तः भवति। परन्तु, यदा विद्वद्वचनं परिशीलयामः, क्रमान्तरं बहुत्र दृश्यते। कदाचित् अंशोऽयं भाति -- छादसः सौन्दर्यं श्रूयते। रामायणे विश्वामित्रः वसिष्ठात् पृच्छति -- शबला दीयतां मम। छान्दसः कारणात् सौन्दर्यं वर्त्तते इति मम भाति। तथैव ननु -- ददातु पुस्तकं मम -- इत्यस्य सौन्दर्यम् अपि किञ्चित् वर्त्तते इति?

1 comment:

अश्वमित्रः said...

तादृशस्याऽपि वचनस्य सौन्दर्यं खल्वस्तीति मम मतिः। वृत्तं एकोऽलंकार एव भवति सर्वास्तु मानव्या भाषाः स्वभावादेव सुन्दर्यो भवन्ति॥