Saturday, October 16, 2010

विजयदशमी

दशमीतिथिः समासन्नः। नवरात्रे अहोरात्रं घोरतरं तपः कृत्वा, मानसिकासुरान् मधुकैटभादीन् विजित्य जितेन्द्रियाः इव सर्वेऽपि एकाग्रबुद्धयः कृतव्रताः वीतमन्यवः। क्वचित् सूर्योदये नवमीशेषत्वात् श्वो भूत्वा विजयदशमी आचर्यते, अपरत्र अद्यैव। पुण्यकालेऽस्मिन् आयुधपूजा क्रियते, यत्र ज्ञानैकलक्षणाः पुस्तकपूजां कुर्वन्ति। दृष्टप्राये चलनचित्रे अत्र स्थाप्येते यत्र पुण्यपात्राणि रामादयः ऋषयश्च बुद्बुधगिरा प्रार्थयन्ते॥

वीणापाणि नमस्तुभ्यम्
नमस्तुभ्यं हंसवाहिनि ।
नमस्तुभ्यं वाग्दायिनि देवि
सरस्वति नमो नमः ॥



No comments: