Monday, October 25, 2010

पञ्चतन्त्रपद्धतिः

पञ्चतन्त्रपठनावसरे केचन प्रश्नाः उद्भवन्ति --

(१) राज्ञा अमरशक्तिना त्रयः विवेकरहिताः पुत्राः बुद्धिप्रकाशनार्थं विष्णुशर्मणे ब्राह्मणाय समर्पिताः। तस्य च ब्राह्मणस्य सिंहनादः -- एतान् मासषट्केन नीतिशास्त्रज्ञान् करोमि -- इति। किन्तु २४० पुटैः लघ्वाकारवान् अयं ग्रन्थः। अस्माभिः प्रतिदिनं पुटद्वयमात्रं पठित्वा मासषट्केन संपूर्णं ग्रन्थं पठितुं शक्यते। आदिनं विष्णुशर्मणा विवेकरहितबुद्धिप्रकाशाय किं वा कृतम्?

(२) पञ्चतन्त्रकं नाम नीतिशास्त्रं बालावबोधनार्थं भूतले प्रवृत्तम्। बालाः शास्त्रविमुखाः स्युः, अल्पवयस्काः वा। ग्रन्थेऽस्मिन् मुख्यपात्राणि बहुधा वनजन्तवः। अल्पवयस्काः यदा पठन्ति, अनेन रुचिवर्धनेन अवधानं सुस्थिरं भवति। अतः बालाः नाम अल्पवयस्काः एव। किन्तु, सुभाषितानि नैकाने दृश्यन्ते ग्रन्थेऽस्मिन्। अवश्यम् शास्त्रविमुखानां विवेकरहितानाम् अल्पवयस्कानां सुभाषिताध्ययने रुचिः न स्यात्। अतः बालाः नाम अल्पवयस्काः नैव। कथं वा समाधानप्राप्तिः?

भवन्तः पठितारः कृपया स्वाभिप्रायं प्रकटीकुर्वन्तु।

2 comments:

Yaajushi said...

१. मासाषट्के एतान् नीतिशास्त्रज्ञान् करोमीति उक्तं तत् केवलं कथाकथनेन करोमीत्यासीद्वा? मया सः ग्रन्थस्तु न पठितः आमूलात्। कथाः इतस्ततः पठिताः। मन्ये कथामुक्त्वा पश्चात् तामङ्गीकृत्य चर्चां कुर्युः। अल्पबुद्धीनां कृते अविवेकिनां वा साहाय्यार्थं विष्णुशर्मणः कथा महदुपकारिणः भवेयुः यदि कथाः श्रुत्वा पुनः गभीरं चिन्तनमपि भवेत्।

मन्ये आदिनं तैः तदेव कृतं स्यात्।

२. इदमिदानीमेव मया ऑस्कर-वाईल्ड-महोदयस्य कथाः पठिताः। न केवलं ताः, अपितु नैकाः कथाः जगति मानवेतरान् अधिकृत्य वर्तन्ते याः अल्पवयस्कानां बुद्धेः पराः सन्ति। पञ्चतन्त्रस्थाः कथाः निश्चयेन शास्त्रविमुखानां बोधनार्थमेव इति मे मतिः। अल्पवयस्काः ताः श्रुत्वा साधु अवहिताः भवन्ति इत्यत्र न संशयः। तत्र उपस्थितं गूढार्थं तु ते नावगच्छन्ति। कथा तु तैस्सह तिष्ठत्येव मनसि। यथा यथा ते युवावस्थायां प्राप्नुवन्ति तथा तथा एतत् ’सब्-कौन्शियस्’ ज्ञानं स्वयमेव प्रकाशते। तथापि ग्रन्थस्य मुख्यहेतुः अल्पबुद्धीनामवबोधः एव इति मन्ये। यतः यदि अल्पवयस्कानां कृते अभविष्यत् तर्हि अल्पवयस्कानां यथा सम्पूर्णमवगमनं स्यात् तथा अवर्तिष्यत।

Yaajushi said...

अपरमपि किञ्चित् वक्तुमिच्छामि। बालानां सुभाषितपठने रुचिः प्रायः न विद्यते इति सत्यम्। कथाकथनप्रसङ्गे तु कथानिमित्तेन यत् ज्ञानं प्राप्यते तत् सहजम्। तत्र शास्त्रादीनां नीरसताशुष्कतारूक्षतादयः कथासम्बन्धेन आच्छाद्यन्ते। सुभाषिताः जामिताजनकाः न, अपितु कथायाः एव अङ्गाः भूत्वा अनायासमेव स्वीकृताः भवन्ति। तस्मादेव विष्णुशर्मणा राजपुत्रेभ्यः कथाः उक्ताः खलु :)