Thursday, October 21, 2010

वाल्मीकिजयन्ती

वाल्मीकिजयन्ती अद्य श्वो वा भविता। भारते क्वचित् अद्य पर्वदिनम् आचर्यते। बङ्गलूरुनगरे शुक्रवासरे श्वः विरामदिनम् उद्घुष्टम्। न केवलं तं महर्षिं स्मर्तुं स्तोतुं वा अवसरोऽयं, प्रत्युत तस्य कृतीः प्रयोक्तुं दिव्यावसरोऽयम्।

समाजे किञ्चित् दलं स्वं वाल्मीक्यनुयायि मन्यते। सर्वोत्कृष्टकृती रामायणं, योगवासिष्ठं च ये द्वे श्रीवाल्मीकिना विरचिते। पूजावसरे एतयोः द्वयोः पठनम् एव मुख्यांशः। योगवासिष्ठे सर्वविधतथ्यानि वाल्मीकिना उदीरितानि। मुख्याख्यानं तु रामजागरणं श्रीवसिष्ठेन। अद्यत्वे विरलाः एव अस्य पठितारः।

वेदान्ततत्त्वविचारे सार्वजनीयः प्रश्नः -- बहुषु विद्यमानेषु मार्गेषु कतमः मार्गः श्रेष्ठतमः -- इति। भक्तिः उत ज्ञानम्? ज्ञानम् उत कर्म ... इत्यादि। योगवासिष्ठे सुतीक्ष्णनामकः प्रयाता अपरोक्षदर्शिनम् अगस्तिम् ऋषिं पप्रच्छ --

सुतीक्ष्ण उवाच --
मोक्षस्य कारणं कर्म ज्ञानं वा मोक्षसाधनम् ।
उभयं वा विनिश्चित्य एकं कथय कारणम् ॥

अगस्तिरुवाच --
उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः ।
तथैव ज्ञानकर्मभ्यां जायते परमं पदम् ॥

पक्षी कश्चित् कथं वा आकाशस्थं स्वनीडं प्राप्नुयात्? अन्तिमताडनं सव्यपक्षस्य असव्यपक्षस्य वा स्यात्, किन्तु उभाभ्यां विना तलस्थितिमात्रम्। अतः यथा उभौ अपि पक्षौ विना पक्षी आकाशे नैव उड्डयते, तथा एव कर्म विना, ज्ञानं विना वा परमपदप्राप्तिः नैव भवेत्।

4 comments:

Anonymous said...

अत्यन्तं सुन्दरौ श्लोकौ । विषयोल्लेखनाय धन्यवादः ।

Anonymous said...

dhanyavaadah

अश्वमित्रः said...

सुन्दरौ श्लोकौ सुन्दरं प्रवचनम्॥

samskrithikam said...

विषयोल्लेखनाय धन्यवादः